काशीतमिलसङ्गममस्य ५.० संस्करणस्य प्रतिनिधयः त्रिवेणीसङ्गमे रामललायाः च दर्शनं करिष्यन्ति
— सप्तसु वर्गेषु तमिलनाडुतः आगमिष्यन्ति १,४०० प्रतिनिधयः, अष्टदिवसीययात्रायां काशी-प्रयागराज-अयोध्यानां सहभागं सांस्कृतिकवैभवेन परिचिताः भविष्यन्ति वाराणसी, २५ नवम्बरमासः (हि.स.)। काशी-तमिलनाडुप्रदेशयोः मध्ये शताब्द-प्राचीनान् सांस्कृतिकान्, भाषिक
प्रतीक


— सप्तसु वर्गेषु तमिलनाडुतः आगमिष्यन्ति १,४०० प्रतिनिधयः, अष्टदिवसीययात्रायां काशी-प्रयागराज-अयोध्यानां सहभागं सांस्कृतिकवैभवेन परिचिताः भविष्यन्ति

वाराणसी, २५ नवम्बरमासः (हि.स.)। काशी-तमिलनाडुप्रदेशयोः मध्ये शताब्द-प्राचीनान् सांस्कृतिकान्, भाषिकान् आध्यात्मिकान् च सम्बन्धान् नूतनां दिशं प्रदातुम् आयोजितस्य काशीतमिल-सङ्गमस्य पञ्चमं संस्करणम् पुनः एकवारं उत्तरभारतस्य दक्षिणभारतस्य च सहभागं सांस्कृतिकवैभवं प्रस्तुतं करिष्यति। काशीतमिलसङ्गममस्य ५.० संस्करणे तमिलनाडुतः प्रायः १,४०० प्रतिनिधयः सप्तसु विभिन्नवर्गेषु भागं ग्रहीष्यन्ति। अष्टदिवसीयस्य अस्य आयोजनस्य अवधौ प्रतिनिधयः वाराणसीनगरस्य प्रमुखाणि धार्मिकाणि ऐतिहासिकानि च स्थलानि द्रक्ष्यन्ति। ते प्रयागराजस्य त्रिवेणीसङ्गमे स्नानं कृत्वा अयोध्यायाः श्रीराम-जन्मभूमिमन्दिरे रामललायाः दर्शनम् अपि करिष्यन्ति।

प्रतिनिधीनां सप्तसु वर्गेषु छात्राः, शिक्षकाः, लेखकाः एवं सञ्चारमाध्यमेषु कार्यरताः व्यावसायिकाः, कृषिक्षेत्रे तत्सम्बद्धक्षेत्रेषु च कार्यरताः जनाः, व्यावसायिकाः एवं शिल्पिनः, महिलाः तथा आध्यात्मिकगुरवः अन्तर्भवन्ति। प्रायः २००-२०० सदस्ययुक्तेषु सप्तसु समूहेषु विभक्तानां प्रतिनिधीनां कृते यात्रायाः, सांस्कृतिक-कार्यक्रमाणां, शैक्षणिकसंवादानां तथा क्षेत्रविशेषसम्बद्धकार्यक्रमाणां रूपरेखा सज्जीकृता अस्ति।

काश्यां धर्मस्य संस्कृतेः शिक्षायाश्च सङ्गमः

वाराणसीनगरे प्रवासकाले प्रतिनिधयः काशीविश्वनाथमन्दिरम्, सारनाथम् अथवा काशीहिन्दूविश्वविद्यालयम् रामनगरदुर्गम् तथा भारतमातामन्दिरम् इत्यादीनि प्रमुखाणि धार्मिकाणि, ऐतिहासिकाणि सांस्कृतिकानि च स्थानानि द्रक्ष्यन्ति। गङ्गायाः आरती, गङ्गास्नानम्, शैक्षणिकसत्राणि तथा सांस्कृतिक-कार्यक्रमाः अपि यात्रायाः भागाः भविष्यन्ति।

