उत्तराखण्डे समाननागरिकसंहितातः कठोरनकलविरोधिविधिपर्यन्तं आर्थिकसामाजिकविकासेऽपि सर्वकारस्य विशेषः आग्रहः।
देहरादूनम्, 26 नवंबरमासः (हि.स.)। उत्तराखण्डे समाननागरिकसंहितातः कठोरनकलविरोधिविधिपर्यन्तं विधिसुधाराः, आर्थिकविकासः सामाजिकसुरक्षायां च सर्वकारस्य विशेषः आग्रहः। मुख्यमन्त्रिणः पुष्करसिंहधामीवर्यस्य नेतृत्वे उत्तराखण्डराज्यसर्वकारेण विगतेषु पञ्चव
मुख्यमंत्री पुष्कर सिंह धामी फाइल चित्र।


देहरादूनम्, 26 नवंबरमासः (हि.स.)। उत्तराखण्डे समाननागरिकसंहितातः कठोरनकलविरोधिविधिपर्यन्तं विधिसुधाराः, आर्थिकविकासः सामाजिकसुरक्षायां च सर्वकारस्य विशेषः आग्रहः।

मुख्यमन्त्रिणः पुष्करसिंहधामीवर्यस्य नेतृत्वे उत्तराखण्डराज्यसर्वकारेण विगतेषु पञ्चवर्षेषु विधिसुधाराः, आर्थिकविकासः सामाजिकसुरक्षा च स्वप्राथमिकतासु समाविष्टाः। अस्मिन् काले समाननागरिकसंहिता (यूसीसी), कठोरनकलविरोधिविधिः, भूमिविधिः इत्यादयः निर्णयाः कृताः। एतैः सह अर्थव्यवस्थायाः विस्ताराय, रोजगारस्य अवसराणां वर्धनाय निर्धनपरिवारेभ्यः सहायताप्रदानाय च विविधाः योजनाः सञ्चालिताः।

राज्यसर्वकारस्य कथनानुसारं २०२५ तमस्य वर्षस्य जनवरीमासस्य २७ दिनाङ्के उत्तराखण्डं समाननागरिकसंहितां प्रवर्तयितुं प्रथमं राज्यम् अभवत्। अस्याः अन्तर्गतं विवाहः, विवाहविच्छेदः, उत्तराधिकारः, सहजीवनसम्बन्धः (लिव्-इन रिलेशनशिप) इत्यादिविषयेषु समानविधिव्यवस्था प्रवर्तिता। अपरतः सर्वकारीयभर्त्यर्थं परीक्षासु अनुचितसाधनानां प्रयोगं प्रश्नपत्राणां च स्फोटनं (लीक) निवारयितुं वर्षे २०२३ तमे कठोरः नकलविरोधिविधिः प्रवर्तितः। अस्मिन् संगठितरूपेण परीक्षाव्यवस्थायां विकृतिं कुर्वद्भ्यः आजीवनकारावासस्य दशकोटिरूप्यकाणि यावत् दण्डस्य च प्रावधानम् अस्ति। दोषिणां सम्पत्तेः अधिग्रहणस्य तथा तान् भर्तिपरीक्षाभ्यः प्रतिबन्धितुं च व्यवस्था कृता अस्ति।

सर्वकारेण वर्षे २०२२ तमे धर्मान्तरणविरोधिविधिः अपि अधिकं कठोरः कृतः। अस्य अन्तर्गतं बलप्रयोगेन, प्रलोभनेन, कपटेन, दबावेन अथवा विवाहमाध्यमेन अवैधधर्मान्तरणं कारयितुं प्रतिबन्धस्य प्रावधानानि कृतानि। एतदतिरिक्तं दङ्गानां विरोधप्रदर्शनानां च समये सर्वकारीयायाः निजीसम्पत्तेः च क्षतिं कुर्वद्भ्यः क्षतिपूर्तिराशेः वसूल्यर्थं उत्तराखण्डलोकनिजसम्पत्तिक्षतिवसूलीअधिनियमः, २०२४ प्रवर्तितः।

प्रदेशसर्वकारेण भूमेः अनियन्त्रितक्रयविक्रययोः नियन्त्रणाय भूमिविधौ अपि परिवर्तनानि कृतानि। अस्य अन्तर्गतं हरिद्वारम् ऊधमसिंहनगरं च विहाय राज्यस्य एकादश पर्वतीयजनपदेषु बहिःराज्येभ्यः आगतानां जनानां कृषिभूमेः उद्यानभूमेश्च क्रयणे प्रतिबन्धः आरोपितः। सर्वकारस्य कथनानुसारं धार्मिकस्थलानां नाम्ना कृतात् अतिक्रमणात् त्रयोदशसहस्राधिकैकडमिता सर्वकारीयभूमिः अतिक्रमणमुक्ता कारिता। धार्मिकभावनानां दुरुपयोगेन जनान् वञ्चयतां विरुद्धम् ऑपरेशन कालनेमि इत्यभियानम् अपि प्रारब्धम्।

