ओलिम्पिक्-क्रीडाणाम् आतिथ्यग्रहणाय भारतं अन्ताराष्ट्रिय-ओलिम्पिक-समितेः समक्षं स्वदृष्टिकोणम् उपस्थापितवान्, अहमदाबादस्य सज्जतायाः विवरणं च प्रदत्तवान्
नवदिल्ली, नवम्बरमासः २६ दिनाङ्कः (हि.स.)। भारतीय-ओलिम्पिक्-सङ्घेन २०३६ तमस्य वर्षस्य ओलिम्पिक्-पैरालिम्पिक्-क्रीडाणाम् आतिथ्यग्रहणाय भारतस्य दृष्टिकोणः प्रस्ताविता च रूपरेखा अन्ताराष्ट्रिय-ओलिम्पिक-समितेः भावि-आतिथ्य-आयोगस्य समक्षं प्रस्तुतौ। गुरुव
ओलंपिक 2036 की मेजबानी के लिए भारत ने आईओसी के सामने रखा अपना दृष्टिकोण


नवदिल्ली, नवम्बरमासः २६ दिनाङ्कः (हि.स.)। भारतीय-ओलिम्पिक्-सङ्घेन २०३६ तमस्य वर्षस्य ओलिम्पिक्-पैरालिम्पिक्-क्रीडाणाम् आतिथ्यग्रहणाय भारतस्य दृष्टिकोणः प्रस्ताविता च रूपरेखा अन्ताराष्ट्रिय-ओलिम्पिक-समितेः भावि-आतिथ्य-आयोगस्य समक्षं प्रस्तुतौ। गुरुवासरे सम्पन्नायां अन्तर्जालीय-प्रस्तुतौ अहमदाबादस्य सज्जतायाः, क्रीडा-आधारभूत-संरचनायाः तथा भारतस्य आतिथ्यसम्बद्धानां योजनानां च विवरणं प्रदत्तम्।

अस्यां प्रस्तुतौ भारतीय-ओलिम्पिक-सङ्घस्य अध्यक्षा डॉ. पी.टी. उषा, मुख्यकार्यकारी-अधिकारी रघुराम अय्यरः तथा भारतीय-ओलिम्पिक्-सङ्घस्य क्रीडक-आयोगस्य अध्यक्षा पी.वी. सिन्धुः भारतस्य प्रतिनिधित्वम् अकुर्वन्।

भारतस्य अन्ताराष्ट्रिय-ओलिम्पिक्-समित्याः सदस्या नीता अम्बानी अपि अस्मिन् अवसरे उपस्थिताऽभवत्।

प्रस्तुतौ अहमदाबादस्य क्रीडासम्बद्धानां सज्जतानां सह नगरस्य, राज्यस्य तथा केन्द्रसर्वकारस्य सहयोगः प्रमुखतया प्रस्तुतः। तदतिरिक्तं बृहदन्ताराष्ट्रिय-क्रीडा-आयोजनानाम् आतिथ्यग्रहणे भारतस्य अनुभवः, प्रस्तावितानां क्रीडास्थलानां विकासः तथा क्रीडानाम् आयोजनसम्बद्धाः दीर्घकालीनाः योजनाः अपि विवृताः।

अहमदाबादं भारतस्य प्रस्तावितायाः आतिथ्ययोजनायाः केन्द्ररूपेण वर्णितम्। नगरे २०३० तमे वर्षे राष्ट्रमण्डल-क्रीडाणाम् आयोजनं भविष्यति। अतः विश्वस्तरीय-क्रीडास्थलानां तैः सम्बद्धानां च आधारभूत-सुविधानां विकासः २०३६ तमस्य वर्षस्य ओलिम्पिक्-क्रीडाणां सज्जतायाः महत्त्वपूर्णः भागः भविष्यति।

अस्मिन् सम्मेलने केन्द्रीय-युवा-कार्य-क्रीडा-मन्त्री डॉ. मनसुखमाण्डविया तथा गुजरातस्य उपमुख्यमन्त्री हर्ष-सङ्घवी इत्येताभ्यां सह केन्द्रसर्वकारस्य गुजरात-सर्वकारस्य च वरिष्ठाधिकारिणः अपि उपस्थिताः आसन्।

प्रायः अर्धहोरां यावत् प्रवृत्तायाः प्रस्तुत्याः अनन्तरं अन्ताराष्ट्रिय-ओलिम्पिक-समितेः भावि-आतिथ्य-आयोगस्य भारतीय-प्रतिनिधिमण्डलस्य च मध्ये संवादः अपि अभवत्। अस्मिन् संवादे क्रीडाणां सम्भावितायाः दीर्घकालिक-उपलब्धेः प्रभावस्य च, स्थानीयस्तरात् राष्ट्रियस्तरपर्यन्तं विकासयोजनाभिः सह समन्वयस्य, क्रीडास्थलानां रूपरेखायाः, सर्वकारीय-सहयोगस्य तथा वित्तीय-रणनीतेः च विषये चर्चा अभवत्।

भारतं सम्प्रति तेषु सप्तसु देशेषु अन्तर्भवति, ये अन्ताराष्ट्रिय-ओलिम्पिक-समित्या सह निरन्तर-संवादस्य चरणे सन्ति। अस्याः प्रक्रियायाः २०२७ तमस्य वर्षस्य मार्चमासे रणनीतिक-संवाद-चरणं प्राप्तुं सम्भावना अस्ति।

Hindusthan Samachar / Divya Ranjan