Enter your Email Address to subscribe to our newsletters

हिन्दीसाहित्यस्य लोकप्रियः कविः हरिवंशराय बच्चनः १९०७ तमे वर्षे नवम्बरमासस्य २७ दिनाङ्के इलाहाबादनगरे (अधुना प्रयागराजम्) जन्म प्राप्तवान्। सहजभाषया, भावपूर्णाभिव्यक्त्या विशिष्टकाव्यशैल्या च सः हिन्दी-कवितां सामान्यजनानां हृदयेषु प्रतिष्ठितवान्। तस्य रचनासु प्रेम, विरहः, संघर्षः, आशा, जीवनदर्शनं च एतादृशेन प्रकारेण अभिव्यक्तानि सन्ति, येन पाठकाः अद्यापि गभीरतया प्रभाविताः भवन्ति।
हरिवंशराय बच्चनः साहित्यजगति सर्वाधिकं प्रसिद्धिं स्वस्य कालजयी-कृत्या ‘मधुशाला’ इत्यनेन प्राप्तवान्। १९३५ तमे वर्षे प्रकाशितेन अस्मिन् काव्यसङ्ग्रहेण हिन्दी-साहित्ये तस्य विशिष्टा प्रतिष्ठा निर्मिता। रुबाईशैलीया रचितायां ‘मधुशाला’ इत्यस्यां हाला, प्याला, साकी इत्यादीनां प्रतीकानां माध्यमेन कविः जीवनस्य विविधपरिस्थितीनां, मानवीयभावनानां, दर्शनस्य च अभिव्यक्तिं कृतवान्। अस्याः लोकप्रियतायाः अनुमानं तेनैव कर्तुं शक्यते यत् अस्याः पङ्क्तयः अद्यापि साहित्यप्रेमिणां मध्ये समानरूपेण लोकप्रियाः सन्ति।
‘मधुशाला’ इत्यस्याः अतिरिक्तं ‘मधुबाला’, ‘मधुकलशः’, ‘निशानिमन्त्रणम्’, ‘एकान्तसङ्गीतम्’ तथा ‘खादीकेफूल’ इत्यादयः तस्य प्रमुखाः काव्यकृतयः सन्ति। तस्य आत्मकथायाः चत्वारः खण्डाः अपि हिन्दी-साहित्यस्य महत्त्वपूर्णाः उपलब्धयः इति गणिताः भवन्ति। बच्चनस्य लेखन्याम् व्यक्तिगत-अनुभवानां सह समाजस्य जीवनस्य च व्यापकाः विषयाः अपि दृश्यन्ते।
बच्चनः केवलं कविः न, अपितु कुशलः अनुवादकः अपि आसीत्। सः शेक्सपियरस्य अनेकाः महत्त्वपूर्णाः कृतयः हिन्दीभाषायाम् अनूदितवान्। साहित्यक्षेत्रे तस्य योगदानाय १९६८ तमे वर्षे साहित्य-अकादमी-पुरस्कारः, १९७६ तमे वर्षे पद्मभूषणसम्मानः च प्रदत्तः।
हरिवंशराय बच्चनस्य निधनं २००३ तमस्य वर्षस्य जनवरीमासस्य १८ दिनाङ्के मुम्बईनगरे अभवत्। तस्य रचनाः अद्यापि पाठकानां मध्ये जीवन्त्यः सन्ति। तस्य कवितया हिन्दी-साहित्याय एतादृशी धरोहरः प्रदत्ता, यस्यां मानवीयसंवेदनानां, जीवनसंघर्षाणां, आशानां च स्वरः अद्यापि श्रूयते।
महत्त्वपूर्णघटनाचक्रम्
१००१ – आक्रमणकारी महमूदगजनीना हिन्दूशासकः जयपालः पराजितः।१०९५ – पोप-अर्बन-द्वितीयः प्रथमस्य क्रूसेड् (धर्मयुद्धस्य) उपदेशं दत्तवान्।१७९५ – प्रथमस्य बाङ्ग्लानाटकस्य मञ्चनम् अभवत्।१८०७ – नेपोलियनस्य सेनायाः भयात् पुर्तगालस्य राजपरिवारः लिस्बननगरं त्यक्तवान्।१८१५ – पोलैण्डराज्येन संविधानम् अङ्गीकृतम्।१८९५ – अल्फ्रेड नोबेलः नोबेलपुरस्कारस्य स्थापना कृतवान्।१९१२ – अल्बानियादेशेन राष्ट्रध्वजः अङ्गीकृतः।१९३२ – पोलैण्डदेशेन तत्कालीनेन सोवियतसङ्घेन सह अनाक्रमणसन्धिः हस्ताक्षरितः।१९४८ – राष्ट्रिय-कैडेट्-कोर (एनसीसी) इत्यस्य स्थापना अभवत्।१९४९ – जबलपुरनगरस्य निवासिभिः धनसङ्ग्रहं कृत्वा नगरपालिकाप्राङ्गणे सुभद्राकुमारीचौहानस्याः आदमकदप्रतिमा स्थापितम्। अस्याः अनावरणं कवयित्र्या तस्याः बाल्यकालस्य सख्यया महादेवीवर्मणा कृतम्।