छत्तीसगढे अद्य संविधानदिवसः आचर्यते
रायपुरम्, २६ नवम्बरमासः (हि.स.)। भारतसर्वकारस्य संसदीयकार्य-मन्त्रा-लयात् प्राप्तनिर्देशानाम् अनुसरणेन छत्तीसगढे अद्य गुरुवासरे ‘संविधान-दिवसस्य’ समारोहः आयोज्यते। अस्य प्रभावीकार्यन्वयनार्थं संस्कृतिविभागः नोडलविभागः नियुक्तः अस्ति। समारोहस्य अन्त
छत्तीसगढे अद्य संविधानदिवसः आचर्यते


रायपुरम्, २६ नवम्बरमासः (हि.स.)। भारतसर्वकारस्य संसदीयकार्य-मन्त्रा-लयात् प्राप्तनिर्देशानाम् अनुसरणेन छत्तीसगढे अद्य गुरुवासरे ‘संविधान-दिवसस्य’ समारोहः आयोज्यते। अस्य प्रभावीकार्यन्वयनार्थं संस्कृतिविभागः नोडलविभागः नियुक्तः अस्ति। समारोहस्य अन्तर्गतं प्रदेशस्य सर्वत्र विविधाः कार्यक्रमाः जागरूकतागति-विधयश्च सञ्चालिताः भविष्यन्ति।

अद्य प्रातः ११ वादने जनपदस्तरे, विकासखण्डस्तरे, तहसीलस्तरे तथा ग्रामस्तरे शासकीयकार्यालयेषु, शैक्षणिक-संस्थासु, नगरीयस्थानीयसंस्थासु, अन्येषु सार्वजनिकसंस्थासु सङ्घटनिषु च भारतीयसंविधानस्य उद्देशिकायाः सामूहिकवाचनं भविष्यति। नागरिकाः, विद्यार्थिनः, युवजनाश्च ‘माय गव’ पटलमाध्यमेन ऑनलाइन-उद्देशिकावाचने भागं ग्रहीतुं प्रोत्साहिताः भविष्यन्ति। एषा सुविधा २२ अनुसूचितभाषासु तथा आङ्ग्लभाषया सह २३ भाषासु उपलब्धा अस्ति।

राज्यशासनस्य संस्कृतिविभागस्य सचिवः सर्वेभ्यः जनपदाधीशेभ्यः निर्देशान् प्रेषितवान् यत् जनपदेषु गतिविधीनां समुचितसमन्वयार्थं जनपदस्तरे एकः वरिष्ठाधिकारी नोडलाधिकारीरूपेण नामाङ्कितः भवेत्। आयोजितकार्य-क्रमाणां, प्रतिभागिनां सङ्ख्यायाः तथा गतिविधीनां विस्तृतप्रतिवेदनं छायाचित्रैः सह संस्कृतिविभागस्य ईमेल-सङ्केते sanskriti.rajbhasha@com इत्यत्र प्रेषयितुं सुनिश्चितं भवेत्। आयोजन-सम्बद्धानाम् अन्यासां सूचनानां प्राप्त्यर्थं संस्कृतिविभागस्य नोडलाधिकारी युगलतिवारी (चलभाषा-सङ्ख्या ९४०६३-९८०८०) इत्यनेन सम्पर्कः कर्तुं शक्यते।

Hindusthan Samachar / Divya Ranjan