महाराष्ट्रे आगामीपञ्चवर्षेषु आधारभूतसंरचनाक्षेत्रे शत-अरब-अमेरिकीडॉलर्-परिमितनिवेशस्य लक्ष्यम् : मुख्यमन्त्री।
मुंबई , 25 नवम्बरमासः (हि.स.)। महाराष्ट्रसर्वकारेण आगामीपञ्चवर्षेषु राज्यस्य आधारभूतसंरचनाक्षेत्रे शत-अरब-अमेरिकीडॉलर्-परिमितं निवेशम् आकर्षयितुं लक्ष्यम् निर्धारितम् अस्ति। मुख्यमन्त्री देवेन्द्र फडणवीसः नवम्बरमासस्य २५ दिनाङ्के मुम्बईनगरे आयोज
सीएम  देवेंद्र फडणवीस विश्व महापौर सम्मेलन में बोलते हुए


मुंबई , 25 नवम्बरमासः (हि.स.)।

महाराष्ट्रसर्वकारेण आगामीपञ्चवर्षेषु राज्यस्य आधारभूतसंरचनाक्षेत्रे शत-अरब-अमेरिकीडॉलर्-परिमितं निवेशम् आकर्षयितुं लक्ष्यम् निर्धारितम् अस्ति।

मुख्यमन्त्री देवेन्द्र फडणवीसः नवम्बरमासस्य २५ दिनाङ्के मुम्बईनगरे आयोजितस्य तृतीयस्य विश्वमहापौरसम्मेलनस्य उद्घाटनावसरे एतां घोषणां कृतवान्। सः अवदत् यत् नगराणि आर्थिकविकासस्य प्रेरकाणि केन्द्राणि सन्ति तथा च नियोजितः, स्थायित्वयुक्तः नागरिककेन्द्रितः च नगरीयविकासः सर्वकारस्य प्राथमिकता अस्ति।

मुख्यमन्त्री सूचितवान् यत् मुम्बईमहानगरक्षेत्रे प्रायः पञ्चाशद्-अरब-अमेरिकीडॉलर्-परिमितेन निवेशेन मेट्रोरेलयानमार्गाणां, मार्गाणां, सेतूनां, सुरङ्गाणां, जलापूर्तेः तथा अपशिष्टप्रबन्धनस्य च सुविधानां विकासः क्रियते। एतदतिरिक्तं नवीमुम्बईविमानपत्तनस्य परितः तृतीयमुम्बईनगरस्य तथा विरारतः वाढवणक्षेत्रपर्यन्तं चतुर्थमुम्बईनगरस्य विकासस्य योजना अस्ति।

सः अवदत् यत् तृतीयमुम्बईनगरे शिक्षानगरम्, क्रीडानगरम्, चिकित्सानगरम् तथा नवाचारनगरं च विकसितानि भविष्यन्ति। अपरतः वाढवणे विशालस्य बन्दरगाहस्य निर्माणं क्रियते। मुख्यमन्त्री धारावीपुनर्विकासपरियोजनायाः उल्लेखं कुर्वन् अवदत् यत् आगामीषु दशवर्षेषु धारावीक्षेत्रं मुम्बईनगरस्य नूतनव्यावसायिककेन्द्ररूपेण विकसितं भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani