परीक्षासुधारे उत्तरप्रदेशस्य आदर्शः पारदर्शितायाः उत्तरदायित्वस्य च उदाहरणम् : मुख्यमन्त्री योगी।
मुख्यमन्त्रिणा योगिना आदित्यनाथेन केन्द्रसर्वकारस्य उच्चाधिकारप्राप्तकार्यदलस्य अध्यक्षेण नन्दननीलेकणिना तस्य दलस्य सदस्यैश्च सह उपवेशनम् आयोजितम्। लखनऊ, २६नवम्बरमासः (हि.स.)। मुख्यमन्त्रिणा योगिना आदित्यनाथेन गुरुवासरे केन्द्रसर्वकारस्य उच्चाध
मुख्यमंत्री योगी


- मुख्यमन्त्रिणा योगिना आदित्यनाथेन केन्द्रसर्वकारस्य उच्चाधिकारप्राप्तकार्यदलस्य अध्यक्षेण नन्दननीलेकणिना तस्य दलस्य सदस्यैश्च सह उपवेशनम् आयोजितम्।

लखनऊ, २६नवम्बरमासः (हि.स.)। मुख्यमन्त्रिणा योगिना आदित्यनाथेन गुरुवासरे केन्द्रसर्वकारस्य उच्चाधिकारप्राप्तकार्यदलस्य (एचपीटीएफ) अध्यक्षेण नन्दननीलेकणिना सदस्यैश्च सह महत्त्वपूर्णम् उपवेशनम् आयोजितम्। उत्तरप्रदेशे पारदर्शिपरीक्षाणां कार्यप्रणालीं परीक्षासुधारसम्बद्धां व्यवस्थां च अध्येतुम् आगतेन कार्यदलेन सह मुख्यमन्त्री प्रदेशस्य भर्तिपरीक्षाव्यवस्थायां कृतेषु व्यापकसुधारेषु विस्तरेण चर्चाम् अकरोत्।

मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् अस्माकं सर्वकारस्य संकल्पः प्रथमदिनादेव स्पष्टः अस्ति। वयं उत्तरप्रदेशस्य युवभ्यः शुचितापूर्णां पारदर्शिनीं च परीक्षाव्यवस्थां तथा निष्पक्षनियुक्तिप्रक्रियां सुनिश्चितवन्तः। अधुना उत्तरप्रदेशे युवजनाः परीक्षायै अथवा रोजगाराय कस्यापि अनुशंसां न याचन्ते, अपितु स्वयोग्यतायाः आधारेणैव रोजगारं प्राप्नुवन्ति। अस्माकं मतम् अस्ति यत् योग्यजनानां चयनं श्रेष्ठान् परिणामान् आनयति। यदि योग्यजनाः आगमिष्यन्ति तर्हि परिणामाः अपि सुखदाः भविष्यन्ति तथा च नवभारतस्य नूतनउत्तरप्रदेशस्य विकसितं स्वावलम्बिनं च निर्माणं कर्तुं वयं सफलाः भविष्यामः।

मुख्यमन्त्री अवदत् यत् परीक्षायाः शुचितां संरक्षितुं केवलं परीक्षासञ्चालनव्यवस्थाः एव सुदृढाः न कृताः, अपितु सामाजिकमाध्यमेषु प्रसार्यमाणानाम् अपवादात्मकानां भ्रामकसूचनानां च नियमितनिरीक्षणम् अपि क्रियते। अस्य कृते सम्बन्धिताः आयोगाः भर्तिमण्डलानि च सह पुलिसव्यवस्था अपि सक्रियतया कार्यं करोति। यदि कश्चित् परीक्षां भर्तिप्रक्रियां वा सम्बोध्य भ्रामकसूचनां प्रसारयति तर्हि तेन सम्बद्धानां आरोपाणां प्रमाणानि दस्तावेजाश्च याच्यन्ते। यदि तस्य समीपे प्रमाणानि सन्ति तर्हि सर्वकारः नियमानुसारं कार्यवाहीं करोति। अपवादप्रसारकेभ्यः विरुद्धम् अपि आवश्यककार्यवाही क्रियते। अनेन सम्पूर्णप्रक्रियायां उत्तरदायित्वं सुनिश्चितं भवति तथा च अभ्यर्थिनां विश्वासः अक्षुण्णः तिष्ठति।

मुख्यमन्त्री अवदत् यत् उत्तरप्रदेशसदृशे विशालराज्ये सर्वेषु स्तरेषु परीक्षाणां निष्पक्षं पारदर्शि च आयोजनं महती चुनौती अस्ति। एकस्मिन् समये नकलमाफियाभिः सम्पूर्णा परीक्षाव्यवस्था दूषिता कृता आसीत्। परीक्षाप्रक्रियायां बाधाम् उत्पन्नं कृत्वा तां प्रभावितं कृत्वा च युवजनानां मनसि व्यवस्थायाः प्रति अविश्वासः उत्पन्नः आसीत्। परिश्रमस्य योग्यतायाश्च अनन्तरम् अपि तेभ्यः न्यायः न प्राप्स्यते इति भावना तेषु उत्पन्ना आसीत्। केचन जनाः अस्य अविश्वासस्य युवजनानां भावनानां च राजनैतिकदुरुपयोगं कुर्वन्तः सामाजिकमाध्यमेषु अपि भ्रमं प्रसारयितुं प्रयतन्ते।

