Enter your Email Address to subscribe to our newsletters

वाराणसी, २६ नवम्बरमासः (हि.स.)। वाराणस्यां प्रथमवारं आयोज्यमानायां ६३ तम्यां सेठ एम.आर. जैपुरिया राष्ट्रियशतरञ्जप्रतियोगितायां अस्मिन् वर्षे विंशत्यधिकाः ग्राण्डमास्टर, विंशतिः अन्ताराष्ट्रियमास्टर, पञ्चदश कैंडिडेट् मास्टर, तदतिरिक्तं चतुर्विंशतिः फिडे मास्टर भागं ग्रहीष्यन्ति। एतैः सह ११५ क्रीडकाः अपि सन्ति, ये फिडे उपाधिं तथा फिडे एरीना उपाधिं प्राप्तवन्तः। अस्यां प्रतियोगितायाम् अर्जुनपुरस्कारविजेतारः, राष्ट्रमण्डलविजेतारः, एशियाईक्रीडाविजेतारः तथा शतरञ्ज-ओलम्पियाडविजेतारः अपि सम्मिलिताः भविष्यन्ति।
बाबतपुरस्थितस्य सेठ एम.आर. जैपुरिया विद्यालयस्य प्राङ्गणे नवम्बरमासस्य २९ दिनाङ्कतः डिसेम्बरमासस्य ९ दिनाङ्कपर्यन्तम् आयोज्यमानायां प्रतियोगितायाम् अधुना यावत् ३२१ प्रतिभागिनां पञ्जीकरणं जातम्। अस्यां देशस्य सर्वेभ्यः अष्टाविंशतिभ्यः राज्येभ्यः केन्द्रशासितप्रदेशेभ्यः च, संस्थागतदलानि च भागं ग्रहीष्यन्ति। वाराणसी शतरञ्जसङ्घस्य आयोजनसमित्याः अध्यक्षः दीपकबजाजः अवदत् यत् प्रतियोगितायां गतवर्षस्य राष्ट्रियविजेता जीएम सीड-१ पी. इनियानः शतरञ्जक्रीडायां भागं गृह्णन् दृश्यते। तेन सह षड्वारं विजेता, अर्जुनपुरस्कारविजेता, पूर्व एशियाईक्रीडाविजेता च जीएम सीड-३ सूर्यशेखरः गाङ्गुली अपि अस्मिन् वर्षे शतरञ्जक्रीडायां स्वकौशलं प्रदर्शयिष्यति। गाङ्गुली शतरञ्जस्य सम्राट् इति प्रसिद्धस्य विश्वनाथन आनन्दस्य विश्वचैम्पियनशिपविजेतृदलस्य प्रमुखसहयोगी आसीत्।
आयोजनसमित्या सह सम्बद्धः उत्तरप्रदेशशतरञ्जसङ्घस्य महासचिवः ए. के. रायजादा अवदत् यत् एकमात्रः पञ्चवारं राष्ट्रमण्डलविजेता जीएम सीड-५ अभिजीतः गुप्ता अपि उपाधिप्राप्त्यर्थं प्रतिस्पर्धां करिष्यति। सः अर्जुनपुरस्कारविजेता भवितुम् अतिरिक्तं पूर्वः कनिष्ठविश्वविजेता अपि आसीत्। स्वस्य आक्रामकक्रीडाशैल्या विश्वभरि ‘द बीस्ट’ इति नाम्ना प्रसिद्धः जीएम सीड-२ बी. अधिबानः, सीड-८ जीएम कार्तिक वेङ्कटरमणः, वर्तमानः राष्ट्रमण्डलशतरञ्जविजेता सीड-९ जीएम मित्रभा गुहः तथा च सीड-४ जीएम दीप्तायनघोषः, सीड-१७ जीएम संदीपनचन्दः, भारतस्य प्रथमः ग्राण्डमास्टरभ्रातृद्वयः जीएम एन.आर.विशाखः तथा जीएम एन.आर.विग्नेशः इत्यादयः प्रसिद्धाः शतरञ्जक्रीडकाः प्रतियोगितायां भागं ग्रहीष्यन्ति।
राज्येषु पश्चिमबङ्गस्य, संस्थागतदलेषु च रेलविभागस्य सर्वाधिकं बृहत् दलम्
वाराणसी शतरञ्जसङ्घस्य सचिवः तुषारसारस्वतः अवदत् यत् देशस्य सर्वेषु भागेषु स्थितेषु शतरञ्जक्रीडकेषु अस्मिन् वर्षे विशेषः उत्साहः दृश्यते। अस्मिन् वर्षे पश्चिमबङ्गस्य सर्वाधिकं बृहत् दलम् अस्ति, यस्मिन् २९ क्रीडकाः सन्ति। तदनन्तरं तमिलनाडुतः २८ क्रीडकाः, आयोजकस्य उत्तरप्रदेशस्य २६ क्रीडकाः, महाराष्ट्रात् २५, तेलङ्गानात् २३ तथा आन्ध्रप्रदेशात् १९ क्रीडकाः भागं ग्रहीष्यन्ति।
संस्थागतदलेषु रेलविभागतः १७ क्रीडकाः भागं ग्रहीष्यन्ति, येषु १० ग्राण्डमास्टर तथा ६ अन्ताराष्ट्रियमास्टर इत्येते सन्ति। एतेषामतिरिक्तं पेट्रोलियम क्रीडा प्रोत्साहनमण्डलात् अष्टौ क्रीडकाः भागं ग्रहीष्यन्ति, येषु चत्वारः ग्राण्डमास्टर इत्येते भविष्यन्ति। प्रतियोगितायां विजेतुः कृते षड्लक्षरूप्यकाणि सहितं समग्रतया त्रिंशल्लक्षरूप्यकाणां पुरस्कारराशिः निर्धारितास्ति।
Hindusthan Samachar / Divya Ranjan