एचआईवी-नियन्त्रणक्षेत्रे सीवानेन इतिहासः रचितः, ९५-९५-९५ लक्ष्यं प्राप्तेषु २३ जनपदेषु समावेशः
सीवानम्, २६ नवम्बरमासः (हि.स.)। एचआईवी-संक्रमणस्य नियन्त्रणस्य दिशि सीवानजनपदेन महती उपलब्धिः प्राप्ता। राष्ट्रिय-एड्स-नियन्त्रणकार्यक्रमस्य निर्धारितं ९५-९५-९५ लक्ष्यं प्राप्तेषु बिहारस्य २३ जनपदेषु सीवानजनपदम् अपि सम्मिलितम् अभवत्। जनपदेन प्रथमचर
एचआईवी-नियन्त्रणक्षेत्रे सीवानेन इतिहासः रचितः, ९५-९५-९५ लक्ष्यं प्राप्तेषु २३ जनपदेषु समावेशः


सीवानम्, २६ नवम्बरमासः (हि.स.)। एचआईवी-संक्रमणस्य नियन्त्रणस्य दिशि सीवानजनपदेन महती उपलब्धिः प्राप्ता। राष्ट्रिय-एड्स-नियन्त्रणकार्यक्रमस्य निर्धारितं ९५-९५-९५ लक्ष्यं प्राप्तेषु बिहारस्य २३ जनपदेषु सीवानजनपदम् अपि सम्मिलितम् अभवत्। जनपदेन प्रथमचरणे ९५ प्रतिशतं, द्वितीयचरणे ९८ प्रतिशतं तथा तृतीयचरणे अपि ९८ प्रतिशतं उपलब्धिः प्राप्ता। एतया सफलतया सीवानजनपदः एचआईवी-नियन्त्रणस्य क्षेत्रे राज्यस्य उत्तमप्रदर्शनकर्तृणां जनपदानां श्रेण्यां समाविष्टः अभवत्।

स्वास्थ्यविभागस्य विवरणानुसारं जनपदे एचआईवी-संक्रमितानां अनुमानितसंख्या ६,४३६ अस्ति। एतेषु ६,१३८ संक्रमितानां परिचयः कृतः अस्ति। अपरतः प्रायः ६,००६ रोगिणः एण्टी-रेट्रोवायरल-चिकित्सायाः अन्तर्गतं नियमितं उपचारं प्राप्नुवन्ति। उपचारं प्राप्यमाणेषु रोगिषु विषाणुभारस्य परीक्षणेन नियमितनिरीक्षणेन च संक्रमणं नियन्त्रणाधीनं स्थापयितुं विशेषः आग्रहः क्रियते।

९५-९५-९५ रणनीत्याः उद्देश्यं एचआईवी-संक्रमितानां ९५ प्रतिशतं जनानां परिचयं कर्तुं, परिचितेषु संक्रमितेषु ९५ प्रतिशतं उपचारेण संयोजयितुं तथा उपचाररताणां ९५ प्रतिशतं रोगिणां विषाणुभारं न्यूनीकृत्य संक्रमणस्य स्थितिं नियन्त्रणाधीनं स्थापयितुम् अस्ति।

बिहारराज्ये एचआईवी-नियन्त्रण-कार्यक्रमस्य प्रदर्शनाधारेण जनपदानि विभिन्नासु श्रेणीषु विभक्तानि सन्ति। एतेषु २३ जनपदाः सुरक्षितश्रेण्यां, १३ जनपदाः सक्षमश्रेण्यां तथा द्वौ जनपदौ संघर्षशीलश्रेण्यां सम्मिलितौ स्तः। सीवानस्य सुरक्षितश्रेण्यां समावेशः जनपदे एचआईवी-परीक्षणस्य, संक्रमितानां परिचयस्य, उपचारस्य तथा अनुवर्तन-व्यवस्थायाः सुधारणं दर्शयति।

सिविलसर्जनः डॉ. श्रीनिवासप्रसादः अवदत् यत् एचआईवी-नियन्त्रणकार्यक्रमे सीवा-नस्य एषा उपलब्धिः स्वास्थ्य-विभागस्य गौरवस्य विषयः अस्ति। संक्रमितानां समये परिचयः, नियमितं एआरटी-औषधसेवनं तथा रोगिणां निरन्तरनिरीक्षणस्य कारणेन ९५-९५-९५ लक्ष्यं प्राप्तुं सफलता प्राप्ता। तेन उक्तं यत् विभागस्य प्रयासः अस्ति, यत् कोऽपि संक्रमितः व्यक्तिः परीक्षणात् उपचारात् च वञ्चितः न भवेत्। तदतिरिक्तं एचआईवी-संक्रमितानां प्रति समाजे जागरूकतां वर्धयितुं तथा तेषां प्रति किमपि प्रकारस्य भेदभावं निवारयितुं आवश्यकता अस्ति।

स्वास्थ्यविभागस्य समक्षम् अधुना एताम् उपलब्धिं कायमं स्थापयितुं तथा अवशिष्टसंक्रमितानां परिचयं कृत्वा तान् नियमितोपचारस्य परिधौ आनेतुं समस्या अस्ति। एतदर्थं परीक्षणस्य विस्तारः, रोगिणां नियमितपरामर्शः, औषधानां उपलब्धता तथा विषाणुभारस्य निरीक्षणम् इत्येतेषु विशेषं ध्यानं दीयते।

Hindusthan Samachar / Divya Ranjan