मुख्यमन्त्री योगी अवदत् यत् प्रदेशे आयोज्यमाना प्रत्येकपरीक्षा शुचितया, पारदर्शितया निष्पक्षतया च सम्पन्ना भवेत् इति अस्माकं प्राथमिकता अस्ति। भर्तिप्रक्रियायां योग्याभ्यर्थिनां चयनं विकासस्य मूलभूतम् आवश्यकतत्त्वम् अस्ति। यदि योग्यजनानां चयनं न भविष्यति तर्हि संस्थानां कार्यक्षमता श्रेष्ठा न भविष्यति तथा च विकासस्य अपेक्षिताः परिणामाः अपि न प्राप्स्यन्ति। अतः भर्तिपरीक्षाव्यवस्थायाः सुधारः प्रदेशसर्वकारेण सर्वोच्चप्राथमिकतायां स्थापितः अस्ति।

सः अवदत् यत् उत्तरप्रदेशे विभिन्नानाम् आयोगानां भर्तिमण्डलानां च माध्यमेन आयोज्यमानानां परीक्षाणां सम्पूर्णां प्रक्रियां ज्ञातुम् अवसरः प्राप्तः अस्ति। प्रदेशे विगतेषु वर्षेषु परीक्षासञ्चालनाय, अभ्यर्थिनां सुविधायै, पारदर्शितायै नियुक्तिप्रक्रियायै च महत्त्वपूर्णाः व्यवस्थाः विकसिताः सन्ति।

उपवेशने उत्तरप्रदेशसर्वकारस्य पक्षतः पुलिसभर्तिप्रोन्नतिमण्डलस्य, उत्तरप्रदेशशिक्षासेवाचयनायोगस्य तथा उत्तरप्रदेशाधीनस्थसेवाचयनायोगस्य अध्यक्षैः प्रदेशे परीक्षासञ्चालनात् आरभ्य चयनप्रक्रियां नियुक्तिपत्रवितरणपर्यन्तं सम्पूर्णकार्यप्रणाल्याः विस्तृतं प्रस्तुतिकरणं कृतम्।

प्रतिनिधिमण्डलाय सूचितं यत् उत्तरप्रदेशे भर्तिप्रक्रियायाः प्रत्येकसोपाने कथं पारदर्शिता उत्तरदायित्वं च सुनिश्चितं क्रियते। परीक्षायाः आयोजनम्, सुरक्षाव्यवस्था, प्रश्नपत्राणां गोपनीयता, अभ्यर्थिनाम् आवश्यकसुविधाः, चयनप्रक्रिया तथा नियुक्तिपत्रवितरणपर्यन्तम् अनुसृतानां विविधोपायानां विषये सूचना प्रदत्ता।

एतदतिरिक्तं परीक्षाकाले विधिव्यवस्थायाः संरक्षणाय, संवेदनशीलपरिस्थितीनां नियन्त्रणाय, अपवादानां निवारणाय तथा परीक्षाप्रक्रियायां बाधाम् उत्पन्नं कुर्वतां तत्त्वानां विरुद्धं क्रियमाणायाः कार्यवाह्याः विषये अपि सूचनाः साझा कृताः।

उपवेशने विशेषरूपेण प्रतिपादितं यत् परीक्षासुधारः केवलं परीक्षासञ्चालनस्य तान्त्रिकव्यवस्थायां न सीमितः अस्ति, अपितु सम्पूर्णभर्तिप्रक्रियायाः विश्वसनीयता, संस्थागतउत्तरदायित्वम्, विधिव्यवस्था अभ्यर्थिनां विश्वासश्च अपि महत्त्वपूर्णाः सन्ति। उत्तरप्रदेशसर्वकारेण एतान् सर्वान् पक्षान् ध्याने निधाय विकसितव्यवस्थायाः अनुभवाः केन्द्रसर्वकारस्य उच्चाधिकारप्राप्तकार्यदलेन सह साझा कृताः।

उत्तरप्रदेशे सम्पन्नानां विकासकार्यानां आधारभूतसंरचनायां च आगतानां परिवर्तनानां नन्दननीलेकणिना प्रशंसा

उच्चाधिकारप्राप्तकार्यदलस्य अध्यक्षः नन्दननीलेकणिः अवदत् यत् सः प्रायः पञ्चदशवर्षेभ्यः अनन्तरं लखनऊम् आगतः अस्ति। अस्मिन् काले उत्तरप्रदेशे सम्पन्नानि विकासकार्याणि आधारभूतसंरचनायां च आगतानि परिवर्तनानि दृष्ट्वा सः अत्यन्तं प्रसन्नः अभवत्। तेन उक्तं यत् प्रदेशे यथा आधारभूतसंरचनायाः विकासः अभवत्, तादृशं विकासकार्यं सः पूर्वं न दृष्टवान्।

नन्दननीलेकणिः अवदत् यत् तस्य यात्रायाः प्रमुखम् उद्देश्यम् अस्ति यत् देशे परीक्षाव्यवस्थां अधिकां पारदर्शिनीं, विश्वसनीयां प्रभावपूर्णां च कर्तुं विभिन्नराज्येषु अनुसृतानां व्यवस्थाणाम् अध्ययनं क्रियते। एतदर्थं विभिन्नराज्यैः सह संवादः क्रियते तथा तेभ्यः सुझावाः अपि प्राप्यन्ते। उत्तरप्रदेशस्य भर्तिमण्डलैः आयोगैश्च परीक्षासञ्चालनात् आरभ्य चयनं नियुक्तिपर्यन्तं याः उत्तमाः व्यवस्थाः विकसिताः, तासाम् अवगमनम् अपि अस्याः यात्रायाः महत्त्वपूर्णम् उद्देश्यम् अस्ति।

Hindusthan Samachar / Dheeraj Maithani