Enter your Email Address to subscribe to our newsletters

जम्मू, २५ नवम्बरमासः (हि.स.)। उपराज्यपालः मनोजसिन्हः अद्य सैनिकविद्यालये नगरोटा-नगरे नव-निर्मितस्य बहुप्रयोजनयुक्तस्य आन्तरिकक्रीडाङ्गणस्य उद्घाटनम् अकरोत्। अस्मिन् अवसरे छात्रसैनिकान्, शिक्षकान् विशिष्टातिथींश्च सम्बोधयन् उपराज्यपालः युववंशे विश्वासं प्रकटयन् अवदत् यत् भारतस्य भविष्यं सुरक्षितहस्तेषु अस्ति।
उपराज्यपालः अवदत् यत् राष्ट्रं स्वयुवान् भाविसैनिकरूपेण, प्रशासनिकसेवाधि-कारिरूपेण, वैज्ञानिकरूपेण, क्रीडक रूपेण, स्वास्थ्यसेवाकर्मचारिरूपेण तथा राष्ट्रनिर्मातारूपेण च पश्यति। तेन बलं प्रदत्तं यत् ते किमपि क्षेत्रं चिन्वन्तु, सफलता चरित्रम्, अनुशासनम्, कठिनपरिश्रमं राष्ट्रसेवायां च प्रतिबद्धताम् इत्यादिभिः मूल्यैः एव निर्भरति। राष्ट्रस्य एकतायाः, सार्वभौमसत्तायाः अखण्डतायाश्च रक्षणार्थं सर्वोच्चं बलिदानं कृतवद्भ्यः सशस्त्रबलानां वीरकर्मचारिभ्यः अपि तेन श्रद्धाञ्जलिः समर्पिता।
नूतनसुविधायाः महत्त्वं प्रतिपादयन् उप-राज्यपालः अवदत् यत् आन्तरिक-क्रीडाङ्गणम् युवानाम् आकाङ्क्षासु राष्ट्रस्य विश्वासस्य प्रतीकम् अस्ति। एतत् क्रीडाङ्गणं सम्पूर्णवर्षं निरन्तरप्रशिक्षणस्य अवसरान् प्रदास्यति तथा च छात्रसैनिकान् ऋतुपरिस्थितीनाम् अविचार्य बैडमिण्टन-क्रीडायां, बास्केटबॉल-क्रीडायां, टेबल-टेनिस-क्रीडायां च उत्कृष्टतां प्राप्तुं समर्थान् करिष्यति। तेन विद्यालयप्रशासनं प्रशिक्षकवृन्दं च अस्याः सुविधायाः अधिकतमोपयोगं सुनिश्चितं कर्तुम् आग्रहः कृतः।
उपराज्यपालेन निगमसामाजिक-दायित्वस्य अन्तर्गतसहायतया अस्य क्रीडाङ्गणस्य स्थापनार्थं आईसी-आईसीआई फाउण्डेशन-संस्थायै शुभकामनाः प्रदत्ताः। तेन उक्तं यत् राष्ट्रनिर्माणं सामूहिकं दायित्वम् अस्ति, यस्मिन् सर्वकारः, शैक्षणिकसंस्थाः, उद्योगजगत्, समाजः नागरिकाश्च सम्मिलिताः सन्ति।
तेन उक्तं यत् एतादृशैः सहयोगैः शैक्षणिकसंस्थानां विशेषतः जम्मू-कश्मीरस्य दूरस्थक्षेत्रेषु स्थितानां संस्थानां लाभः भविष्यति। सैनिकविद्यालयानां स्थापनायाः मूलभावनां स्मरन् उपराज्यपालः अवदत् यत् एतेषां संस्थानां नेतृत्वगुणानां, अनुशासनस्य, राष्ट्रियैकतायाः तथा सशस्त्रबलानां प्रति प्रतिबद्धतायाः विकासे महत्त्वपूर्णा भूमिका अस्ति।
तेन छात्रसैनिकाः स्वाचरणेन, कठिनपरिश्रमेण उपलब्धिभिश्च एताम् विरासतं संरक्षितुं प्रेरिताः। चरित्रनिर्माणे क्रीडाणां भूमिकां प्रतिपादयन् उपराज्यपालः अवदत् यत् क्रीडाः सामूहिककार्यभावनां, धैर्यम्, अनुशासनम्, विनम्रतां नेतृत्वगुणांश्च वर्धयन्ति। तेन छात्रसैनिकाः केवलं पदकप्राप्तौ एव न, अपितु निरन्तरम् आत्मसुधारे अपि ध्यानं दातुं प्रोत्साहिताः।
अन्तरराष्ट्रीयक्रीडासु भारतस्य वर्ध-मानानाम् उपलब्धीनां तथा खेलो इण्डिया इत्यादीनां योजनानां उल्लेखं कुर्वन् उपराज्यपालः विश्वासं प्रकटितवान् यत् अत्र उपस्थितेषु छात्रसैनिकेषु केचन एकदा ओलम्पिक-क्रीडामञ्चे देशस्य प्रतिनिधित्वं कर्तुं शक्नुयुः। अस्माकं सैनिकपरम्परायां क्रीडायाः शारीरिक-प्रशिक्षणस्य च सदैव विशेषं महत्त्वं प्रदत्तम् अस्ति। अस्य कारणं स्पष्टम् अस्ति। सैनिकात् केवलं शारीरिकबलस्य अपेक्षा न क्रियते। प्रतिकूलपरिस्थितिषु शान्तचित्तेन स्थातुम्, शीघ्रं निर्णयं कर्तुम्, सहकारिषु विश्वासं कर्तुम्, कठिनताभिश्च दृढतया सम्मुखीभवितुम् अपि तस्मात् अपेक्ष्यते। मम मतानुसारम् एते सर्वे गुणाः क्रीडाङ्गणे एव विकसिताः भवन्ति।
उपराज्यपालेन छात्रसैनिकान् पञ्च मार्गदर्शकसिद्धान्तान् स्वीकर्तुम् आह्वानं कृतम्। एते सिद्धान्ताः सन्ति—महान्ति स्वप्नानि पश्येत्, निष्ठया कठिनं परिश्रमं कुर्यात्, सामूहिककार्यभावनां क्रीडाभावनां च अङ्गीकुर्यात्, शारीरिकं मानसिकं च स्वास्थ्यं संरक्षेत् तथा सैनिकवेषं सदैव सेवायाः बलिदानस्य च प्रतीकरूपेण पश्येत्।
Hindusthan Samachar / Divya Ranjan