विधिसुधारैः सह राज्यस्य अर्थव्यवस्थायाम् अपि विस्तारः अभिलक्षितः। सर्वकारीयाङ्कानुसारं वर्षे २०२४-२५ तमे उत्तराखण्डस्य सकलराज्यघरेलूउत्पादः (जीएसडीपी) वर्धित्वा ३,८१,८८९ कोटिरूप्यकाणि अभवत्, यत् वर्षे २०२१-२२ तमे तुलनया सार्धगुणाधिकम् अस्ति। एतस्मिन्नेव काले प्रतिव्यक्त्यायः १,९४,६७० रूप्यकेभ्यः वर्धित्वा २,७३,९२१ रूप्यकाणि अभवत्। वर्षे २०२४-२५ तमे राज्यस्य आर्थिकविकासदरः ७.२३ प्रतिशतं पञ्जीकृता। वित्तवर्षे २०२६-२७ कृते राज्यस्य १,११,७०३.२१ कोटिरूप्यकाणां आयव्ययकं स्वीकृतम्, यत् पूर्ववित्तवर्षस्य आयव्ययकात् १०.४१ प्रतिशतं अधिकम् अस्ति।

सर्वकारीयाङ्कानुसारं राज्यस्य बहुआयामिकनिर्धनतासूचकाङ्कः वर्षे २०२१-२२ तमे ९.७ प्रतिशततः न्यूनीभूय वर्षे २०२४-२५ तमे ६.९२ प्रतिशतं जातः। एतस्मिन्नेव काले श्रमबलसहभागितादरः ६०.१ प्रतिशततः वर्धित्वा ६४.४ प्रतिशतं जातः।

राज्ये सूक्ष्मलघुमध्यमोद्यमानां (एमएसएमई) संख्या अपि वर्षे २०२१-२२ तमे ५९,७९८ आसीत्, या वर्षे २०२४-२५ तमे वर्धित्वा ७९,३९४ अभवत्। एतेषु उद्यमेषु रोजगारं प्राप्तवतां जनानां संख्या वर्षे २०२२ तमे ३,४३,९२२ आसीत्, या वर्षे २०२५ तमे वर्धित्वा ४,५६,६०५ अभवत्। स्टार्टअप-संख्या वर्षे २०१७ पर्यन्तं शून्या आसीत्, या वर्षे २०२१-२२ तमे ७०२ अभवत् तथा वर्षे २०२४-२५ तमे वर्धित्वा १,७५० जाता। राज्ये वर्षे २०२४-२५ तमे बृहद्योगानां संख्या १२८ पञ्जीकृता।

स्वास्थ्यक्षेत्रे अपि कतिपयेषु प्रमुखसूचकेषु सुधारः अभिलक्षितः। वर्षे २०२४-२५ तमे शिशुमृत्युदरः न्यूनीभूय २० तथा मातृमृत्युदरः ९१ पञ्जीकृतः।

सामाजिकसुरक्षायाः विषये सर्वकारस्य कथनमस्ति यत् वृद्धावस्थापेंशनम्, विधवापेंशनम्, दिव्याङ्गपेंशनम् इत्यादीनां विविधयोजनानां माध्यमेन प्रायः ९.९९ लक्षं पात्रलाभार्थिनः प्रतिमासं प्रायः १४८ कोटिरूप्यकाणां पेंशनराशिं प्रत्यक्षलाभान्तरणमाध्यमेन (डीबीटी) प्राप्नुवन्ति। वृद्धावस्थापेंशनयोजनायां पात्रवृद्धदम्पत्योः उभाभ्यां सदस्याभ्यां पृथक्-पृथक् प्रतिमासं १,५०० रूप्यकाणि पेंशनरूपेण प्रदातुं प्रावधानम् अस्ति।

आर्थिकदृष्ट्या दुर्बलपरिवारेभ्यः पाकगैसस्य उपलब्धतायै मुख्यमन्त्र्यन्त्योदय निःशुल्कगैसपुनर्भरणयोजना सञ्चाल्यते। अस्याः अन्तर्गतं प्रायः पौनेद्विलक्षपरिवारेभ्यः प्रतिवर्षं त्रयः गैससिलिण्डराः निःशुल्कं पुनर्भरयितुं सुविधा प्रदीयते।

आवासयोजनानाम् अन्तर्गतं प्रधानमन्त्रिआवासयोजनायाः (शहरी) माध्यमेन ५३ सहस्राधिकपरिवारेभ्यः पक्कगृहाणि प्रदत्तानि। अपरतः ग्रामीणक्षेत्रेषु वर्षे २०२२ तः अद्यावधि ३९,८१५ परिवाराः प्रधानमन्त्रिआवासयोजनायाः (ग्रामीण) लाभं प्राप्तवन्तः। प्रधानमन्त्रिजनमनयोजनायाः अन्तर्गतं ९२५ आवासाः अपि निर्मिताः। लघुव्यवसायिभ्यः आर्थिकसहायताप्रदानेन प्रधानमन्त्रिस्वनिधियोजनायाः माध्यमेन ३३ सहस्राधिकेभ्यः पथविक्रेतृभ्यः लघुव्यवसायिभ्यश्च बैंकऋणं प्रदत्तम्। अनेन तेभ्यः स्वव्यवसायाय आवश्यकपूञ्जीम् अर्जयितुं सहायता प्राप्ता।

सर्वकारः एतान् विधिसुधारान्, आर्थिकाङ्कान् सामाजिकसुरक्षायोजनाश्च प्रदेशस्य शासनव्यवस्थायां, विकासे जनकल्याणक्षेत्रे च कृतानां कार्याणां रूपेण प्रस्तुतं करोति।

------------

Hindusthan Samachar / Dheeraj Maithani