श्री काशी विश्वनाथ धाम से निकली भगवान श्रीराम की भव्य शोभायात्रा
— लक्ष्मीकुण्डे विधिविधानपूर्वकं श्रीरामदरबारस्य प्रतिमानां विसर्जनम्, नवदिवसीयस्य रामायणमहायज्ञस्य समापनम् वाराणसी, २५ नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य धर्मनगरी काश्यां श्रीकाशीविश्वनाथधामतः बुधवासरे भगवत: श्रीरामस्य भव्यशोभायात्रा निर्गता। श्र
भगवान श्रीराम की भव्य शोभायात्रा


— लक्ष्मीकुण्डे विधिविधानपूर्वकं श्रीरामदरबारस्य प्रतिमानां विसर्जनम्, नवदिवसीयस्य रामायणमहायज्ञस्य समापनम्

वाराणसी, २५ नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य धर्मनगरी काश्यां श्रीकाशीविश्वनाथधामतः बुधवासरे भगवत: श्रीरामस्य भव्यशोभायात्रा निर्गता। श्रीरामचरितमानस नवाह्नपाठमहायज्ञ-समित्या आयोजितस्य नवदिवसीय-रामायणमहायज्ञस्य समापनानन्तरं श्रीरामदरबारस्य प्रतिमानां विधिविधानपूर्वकं पूजाऽर्चनं कृत्वा लक्ष्मीकुण्डे विसर्जनं कृतम्।

कार्तिकपूर्णिमायाः अवसरे मङ्गलवासरे महायज्ञस्य विधिवत् समापनम् अभवत्। ततः बुधवासरे भू-देवैः श्रीरामदरबारस्य प्रतिमानां पूजनं कृतम्। तेभ्यः दक्षिणां प्रदाय ससम्मानं विदाई दत्ता। अनन्तरं स्वदेशीपुष्पैः सुसज्जिते वाहने श्रीरामदरबारस्य प्रतिमाः विराजय्य भव्यशोभायात्रा आयोजिता।

शोभायात्रायां सर्वप्रथमं संस्थायाः ध्वजपट्टिका चलति स्म, तस्याः पश्चात् वाद्यवृन्दस्य मधुरध्वनौ रामधुनिः गुञ्जति स्म। हस्तेषु धार्मिकग्रन्थान् धृत्वा १०८ भू-देवाः शोभायात्रायाः शोभां वर्धयन्ति स्म। शोभायात्रा श्रीकाशीविश्वनाथधामतः प्रारभ्य बाँसफाटक, गोदौलिया तथा गिरजाघरमार्गेण गत्वा लक्सास्थितस्य ९० क्रमाङ्कस्य वार्ड इत्यस्य लक्ष्मीकुण्डं प्राप्तवती। अत्र परम्परागतपरम्परानुसारं श्रीरामदरबारस्य प्रतिमानां विसर्जनं कृतम्।

विसर्जनात् पूर्वं समितेः अध्यक्षः कौशलशर्मा, महामन्त्री अजयखेमका, प्रचारमन्त्री सुरेशतुलस्यानः तथा रघुदेव-अग्रवालः, अशोकसराफः, विश्वनाथपोद्दारः, महेन्द्रशर्मा, राहुलशर्मा, राधेश्याममिश्रः, विवेकजायसवालः, कृष्णकुमारकाबरा तथा सतीशजायसवालः इत्यादिभिः भगवत: श्रीरामस्य विधिवत् पूजाऽर्चनं कृत्वा आरती कृता। ततः प्रभवे नैवेद्यं समर्पितम् तथा उपस्थितेभ्यः श्रद्धालुभ्यः प्रसादः वितरितः। अस्मिन् अवसरे सम्पूर्णः मार्गः ‘जय श्रीराम’ इति जयघोषेण रामधुनिना च भक्तिमयः अभवत्।

Hindusthan Samachar / Divya Ranjan