Enter your Email Address to subscribe to our newsletters

बलरामपुरम्, 26 नवंबरमासः (हि.स.)।
उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे नवम्बरमासस्य सप्तविंशतितमे दिनाङ्के द्विदिवसीयप्रवासाय बलरामपुरं प्राप्स्यति। मुख्यमन्त्री अत्र देवीपाटनमन्दिरे आयोजिते ब्रह्मलीनमहन्तस्य महेन्द्रनाथयोगिनः षड्विंशतितमे पुण्यतिथिकार्यक्रमे सहभागितां करिष्यति। ततः देवीपाटनमन्दिरे रात्रिविश्रामं करिष्यति। अनन्तरं शनिवासरे अत्रतः प्रस्थानं करिष्यति।
प्रशासनेन गुरुवासरे निर्गतेन विस्तृतकार्यक्रमानुसारं मुख्यमन्त्री योगी नवम्बरमासस्य सप्तविंशतितमे दिनाङ्के मध्याह्ने सार्धैकवादने राजकीयवायुयानद्वारा मां पाटेश्वरी पब्लिक स्कूल, तुलसीपुरस्थितं विमानावतरणस्थलं प्राप्स्यति। ततः कारयानेन प्रस्थाय मध्याह्ने पञ्चत्रिंशदधिकैकवादने विश्वप्रसिद्धं शक्तिपीठं देवीपाटनमन्दिरं प्राप्स्यति।
निर्धारितकार्यक्रमानुसारं मध्याह्ने पञ्चत्रिंशदधिकैकवादनात् सायं पञ्चवादनपर्यन्तं मुख्यमन्त्रिणः समयः आरक्षितः भविष्यति। ततः सायं पञ्चवादनात् षड्वादनपर्यन्तं देवीपाटनमन्दिरपरिसरे ब्रह्मलीनमहन्तस्य महेन्द्रनाथस्य पुण्यतिथ्यवसरे आयोजिते श्रद्धाञ्जलि-स्मृतिकार्यक्रमे सहभागितां करिष्यति।
मुख्यमन्त्रिणः आगमनम् अपेक्ष्य प्रशासनेन सुरक्षाव्यवस्थायाः सहितं विविधविषयेषु व्यापकाः सज्जताः कृताः सन्ति।
--------------
Hindusthan Samachar / Dheeraj Maithani