Enter your Email Address to subscribe to our newsletters


,नूतनानाम् आपराधिकविधानानादेहरादूनम्, 26नवम्बरमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी नूतनानां आपराधिकविधानानां प्रशिक्षणाय जनजागरूकतायै च अभियोजनविभागाय २५ लक्षरूप्यकाणाम् अतिरिक्तधनराशिं प्रदातुम् सहिताः तिस्रः महत्त्वपूर्णाः घोषणाः कृतवान्।
मुख्यमन्त्रिणा गुरुवासरे देहरादूनस्य पुलिसलाइन इत्यत्र संविधान-विधिदिवसस्य अवसरे आयोजिते कार्यक्रमे उक्तं यत् अभियोजनविभागस्य, आरक्षिविभागस्य तथा अन्येषां सम्बद्धविभागानाम् अधिकारिणां कर्मचारिणां च नूतनानां आपराधिकविधानानां प्रशिक्षणाय सामान्यजनानां जागरूकतायै च २५ लक्षरूप्यकाणाम् अतिरिक्तधनराशिः स्वीकृता भविष्यति। तेन अभियोजनकार्यालयानां आधुनिकीकरणाय सङ्गणकानाम् अन्येषाम् आवश्यकसुविधानां च कृते अतिरिक्तधनराशिं उपलब्धां कारयितुं तथा सर्वेषु जनपदेषु अभियोजनकार्यालयानां आधारभूतसुविधानां सुधारं कर्तुं च घोषणा कृता। मुख्यमन्त्रिणा उक्तं यत् एताभिः योजनाभिः अभियोजनविभागस्य कार्यक्षमता वर्धिष्यते तथा प्रदेशस्य न्यायव्यवस्था सुदृढा भविष्यति।
मुख्यमन्त्रिणा उक्तं यत् अभियोजनसेवा आपराधिकन्यायव्यवस्थायाः महत्त्वपूर्णः स्तम्भः अस्ति। अन्वेषणाधिकारिभिः सङ्कलितानां साक्ष्याणां विधिकपरीक्षणं कृत्वा तथ्यानि न्यायालयस्य समक्षं निष्पक्षतया प्रस्तुतिकरणम् अभियोजनाधिकारिणां महत्त्वपूर्णं दायित्वम् अस्ति। तेषां विधिकदक्षतया निष्पक्षतया च न्यायव्यवस्थायाः प्रति सामान्यनागरिकाणां विश्वासः सुदृढः भवति।
तेन उक्तं यत् १९४९ तमवर्षस्य नवम्बरमासस्य २६ दिनाङ्के संविधानसभया द्विवर्षाणि, एकादशमासान्, अष्टादशदिनानि च यावत् परिश्रमं कृत्वा भारतीयसंविधानम् अङ्गीकृतम् आसीत्। २०१५ तमे वर्षे केन्द्रसर्वकारेण बाबासाहेब डॉ. भीमरावाम्बेडकरस्य १२५ तमजयन्त्यवसरे नवम्बरमासस्य २६ दिनाङ्कं संविधानदिवसरूपेण आचरितुं निर्णयः कृतः।
मुख्यमन्त्रिणा उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे औपनिवेशिककालीनानां आपराधिकविधानानां स्थाने भारतीयन्यायसंहिता, भारतीयनागरिकसुरक्षासंहिता तथा भारतीयसाक्ष्याधिनियमः प्रवर्तिताः। एतेषु विधानेषु पीडितानां अधिकाराणां समयबद्धन्यायस्य च विषये विशेषं बलं प्रदत्तम् अस्ति। अनेन अभियोजनाधिकारिणां दायित्वम् अधिकं महत्त्वपूर्णम् अभवत्।
तेन उक्तं यत् राज्यसर्वकारः न्यायव्यवस्थायाः आधुनिकीकरणाय सुदृढीकरणाय च नवीनन्यायालयभवनानां निर्माणं, प्राचीनभवनानां आधुनिकीकरणम्, ई-फाइलिङ्ग्, अङ्कीयन्यायालयानां आभासीयश्रवणव्यवस्थायाश्च विस्तारं कुर्वन् अस्ति। अनेन दूरस्थपर्वतीयक्षेत्राणां जनानां न्यायप्राप्तिः सुगमा भवति।
मुख्यमन्त्री धामी उक्तवान् यत् विधेः प्रभावी कार्यान्वयनं तदैव सम्भवं भवति, यदा तस्य पालनं भेदभावं विना सुनिश्चितं क्रियते तथा उल्लङ्घनकर्तॄणां विरुद्धं कार्यवाही भवति। देवभूमिः उत्तराखण्डे विधिशासनस्य स्थापनं तथा अपराधविषये शून्यसहिष्णुतानीतेः कार्यान्वयनं सर्वकारस्य सङ्कल्पः अस्ति।
मुख्यमन्त्रिणा कार्यक्रमे विभिन्नक्षेत्रेषु उल्लेखनीययोगदानाय द्वादशभ्यः व्यक्तिभ्यः सम्मानं प्रदत्तम्। तेषु वरिष्ठाधिवक्तारः सीतारामनागलिया, एस.सी. बिरमानी, गोविन्दरामनौटियालः, समाजसेविका कुसुमकण्डवालः, चिकित्सके डॉ. गीताखन्ना, डॉ. महेशकुडियालः, समाजसेवी शिक्षाविद् च ललितजोशी तथा सेवानिवृत्ताः अभियोजकाः रामसिंहशर्मा, मनोहरलालसडाना, सुभाषचन्द्रगुप्तः, त्रेपनसिंहबिष्टः, सुन्दर सिंहगुसाईं च सम्मिलिताः सन्ति।
तेन ‘उत्तराखण्ड-अभियोजनपत्रिका’ तथा ‘अस्माकं राज्यं, अस्माकं विधिः’ इति पुस्तकयोः विमोचनम् अपि कृतम्। मुख्यमन्त्रिणा उपस्थितजनाः संविधानपालनस्य शपथं कारिताः तथा विधिरथः हरितध्वजं प्रदर्श्य प्रस्थापितः।
कार्यक्रमे विधायकः विनोदचमोली, राज्य महिला आयोगस्य अध्यक्षा कुसुमकण्डवालः, गृहसचिवः शैलेशबगौली तथा अभियोजननिदेशकः ए.पी. अंशुमानः सहिताः अभियोजनविभागस्य आरक्षिविभागस्य च अधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्।---------------
Hindusthan Samachar / Dheeraj Maithani