(संशोधितं वृत्तम्) होम्योपैथिचिकित्साक्षेत्रे सुदृढायाः अनुसन्धानपरम्परायाः विकासाय संस्थानानि मिलित्वा कार्यं कुर्वन्तु : राष्ट्रपतिः।
भुवनेश्वरम्, 25 नवंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मूः अनुसन्धानसंस्थानानि, चिकित्सामहाविद्यालयानि, विश्वविद्यालयानि तथा व्यावसायिकसङ्घटनानि च होम्योपैथिचिकित्साक्षेत्रे सुदृढायाः अनुसन्धानपरम्परायाः विकासाय परस्परं सहकारितया कार्यं कुर
राष्ट्रीय होम्योपैथी वैज्ञानिक सम्मेलन


भुवनेश्वरम्, 25 नवंबरमासः (हि.स.)।

राष्ट्रपतिः द्रौपदी मुर्मूः अनुसन्धानसंस्थानानि, चिकित्सामहाविद्यालयानि, विश्वविद्यालयानि तथा व्यावसायिकसङ्घटनानि च होम्योपैथिचिकित्साक्षेत्रे सुदृढायाः अनुसन्धानपरम्परायाः विकासाय परस्परं सहकारितया कार्यं कुर्वन्तु इति आह्वानं कृतवती। तया उक्तं यत् होम्योपैथिचिकित्सायाः भाविविश्वसनीयता शैक्षणिकप्रतिष्ठा च बहुधा तस्याः अनुसन्धानस्य वैज्ञानिकसत्यनिष्ठायाः तथा तस्मात् प्राप्तानां चिकित्सकीयप्रमाणानां गुणवत्तायाश्च उपरि निर्भरिष्यति।

राष्ट्रपतिः द्रौपदी मुर्मूः बुधवासरे भुवनेश्वरे आयोजिते राष्ट्रियहोम्योपैथिवैज्ञानिकसम्मेलने भागं गृहीत्वा एताः उक्तीः उक्तवती। तया उक्तं यत् होम्योपैथिचिकित्सा भारतस्य विविधस्वास्थ्यसेवाव्यवस्थायाः महत्त्वपूर्णः भागः अस्ति। देशस्य स्वास्थ्यसेवाप्रणालीं सुलभां, समानतामूलकां, वैज्ञानिकदृष्ट्या उत्तरदायिनीं तथा जनहिताय संवेदनशीलां च निर्मातुं संस्थानानां, शोधकर्तॄणाम्, शिक्षकाणां तथा स्वास्थ्यसेवया सम्बद्धानां व्यावसायिकानां महत्त्वपूर्णा भूमिका अस्ति।

राष्ट्रपतिः अवदत् यत् चिकित्सया सम्बद्धः प्रत्येकः निर्णयः रोगिणः गरिमायाः, सुरक्षायाः कल्याणस्य च सर्वोच्चप्राथमिकतां प्रदाय एव करणीयः। स्वास्थ्यसेवायाः अन्तिमम् उद्देश्यम् जनानां पीडायाः न्यूनीकरणं तेषां जीवनस्य गुणवत्तायाश्च उन्नयनम् अस्ति। अतः चिकित्साक्षेत्रस्य प्रत्येकस्मिन् विभागे रोगिणः हितं सर्वोपरि भवेत्।

तया होम्योपैथिचिकित्सायाः विकासे वैज्ञानिकानुसन्धानस्य गुणवत्तापूर्णानां चिकित्सकीयप्रमाणानां च आवश्यकतायाः विषये विशेषरूपेण बलं प्रदत्तम्। राष्ट्रपतिः अवदत् यत् होम्योपैथिचिकित्सायाः विश्वसनीयतां शैक्षणिकप्रतिष्ठां च सुदृढां कर्तुं अनुसन्धानक्षेत्रे वैज्ञानिकसत्यनिष्ठा प्रमाणाधारितदृष्टिकोणश्च अनिवार्यौ स्तः। तया अनुसन्धानसंस्थानानि, चिकित्सामहाविद्यालयानि, विश्वविद्यालयानि तथा व्यावसायिकसङ्घटनानि च अस्मिन् दिशि मिलित्वा कार्यं कर्तुं अनुसन्धानस्य सुदृढपरम्परां विकसितुं च आग्रहः कृतः।

राष्ट्रपतिः अवदत् यत् एतादृश्याः स्वास्थ्यसेवाव्यवस्थायाः निर्माणम् आवश्यकम् अस्ति, यस्यां प्रत्येकस्मै व्यक्तये समानावसराः उत्तमस्वास्थ्यसुविधाश्च प्राप्येरन्। एतदर्थं चिकित्साक्षेत्रे सम्बद्धैः सर्वैः पक्षैः वैज्ञानिकदृष्टिकोणं, संवेदनशीलतां तथा रोगिणां हितानि च ध्यायित्वा स्वकीयदायित्वानां निर्वहणं करणीयम्।

---------------

Hindusthan Samachar / Dheeraj Maithani