१९६६ – उरुग्वेदेशेन संविधानम् अङ्गीकृतम्।१९७५ – बीबीसी-कार्यक्रमप्रस्तोता रोस-मैक्वर्स्टरः गोलीप्रहारैः हतः। सः गिनीज्-बुक्-ऑफ्-वर्ल्ड-रिकॉर्ड्स इत्यस्य सहसंस्थापकत्वेन अपि प्रसिद्धः आसीत्।१९९५ – वेनेजुएलादेशस्य जौकेलीन-एग्वीलेरा-मार्कानो ‘मिस्-वर्ल्ड्’ १९९५ इति उपाधिं प्राप्तवती।२००० – फ्लोरिडायां मतगणनायां जार्जबुशः ५३७ मतैः विजयी अभवत्। फ्लोरिडायां विजयेन जार्जबुश-जूनियरः अमेरिकी-राष्ट्रपतिपदाय स्वस्य कथनं प्रस्तुतवान्।२००१ – हब्बल-दूरदर्शकेण सौरमण्डलात् बहिः स्थिते ओसाइरस्-ग्रहस्य हाइड्रोजनयुक्तवायुमण्डलस्य अन्वेषणं कृतम्। सौरमण्डलात् बहिः स्थितेषु ग्रहेषु एतादृशवायुमण्डलयुक्तः प्रथमः ग्रहः आसीत्।२००२ – बेलारूसस्य प्रधानमन्त्री जेनेदी वी नोवित्स्की भारतयात्रायां नवदिल्लीम् आगतवान्।२००४ – अन्तरराष्ट्रीयश्रमसङ्घस्य अध्यक्षः जुआन् सोमाविया भारतयात्रायां नवदिल्लीनगरम् आगतवान्।२००५ – फ्रान्सदेशे इजाबेल-दिनोरे-नाम्न्याः महिलायाः विश्वे प्रथमं सफलं आंशिकमुखप्रतिरोपणम् अभवत्।२००७ – पाकिस्तानस्य पूर्वराष्ट्रपतिः परवेजमुशर्रफः सैनिकसहचरैः सह विदायम् अकरोत्।२००८ – षष्ठवेतनायोगस्य अनुशंसानां कार्यान्वयनं कृतवान् उत्तरप्रदेशः देशस्य प्रथमं राज्यम् अभवत्।२००८ – केन्द्रसर्वकारेण सर्वोच्चन्यायालयस्य उच्चन्यायालयानां च न्यायाधीशानां वेतनं त्रिगुणं वर्धयितुं स्वीकृतिः प्रदत्ता।२०१२ – यूरोजोने वित्तीयसङ्कटेन पीडिताय ग्रीसदेशाय ४३.७ अरब-यूरो-मुद्राणां ऋणं दातुं घोषणा कृता।२०१३ – विश्वे सर्वाधिकं आयं प्राप्तवती एनिमेशन-चलचित्रं ‘फ्रोजन’ प्रकाशितम्।२०१४ – ऑस्ट्रेलियायाः क्रिकेटक्रीडकः फिलिप् ह्यूजः बाउन्सर-प्रहारात् आहतः सन् मृतः।२०१७ – उत्तरप्रदेशस्य उरईनगरे पर्णानि खादितवन्तः, गमलान् भग्नवन्तः इति आरोपेण चतुर्दिनानि कारागारे निरुद्धाः अष्ट गदर्भाः मुक्ताः।२०१९ – पृथिव्याः अत्यन्तं स्पष्टानि चित्राणि ग्रहीतुं समर्थस्य भारतस्य कार्टोसैट्-३ उपग्रहस्य सफलं प्रक्षेपणम् अभवत्।
जन्म
१८८१ – काशीप्रसादजायसवालः – भारतस्य प्रसिद्धः इतिहासकारः पुरातत्त्वविद् च।१८८८ – गणेशवासुदेवमावलंकरः – लोकसभायाः प्रथमः अध्यक्षः।१९०७ – हरिवंशरायबच्चनः – प्रसिद्धः कविः लेखकः च।१९४० – ब्रूसली – मार्शल-आर्ट्स-कला क्षेत्रस्य महानायकः।१९४२ – मृदुलासिंहाः – भारतीयजनतापक्षस्य वरिष्ठनेत्री गोवायाः पूर्वराज्यपालिका च।१९५० – कुइन ओजा – असमस्य भारतीय राजनीतिज्ञा।१९५२ – बप्पीलाहिरी – प्रसिद्धः भारतीयगायकः सङ्गीतकारः च।
निधनम्
१८५२ – ऐडा लवलेस – आङ्ग्लगणितज्ञा लेखिका च।१९७६ – गजाननत्र्यम्बकमाडखोलकरः – मराठी-उपन्यासकारः, समीक्षकः पत्रकारः च।१९७८ – लक्ष्मीबाईकेलकरः – भारतस्य प्रसिद्धा समाजसुधारिका।२००२ – शिवमंगलसिंहसुमनः – प्रसिद्धः प्रगतिशीलकविः।२००८ – विश्वनाथप्रतापसिंहः – भारतस्य पूर्वप्रधानमन्त्री।२०१८ – मोहम्मदअजीजः – भारतस्य प्रसिद्धः पार्श्वगायकः।२०१९ – सुशीलकुमारः – भारतीयनौसेनायाः पूर्वप्रमुखः एडमिरलः।
Hindusthan Samachar / Divya Ranjan