विशेषतमिलसांस्कृतिकपरिपथस्य अन्तर्गतं प्रतिनिधयः महाकवेः सुब्रह्मण्य-भारतेः पैतृकनिवासम्, केदारघाटम् तथा काश्यां तमिलपरम्परया सम्बद्धं काशीमठम् द्रक्ष्यन्ति। एतदतिरिक्तं बीएचयू-विश्वविद्यालयस्य तमिलविभागे शैक्षणिकसंवादः आयोजितः भविष्यति। काश्याः अनन्तरं प्रतिनिधयः प्रयागराजस्य त्रिवेणीसङ्गमं तथा अयोध्यायाः श्रीराममन्दिरं गमिष्यन्ति।

चतुर्षु संस्करणेषु काशी-तमिलनाडु-प्रदेशयोः सांस्कृतिकसहभागिता सुदृढा अभवत्

२०२२ तः २०२५ वर्षपर्यन्तम् आयोजितैः काशीतमिलसङ्गममस्य चतुर्भिः संस्करणैः उत्तरदक्षिणभारतयोः मध्ये सांस्कृतिकान्, भाषिकान्, शैक्षणिकान् ऐतिहासिकान् च सम्बन्धान् सुदृढीकर्तुं महत्त्वपूर्णं योगदानं कृतम्। प्रत्येकस्मिन् संस्करणे विभिन्नविषयाणां कार्यक्रमाणां च माध्यमेन अस्याः सांस्कृतिकपरम्परायाः नूतनपरिचयं दातुं प्रयासः कृतः।

प्रथमं संस्करणम् : २०२२ तमे वर्षे सांस्कृतिकैकतायाः प्रारम्भः

काशीतमिलसङ्गममस्य प्रथमम् आयोजनं नवम्बर-दिसम्बरमासयोः २०२२ तमे वर्षे वाराणसीस्थिते बीएचयू-विश्वविद्यालये अभवत्। प्रधानमन्त्री नरेन्द्रमोदी १९ नवम्बर २०२२ दिनाङ्के अस्य उद्घाटनम् अकरोत्। अस्मिन् आयोजने तमिलनाडुप्रदेशस्य १२ विभिन्न-क्षेत्राणां प्रतिनिधित्वं कुर्वन्तः २,५०० अधिकाः प्रतिभागिनः भागं गृहीतवन्तः। अष्टदिवसीययात्रायाः अवधौ प्रतिनिधयः वाराणसीं, प्रयागराजम्, अयोध्यां च अगच्छन्। समानव्यवसायैः, वृत्तिभिः अभिरुचिभिश्च सम्बद्धानां जनानां मध्ये संवादस्थापनार्थं सङ्गोष्ठ्यः, शैक्षणिक-चर्चाः तथा स्थलभ्रमणकार्यक्रमाः आयोजिताः।

अस्मिन् समये काश्यां हस्तवयनवस्त्राणां, हस्तशिल्पानां, एकजनपदः-एकम् उत्पादः, पुस्तकानां, वृत्तचित्राणां, व्यञ्जनानां तथा विभिन्नकलारूपाणां मासपर्यन्तं प्रदर्शिनी अपि आयोजिता। विदुषां विशेषज्ञाणां च मध्ये शैक्षणिकविचारविनिमयेन चर्चाभिश्च अस्य आयोजनस्य व्यापकं स्वरूपं निर्मितम्।

द्वितीयं संस्करणम् : २०२३ तमे वर्षे नमोघाटः सांस्कृतिकगतिविधीनां केन्द्रम् अभवत्

काशीतमिलसङ्गममस्य द्वितीयं संस्करणं १७ तः ३० दिसम्बर २०२३ पर्यन्तं वाराणसीनगरस्य नमोघाटे आयोजितम्। प्रधानमन्त्री मोदी अस्य उद्घाटनम् अकरोत्। अस्य संस्करणस्य प्रमुखेषु वैशिष्ट्येषु प्रधानमन्त्रिणः सम्बोधनस्य अनुप्रयोगमाध्यमेन वास्तविकसमये तमिलभाषायाम् अनुवादः अपि आसीत्। अनेन तमिलनाडुतः आगतेभ्यः प्रति-निधिभ्यः सम्बोधनस्य अवगमने सुविधा अभवत्।

