नोएडा-गाजियाबादयोः जियो-जालस्य औसत-अधोभारणवेगः २४८.५० एमबीपीएस।
नव दिल्ली, 25 नवंबरमासः (हि.स.)।भारतीयदूरसञ्चारविनियामकप्राधिकरणस्य पक्षतः सितम्बरमासे २०२६ तमे वर्षे नोएडा, ग्रेटरनोएडा, गाजियाबाद तथा समीपवर्तिक्षेत्रेषु कृते स्वतन्त्रवाहनगतजालपरीक्षणे रिलायन्स् जियो-संस्थायाः औसत-अधोभारणवेगः सर्वाधिकः २४८.५० ए
ट्राई


नव दिल्ली, 25 नवंबरमासः (हि.स.)।भारतीयदूरसञ्चारविनियामकप्राधिकरणस्य पक्षतः सितम्बरमासे २०२६ तमे वर्षे नोएडा, ग्रेटरनोएडा, गाजियाबाद तथा समीपवर्तिक्षेत्रेषु कृते स्वतन्त्रवाहनगतजालपरीक्षणे रिलायन्स् जियो-संस्थायाः औसत-अधोभारणवेगः सर्वाधिकः २४८.५० एमबीपीएस अभिलिखितः। तत्र एयरटेल्-संस्थायाः औसत-अधोभारणवेगः ११४.३८ एमबीपीएस तथा वोडाफोन-आइडिया (वीआई) संस्थायाः ९४.३० एमबीपीएस आसीत्। भारतसञ्चारनिगमस्य (बीएसएनएल) महानगरदूरसञ्चारनिगमस्य (एमटीएनएल) च ४जीसेवायाः औसत-अधोभारणवेगः ५.४९ एमबीपीएस अभिलिखितः।

ट्राई-संस्थया बुधवासरे प्रकाशितायां प्रतिवेदने सूचितं यत् एतानि परीक्षणानि दिल्लीलाइसेन्ससेवाक्षेत्रस्य (एलएसए) अन्तर्गतं सितम्बरमासस्य प्रथमदिनाङ्कात् पञ्चमदिनाङ्कपर्यन्तं २०२६ तमे वर्षे कृतानि। एतेषाम् उद्देश्यं दूरसञ्चारसेवाप्रदातॄणां चलदूरवाणीजालसेवानां वास्तविकगुणवत्तायाः आकलनम् आसीत्। परीक्षणे वाणीसेवाः, दत्तांशसेवाः, जालस्य व्याप्तिः, विच्छिन्नदूरभाषाह्वानानि, दूरभाषाह्वानस्थापनस्य दरः, अधोभारणवेगः, ऊर्ध्वभारणवेगः इत्यादीनां मानकानां परीक्षणं कृतम्।

प्रतिवेदनानुसारं चतुर्षु दूरसञ्चारसेवाप्रदातृषु एयरटेल्-संस्थायाः औसत-ऊर्ध्वभारणवेगः २५.११ एमबीपीएस, बीएसएनएल-एमटीएनएल-संस्थायोः १.७२ एमबीपीएस, जियो-संस्थायाः १८.७१ एमबीपीएस तथा वीआई-संस्थायाः १८.९२ एमबीपीएस आसीत्।

दूरभाषाह्वानविच्छेदस्य विषये एयरटेल्-संस्थायाः सफलतया स्थापितेषु १,१३९ दूरभाषाह्वानेषु नव, बीएसएनएल-एमटीएनएल-संस्थयोः १,०७१ आह्वानेषु १७३, जियो-संस्थायाः १,१४६ आह्वानेषु १४ तथा वीआई-संस्थायाः १,१५८ आह्वानेषु द्वे आह्वाने विच्छिन्ने अभवताम्।

जालव्याप्तिन्यूनतायाः विषये एयरटेल्-संस्थायाः कुल १,२७,३४६ नमूनासु १,०५३, बीएसएनएल-एमटीएनएल-संस्थयोः १,२१,७३३ नमूनासु ७९,९८५, जियो-संस्थायाः १,२७,२१२ नमूनासु २,१४६ तथा वीआई-संस्थायाः १,३२,०९४ नमूनासु १,२४६ नमूनेषु दुर्बलः सङ्केतः अभिलिखितः। दूरभाषाह्वानसमये त्रिभ्यः सेकण्डेभ्यः अधिककालपर्यन्तं वाणीविच्छेदस्य घटनाः एयरटेल्-संस्थायां अष्ट, बीएसएनएल-एमटीएनएल-संस्थयोः दश, जियो-संस्थायां चतुःपञ्चाशत् तथा वीआई-संस्थायां चतस्रः अभिलिखिताः।

