Enter your Email Address to subscribe to our newsletters

गुवाहाटी, २६ नवम्बरमासः (हि.स.)। मुख्यमन्त्री डॉ. हिमन्तविश्वशर्मा देशे २६/११ आतङ्कवादीआक्रमणस्य वार्षिक्यवसरे आक्रमणे प्राणान् त्यक्तवन्तः निरपराध-नागरिकान् तथा देशस्य सुरक्षायै सर्वोच्चबलिदानं दत्तवन्तः वीरसैनिकान् प्रति गभीरां श्रद्धाञ्जलिं समर्पितवान्।
मुख्यमन्त्री अद्य सामाजिकमाध्यमे सन्देशं प्रकाशित्य अवदत् यत् २००८ तमस्य वर्षस्य नवम्बरमासस्य २६ दिनाङ्कस्य तत् कृष्णं दिनं भारतस्य इतिहासे गभीरक्षतिरिव सदैव स्मरणीयं भविष्यति। पाकिस्तानतः आगतानां आतङ्कवादिनां निर्दयाक्रमणे शतशः निरपराधजनानां प्राणाः अपहृताः। एतेन आक्रमणेन सम्पूर्णः देशः शोकसागरे निमग्नः अभवत्।
मुख्यमन्त्री अवदत् यत् तस्य घटनायाः अनन्तरं देशस्य आन्तरिकसुरक्षां बाह्यसुरक्षां च सुदृढां कर्तुं वयं बहुदूरं प्रगतवन्तः। भारतस्य सुरक्षायै संकटं जनयन्तः सर्वेषां तत्त्वानां विरुद्धं दृढतया संघर्षितुं अस्माकं सङ्कल्पः अचलः अस्ति।
ते अवदत् यत् तस्मिन् भयङ्करे समये प्राणान् त्यक्तवन्तः प्रत्येकं निरपराध-नागरिकं तथा देशस्य सुरक्षायै सर्वोच्चबलिदानं दत्तवन्तः वीरसैनिकान् वयं गभीरां श्रद्धाञ्जलिं समर्पयामः।
Hindusthan Samachar / Divya Ranjan