अस्मिन् संस्करणे अपि प्रतिनिधीनां कृते वाराणसी-प्रयागराज-अयोध्यानां अष्टदिवसीययात्रा निर्धारिताऽऽसीत्। सप्तसमूहानां नामानि गङ्गा, यमुना, सरस्वती, सिन्धुः, नर्मदा, गोदावरी तथा कावेरी इत्यादीनां पवित्रनदीनां नाम्ना कृतानि आसन्। नमोघाटे तमिलनाडु-प्रदेशस्य काशीनगरस्य च कला, हस्तवयनवस्त्राणां, हस्तशिल्पानां तथा व्यञ्जनानां प्रदर्शन्यः आयोजिताः। सांस्कृतिकप्रस्तुतिभिः सह साहित्यस्य, प्राचीनग्रन्थानां, दर्शनस्य, आध्यात्मिक-तायाः, सङ्गीतस्य, नृत्यस्य, नाटकस्य, योगस्य, आयुर्वेदस्य तथा आधुनिक-नवाचाराणां विषये शैक्षणिकसंवादाः आयोजिताः।

तृतीयं संस्करणम् : २०२५ तमे वर्षे महर्षेः अगस्त्यस्य परम्परायां विशेषं बलम्

काशीतमिलसङ्गममस्य तृतीयं संस्करणं १५ तः २४ फरवरी २०२५ पर्यन्तम् आयोजितम्। अस्मिन् समये महर्षेः अगस्त्यस्य परम्परायाः भारतीयज्ञान-परम्परायाः च समकालीनविमर्शेन सह संयोजनम् आयोजनस्य प्रमुखः विषयः आसीत्। अस्मिन् तमिलनाडुतः प्रायः १,००० प्रतिनिधयः भागं गृहीतवन्तः। विभिन्न-केन्द्रीयविश्वविद्यालयेभ्यः प्रायः २०० छात्राः अपि अस्मिन् सम्मिलिताः। अस्य संस्करणस्य विशेषता आसीत् यत् प्रतिनिधीनां कार्यक्रमे प्रथमवारं प्रयागराजस्य महाकुम्भस्य तथा अयोध्यायां नवनिर्मितस्य श्रीराममन्दिरस्य दर्शनम् अन्तर्भूतम्।

काश्यां महर्षेः अगस्त्यस्य जीवनस्य योगदानस्य च विषये प्रदर्शनी, सङ्गोष्ठ्यः, कार्यशालाः तथा तस्य विद्वत्तापूर्णकार्याणां विषये पुस्तकविमोचनादयः कार्यक्रमाः आयोजिताः। एतदायोजनं राष्ट्रियशिक्षा-नीतिः-२०२० इत्यस्य अन्तर्गतं भारतीयज्ञानपद्धतीनां आधुनिकशिक्षया सह संयोजनस्य परिकल्पनानुसारम् आसीत्। सांस्कृतिकप्रस्तुतिषु ८६९ अधिकाः कलाकाराः तथा १९० स्थानीयाः लोककलाशास्त्रीयकलासमूहाः भागं गृहीतवन्तः। अस्मिन् आयोजने प्रायः द्विलक्षं जनानां सहभागिता अभवत्।

चतुर्थं संस्करणम् : २०२५ तमे वर्षे ‘तमिल् करकलाम्’ इत्यस्य माध्यमेन भाषा-शिक्षायां विशेषबलम्

काशीतमिलसङ्गममस्य चतुर्थं संस्करणं दिसम्बरमासे २०२५ तमे वर्षे ‘तमिल् करकलाम्-आगच्छन्तु, तमिलभाषां पठामः’ इति विषयम् आधारीकृत्य आयोजितम्। अस्मिन् तमिलनाडुप्रदेशस्य सप्तवर्गेभ्यः १,४०० अधिकाः प्रतिनिधयः सम्मिलिताः। अस्मिन् संस्करणे सांस्कृतिकविनिमयेन सह तमिलभाषायाः शिक्षणस्य प्रसारस्य च विशेषप्राथमिकता प्रदत्ता।