ट्राई-संस्थया नोएडासेक्टर्-१२१तः वर्ल्डट्रेडसेण्टर्-पर्यन्तस्य मार्गस्य कृते अपि पृथक् आँकडाः प्रकाशिताः। अस्मिन् मार्गे जियो-संस्थायाः औसत-अधोभारणवेगः ३४६.८४ एमबीपीएस अभिलिखितः, यदा तु एयरटेल्-संस्थायाः १७५.४१ एमबीपीएस, वीआई-संस्थायाः १२९.८६ एमबीपीएस तथा बीएसएनएल-एमटीएनएल-संस्थयोः ३.३९ एमबीपीएस आसीत्। अस्मिन् मार्गे औसत-ऊर्ध्वभारणवेगः एयरटेल्-संस्थायाः १९.२९ एमबीपीएस, बीएसएनएल-एमटीएनएल-संस्थयोः १.०२ एमबीपीएस, जियो-संस्थायाः २७.९४ एमबीपीएस तथा वीआई-संस्थायाः २९.०८ एमबीपीएस अभिलिखितः।

अस्मिन् विशिष्टमार्गे जालव्याप्तिन्यूनतायाः नमूनानि एयरटेल्-संस्थायाः २,७९३ नमूनेषु एकम्, बीएसएनएल-एमटीएनएल-संस्थयोः २,७४३ नमूनेषु १,६४६, जियो-संस्थायाः २,८४९ नमूनेषु द्वादश तथा वीआई-संस्थायाः २,९७३ नमूनेषु चत्वारि आसन्। दूरभाषाह्वानविच्छेदस्य सङ्ख्या एयरटेल्-जियो-संस्थयोः शून्या, बीएसएनएल-एमटीएनएल-संस्थयोः त्रयोविंशतौ आह्वानेषु षट् तथा वीआई-संस्थायां चतुर्विंशतौ आह्वानेषु शून्या अभिलिखिता।

ट्राई-संस्थया नियुक्तया अभिकरणेन दिल्लीलाइसेन्ससेवाक्षेत्रे कुलम् ८१३.४ किलोमीटर् दीर्घं नगरवाहनगतपरीक्षणं, अष्टसु प्रमुखस्थानेषु परीक्षणं तथा ३.८ किलोमीटर् दीर्घं पदयात्रापरीक्षणं कृतम्। एतदतिरिक्तम् एकस्मिन् स्थाने विभिन्नदूरसञ्चारसेवाप्रदातॄणां मध्ये परस्परदूरभाषाह्वानस्य परीक्षणम् अपि कृतम्। परीक्षणे गाजियाबाद, नोएडा तथा ग्रेटरनोएडायाः विभिन्नानि आवासीयव्यावसायिकक्षेत्राणि, विपण्यः, चिकित्सालयाः, रेलस्थानकानि, बसस्थानकानि तथा मेट्रोस्थानकानि च समाविष्टानि आसन्।

प्रमुखस्थलपरीक्षणाय नोएडायाः सेक्टर्-६२ स्थितं फोर्टिस् चिकित्सालयम्, गाजियाबादजङ्क्शन् रेलस्थानकम्, एमएमजी जनपदचिकित्सालयः, नोएडासिटीसेण्टर् बसस्थानकम्, नोएडासेक्टर्-५२ मेट्रोस्थानकम्, परीचौकस्थानकम्, अल्फा-१ विपण्यः तथा ग्रैण्ड् वेनिस् मॉल इत्येतानि स्थानानि चयनितानि आसन्।

ट्राई-संस्थया सूचितं यत् प्रतिवेदनस्य निष्कर्षाः सम्बद्धेभ्यः दूरसञ्चारसेवाप्रदातृभ्यः प्रेषिताः सन्ति, येन ते स्वजालसेवासु आवश्यकं सुधारं कर्तुं शक्नुयुः।

------------

Hindusthan Samachar / Dheeraj Maithani