बराकघाटी विकासस्य मुख्यधारातः अधुना दूरं नास्ति, असमस्य प्रगतौ समानभागिनी : मुख्यमन्त्री हिमन्तः
गुवाहाटी, २६ नवम्बरमासः (हि.स.)। बराकघाट्याः विकासाय असमसर्वकारेण सह केन्द्रसर्वकारेण अपि निरन्तरं क्रियमाणानां प्रयासानां मुख्यमन्त्री डॉ. हिमन्तविश्वसरमा प्रशंसाम् अकरोत्। केन्द्रमन्त्रिमण्डलेन बराकघाट्यां हरितक्षेत्रविमानपत्तनस्य अनुमोदनं विकासस
नई दिल्ली में आयोजित होने वाले डॉ. भूपेन हजारिका जन्म शताब्दी समापन समारोह में शामिल होने के लिए प्रधानमंत्री नरेन्द्र मोदी को आमंत्रण देते असम के मुख्यमंत्री।


गुवाहाटी, २६ नवम्बरमासः (हि.स.)। बराकघाट्याः विकासाय असमसर्वकारेण सह केन्द्रसर्वकारेण अपि निरन्तरं क्रियमाणानां प्रयासानां मुख्यमन्त्री डॉ. हिमन्तविश्वसरमा प्रशंसाम् अकरोत्। केन्द्रमन्त्रिमण्डलेन बराकघाट्यां हरितक्षेत्रविमानपत्तनस्य अनुमोदनं विकासस्य दिशि महत्त्वपूर्णं पदक्षेपं निरूपितवान्।

मुख्यमन्त्री गुरुवासरे प्रातः सामाजिक-माध्यमे फेसबुकद्वारा सन्देशं प्रसारयन् अवदत् यत् दीर्घकालात् बराकघाट्याः जनानां मनसि एषा अपेक्षा आसीत् यत् सिलचरनगरं बराकघाटी च विकासस्य प्रत्येकस्मिन् क्षेत्रे समानं महत्त्वं प्राप्नुयाताम्। विगतदशवर्षेषु वयं ताम् अपेक्षां पूरयितुं निरन्तरं प्रयत्नशीलाः स्मः। अधुना परिवर्तनं अधिकं स्पष्टतया दृश्यते। केवलं द्वयोः दिनयोः अन्तः त्रयः महत्त्वपूर्णाः निर्णयाः बराकघाट्याः विकासस्य इतिहासे नूतनम् अध्यायम् आरब्धवन्तः।

सः अवदत्, ‘‘प्रथमम्, प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे केन्द्रमन्त्रिमण्डलेन सिलचरस्य डोलूस्थाने २,०१४ कोटिरूप्यकाणां व्ययेन हरितक्षेत्रविमान-पत्तनस्य निर्माणाय अनुमोदनं प्रदत्तम्। प्रतिवर्षं दश लक्षाधिकयात्रिकाणाम् आवागमनक्षमतायुक्तं एतत् विमानपत्तनं विमानयातायातस्य नूतनान् अवसरान् सृजिष्यति, सम्पर्कव्यवस्थां सुदृढां करिष्यति तथा वर्तमानविमानपत्तने भारं न्यूनीकरिष्यति। अस्य ऐतिहासिक-निर्णयस्य कृते प्रधानमन्त्री केन्द्रमन्त्रि-मण्डलं च अहं हृदयतः धन्यवादं ददामि।’’

द्वितीयम्, अलायन्स एयर सिलचर-इम्फालयोः मध्ये क्षेत्रीयविमानसेवाम् आरभते। ऐतिहासिक-सांस्कृतिकसम्बन्धैः सम्बद्धयोः एतयोः नगरयोः मध्ये विमानसम्पर्कः व्यापारं, पर्यटनं तथा जनानां परस्परसम्बन्धान् अधिकं सुदृढान् करिष्यति।

तृतीयम्, सिलचरनगरे २५५ कोटिरूप्यकाणां व्ययेन एयरटेल-दत्तांशकेन्द्रस्य निर्माणार्थं नवम्बरमासस्य २५ दिनाङ्के सम्झापनपत्रे हस्ताक्षराणि कृतानि। गुवाहाटी-जोरहाट-सिलचर-नगरेषु आधुनिकदत्तांशकेन्द्राणां निर्माणेन असमस्य डिजिटल आधारभूत-संरचना अधिकं सुदृढा भविष्यति। प्रौद्योगिकी-आधारितविकासस्य अस्मिन् नूतनाधार-भूतसंरचनायां बराकघाटी अपि महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।

मुख्यमन्त्री अवदत् यत् एते प्रयासाः पृथक्-पृथक् क्रियमाणाः कार्याः न सन्ति, अपितु बराकघाट्याः समग्रविकासाय अस्माकं व्यापकयोजनायाः भागाः सन्ति। सिलचरात् असमसचिवालयस्य कार्य-सञ्चालनम्, द्वितीयस्य चिकित्सा-महाविद्यालयस्य स्थापना, सिलचर-कर्क-रोगकेन्द्रम्, उन्नतशैक्षणिक-संस्थानानि तथा प्रस्तावितः गुवाहाटी-शिलाङ्ग-सिलचरहरितक्षेत्रद्रुतमार्गः—एतेषां सर्वेषां प्रयासानां उद्देश्यं बराकघाट्याः जनानां कृते विकासस्य अवसरान् अधिकसुलभान् करणम् अस्ति।

डॉ. सरमा अवदत् यत् अस्माकं कृते असमस्य विकासः कदापि एकस्याः घाट्याः अथवा एकस्य क्षेत्रस्य सीमितः नास्ति। ब्रह्मपुत्रघाटी भवतु अथवा बराकघाटी, राज्यस्य प्रत्येकस्मिन् भागे निवसतां जनानां कृते समानावसरान्, समानमहत्त्वं तथा विकासस्य समानाधिकारं सुनिश्चितं कर्तुं अस्माकं प्रतिबद्धता अस्ति। बराकघाटी अधुना विकासस्य परिधौ न स्थितवती। अपितु सा अद्य असमस्य भविष्यनिर्माणस्य यात्रायां समानभागिनी अस्ति।

Hindusthan Samachar / Divya Ranjan