अस्य प्रमुखोपक्रमस्य अन्तर्गतं ५० प्रशिक्षिताः तमिलभाषाशिक्षकाः समन्वय-काश्च वाराणसीनगरस्य ५० विद्यालयेषु १,५०० अधिकेभ्यः विद्यार्थिभ्यः तमिल-भाषायाः प्रारम्भिकशिक्षणम् अददुः। अपरतः ‘तमिल् करपोम्’ इति उपक्रमस्य अन्तर्गतं काशीनगरस्य ३०० महाविद्यालयीय-च्छात्राणां कृते तमिलनाडुप्रदेशे तमिल-भाषाध्ययन-सम्बद्धाः अध्ययनयात्राः आयोजिताः। अस्मिन् संस्करणे तेनकाशीतः काशीपर्यन्तं महर्षेः अगस्त्यस्य नाम्ना आयोजितः वाहनाभियानम् अपि विशेषाकर्षणम् आसीत्। अनेन उभयोः प्रदेशयोः सहभागं सांस्कृतिकं सभ्यतागतं च वैभवं रेखाङ्कितम्। भारतीय-रेलविभागेन प्रतिनिधीनां यात्रार्थं सप्त विशेषरेलयानानि सञ्चालितानि। एतदतिरिक्तं प्राचीनतमिलग्रन्थस्य ‘तोल्काप्पियम्’ इत्यस्य चतुर्षु भारतीयभाषासु षट्सु विदेशीयभाषासु च अनुवादाः प्रकाशिताः। आयोजनस्य समापनं ३० दिसम्बर २०२५ दिनाङ्के रामेश्वरम्-नगरे अभवत्।

पञ्चमे संस्करणे तिरुक्कुरलस्य माध्यमेन ज्ञानस्य व्यापकः प्रसारः भविष्यति

काशीतमिलसङ्गममः भारतस्य तस्याः प्राचीनायाः सांस्कृतिकपरम्परायाः प्रतीकम् अस्ति, यस्यां भाषा, साहित्यं, ज्ञानं तथा साझा मान्यताः विभिन्नक्षेत्राणां जनान् एकसूत्रे आबद्धवन्तः। प्रथमचतुर्णां संस्करणानाम् अनुभवानाम् आधारेण पञ्चमे संस्करणे अस्याः परम्परायाः अधिकव्यापकं कर्तुं प्रयासः क्रियते। अस्मिन् समये तिरुक्कुरलस्य विषये विशेषं ध्यानं केन्द्रितम् अस्ति। अस्य माध्यमेन शास्त्रीयतमिलसाहित्यं, दर्शनं नैतिकमूल्यानि च सङ्गममस्य पारम्परिककार्यक्रमेभ्यः अग्रे नीत्वा देशस्य विभिन्नशैक्षणिकसंस्थानानि युवा विद्यार्थिनश्च प्रति प्रापयितुं प्रयासः क्रियते।

भाषिकानां प्रादेशिकानां च सीमां विहाय तिरुक्कुरलस्य अध्ययनं प्रोत्साहयितुं भारतस्य समृद्धायाः साहित्यिकायाः दार्शनिकायाश्च धरोहरायाः व्यापकजन-समुदायस्य कृते सुलभतां प्रदातुम् अस्य उद्देश्यं वर्तते। अस्मिन् वर्षे काशीतमिलसङ्गममस्य ५.० संस्करणं केवलं सांस्कृतिकायोजनं न भूत्वा शिक्षा, साहित्यं, आध्यात्मिकता तथा जनसम्पर्कस्य माध्यमेन उत्तरदक्षिण-भारतयोः ऐतिहासिकसम्बन्धान् अधिकं सुदृढीकर्तुं महत्त्वपूर्णं मञ्चं भविष्यति।

Hindusthan Samachar / Divya Ranjan