भाजपा १ तः २५ दिसम्बरपर्यन्त राष्ट्रव्यापी ‘सेवादूत अभियानं’ चालयिष्यति, मोदीसर्वकारस्य उपलब्धयः गृहं गृहं प्रापयिष्यन्ति
नवदिल्ली, २६ नवम्बरमासः (हि.स.)। भारतीयजनतापक्षः प्रधानमन्त्री नरेन्द्रमोदी सार्वजनिकजीवने २५ वर्षाणि पूर्णवान् इत्यस्य उपलक्ष्ये देशव्यापीरूपेण १ दिसम्बरतः २५ दिसम्बर २०२६ पर्यन्तं ‘सेवादूत अभियानम्’ चालयिष्यति। २५ दिनात्मकस्य अस्य राष्ट्रव्यापी ज
भाजपा


नवदिल्ली, २६ नवम्बरमासः (हि.स.)। भारतीयजनतापक्षः प्रधानमन्त्री नरेन्द्रमोदी सार्वजनिकजीवने २५ वर्षाणि पूर्णवान् इत्यस्य उपलक्ष्ये देशव्यापीरूपेण १ दिसम्बरतः २५ दिसम्बर २०२६ पर्यन्तं ‘सेवादूत अभियानम्’ चालयिष्यति। २५ दिनात्मकस्य अस्य राष्ट्रव्यापी जनसम्पर्काभियानस्य समापनं २५ दिसम्बरदिनाङ्के सुशासनदिवसस्य अवसरे भविष्यति। एषः दिवसः पूर्वप्रधानमन्त्रिणः भारतरत्न-अटल-विहारीवाजपेयी इत्यस्य जन्मजयन्तीरूपेण आचर्यते।

भाजपायाः राष्ट्रियमहासचिवस्य अभि-यानस्य च राष्ट्रियसंयोजकस्य हरीशद्विवेदीस्य नेतृत्वे सञ्चाल्यमानस्य अस्य अभियानस्य मुख्योद्देश्यं केन्द्रस्य राज्यसर्वकाराणां च जनकल्याण-कारीयोजनाः गृहं गृहं प्रापयितुं तथा पात्रजनान् योजनानां लाभं प्रदातुम् अस्ति। सूत्रानुसारम्, अस्य अभियानस्य माध्यमेन दलकार्यकर्तारः सामान्यनागरिकैः सह प्रत्यक्षं संवादं कृत्वा तेषां समस्याः, विचारा:, सूचना: च सङ्ग्रहिष्यन्ति, येन ताः सर्वकारस्य दलनेतृत्वस्य च समीपं प्रापयितुं शक्यन्ते।

प्रत्येकं विधानसभाक्षेत्रे सेवादूताः नियुक्ताः भविष्यन्ति

अभियानस्य अन्तर्गतं भाजपायाः वरिष्ठनेतृभ्यः चयनितकार्यकर्तृभ्यः च विभिन्नेषु विधानसभाक्षेत्रेषु २५ दिनानां कृते दायित्वं प्रदास्यते। ते ‘सेवादूताः’ अथवा ‘विस्तारकाः’ इति रूपेण नियुक्ताः भविष्यन्ति। एते कार्यकर्तारः सम्बन्धित-विधानसभाक्षेत्रे निवसित्वा स्थानीयस्तरे जनैः सह सम्पर्कं करिष्यन्ति।

सूत्रानुसारं प्रत्येकं सेवादूतः सङ्गठ-नात्मकमण्डले प्रायः पञ्चदिनानि व्यतीतवान् भविष्यति। अस्मिन् अवधौ ते ग्रामेषु, नगरीयप्रभागेषु तथा मतदान-केन्द्रेषु गत्वा स्थानीयजनैः सह संवादं करिष्यन्ति। तदतिरिक्तं सर्वकारी-योजनानां कार्यान्वयनस्य, लाभार्थिनां स्थितेः तथा दलसङ्गठनस्य सुदृढतायाः च आकलनम् अपि करिष्यन्ति।

स्वगृहजनपदात् बहिः दायित्वं प्रदास्यते

अभियानं अधिकं प्रभावी निष्पक्षं च कर्तुं अनेकासु राज्येषु नेतृभ्यः कार्यकर्तृभ्यः च तेषां गृहजनपदेभ्यः बहिः स्थितेषु विधानसभाक्षेत्रेषु दायित्वं प्रदातुं योजना अस्ति। जम्मू-कश्मीर-मध्यप्रदेशादिषु राज्येषु एतस्य व्यवस्थायाः विशेषः आग्रहः क्रियते। अनेन कार्यकर्तारः स्थानीय-परिस्थितीनां स्वतन्त्रतया आकलनं कर्तुं शक्नुवन्ति।

अनेकेषु राज्येषु सज्जताः आरब्धाः

सेवादूताभियानस्य सन्दर्भे बिहारम्, जम्मू-कश्मीरम्, राजस्थानम्, छत्तीसगढम्, महाराष्ट्रम् इत्यादिषु अनेकासु राज्येषु सङ्गठनात्मककार्यशालाः आयोजिताः सन्ति। उत्तरप्रदेश-पञ्जाबादिषु आगामी-निर्वाचनयुक्तेषु राज्येषु अपि अभियानस्य सज्जतायाः विषये विशेषं ध्यानं दीयते।

Hindusthan Samachar / Divya Ranjan