Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 26 नवंबरमासः (हि.स.)। केन्द्रीयगृहमन्त्रिणा अमितशाहेन नवदिल्ल्यां ‘रामायण’ चलचित्रस्य निर्माणदलेन सह मेलनं कृतम् तथा भगवतः श्रीरामस्य कर्तव्यपालनस्य, त्यागस्य सत्यनिष्ठायाश्च आदर्शान् चलचित्रस्य आधुनिकप्रौद्योगिक्याः माध्यमेन नवसन्ततिं प्रति प्रेषयितुं क्रियमाणस्य प्रयासस्य प्रशंसा कृता।
शाहेन गुरुवासरे सामाजिकमाध्यममञ्चे एक्स इत्यत्र अस्य मेलनस्य छायाचित्राणि प्रकाश्य लिखितं यत्, ‘रामायण’ चलचित्रस्य निर्माणदलेन सह नवदिल्ल्यां मेलनम् अभवत्। मर्यादापुरुषोत्तमेन प्रभुश्रीरामेण स्वजीवनेन कर्तव्यपालनस्य, त्यागस्य सत्यनिष्ठायाश्च ये आदर्शाः स्थापिताः, तान् चलचित्रस्य आधुनिकप्रौद्योगिक्याः माध्यमेन नवसन्ततिं प्रति प्रेषयितुम् अयं नवोन्मेषपूर्णः प्रयासः प्रशंसनीयः अस्ति। अस्य प्रयासस्य कृते शाहेन सम्पूर्णनिर्माणदलं वर्धापितम्।
अस्मिन् मेलने चलचित्रस्य निर्माता नमित मल्होत्रा, निर्देशकः नितेश तिवारी, भगवान् श्रीरामस्य भूमिकां निर्वहन् अभिनेता रणबीर कपूरः, अभिनेत्री साई पल्लवी इत्यादयः उपस्थिताः आसन्।
गृहमन्त्रिणा चलचित्रस्य सम्पूर्णं निर्माणदलं वर्धापयता भारतीयसंस्कृतेः परम्परायाश्च महत्त्वपूर्णम् आर्षमहाकाव्यं रामायणम् आधुनिकचलचित्रमाध्यमेन नवसन्ततिं प्रति प्रेषयितुं क्रियमाणः प्रयासः प्रशंसनीयः इति प्रतिपादितम्।
‘रामायणम्’ इति चलचित्रं भारतीयमहाकाव्ये रामायणे आधारितम् अस्ति। अनेन चलचित्रेण भगवतः श्रीरामस्य जीवनं, तस्य आदर्शाः मूल्यानि च आधुनिकचलचित्रप्रौद्योगिक्याः माध्यमेन दर्शकानां पुरतः प्रस्तुतुं प्रयासः क्रियते।
---------------
Hindusthan Samachar / Dheeraj Maithani