योगिसर्वकारस्य एकमुष्टसमाधानयोजनायै (ओटीएस) जनसमर्थनं प्राप्यते, अधुनावधि त्रिलक्षाधिकानि आवेदनानि प्राप्तानि।
एकमुष्टसमाधानयोजनया (ओटीएस) करदातृभ्यः महती रक्षणं, १५४ कोटिरूप्यकाणां राजस्ववसूली तथा २३५ कोटिरूप्यकाणां धनराशेः समायोजनम्। * प्रदेशस्य सर्वेषु ७६२ नगरीयनिकायेषु सञ्चालितायां योजनायाम् २,४६,३७४ आवेदनानि स्वीकृतानि, ४९ सहस्राधिकानि आवेदनानि प्रक
सांकेतिक फाेटाे


* एकमुष्टसमाधानयोजनया (ओटीएस) करदातृभ्यः महती रक्षणं, १५४ कोटिरूप्यकाणां राजस्ववसूली तथा २३५ कोटिरूप्यकाणां धनराशेः समायोजनम्।

* प्रदेशस्य सर्वेषु ७६२ नगरीयनिकायेषु सञ्चालितायां योजनायाम् २,४६,३७४ आवेदनानि स्वीकृतानि, ४९ सहस्राधिकानि आवेदनानि प्रक्रियायाम्।

लखनऊ, २६नवम्बरमासः (हि.स.)। मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशसर्वकारस्य एकमुष्टसमाधानयोजनायाः कृते सम्पूर्णप्रदेशे व्यापकं जनसमर्थनं प्राप्यते। नगरीयनिकायान् आर्थिकदृष्ट्या सुदृढान् कर्तुं करदातॄणां च लम्बितदेयेषु राहतिं प्रदातुम् उद्दिश्य सञ्चालितायाः अस्याः योजनायाः अन्तर्गतं प्रदेशस्य सर्वेषु ७६२ नगरीयनिकायेषु अधुनावधि ३,००,०७३ आवेदनानि प्राप्तानि सन्ति। योजनायाः माध्यमेन अधुनावधि १५४.४८ कोटिरूप्यकाणां राजस्ववसूली कृता अस्ति। अपरतः पात्रलाभार्थिभ्यः राहतिं प्रदाय २३५.१४ कोटिरूप्यकाणां धनराशेः समायोजनं कृतम् अस्ति।

सर्वकारीयप्रवक्त्रा सूचितं यत् योजनायाः अन्तर्गतं १७ महानगरपालिकासु, २०० नगरपालिकापरिषत्सु तथा ५४५ नगरपञ्चायतेषु लम्बितगृहकरस्य, जलकरस्य, मलजलकरस्य च पात्रबकायेदाराणां कृते राहतिः प्रदीयते। ओटीएस योजनायाः उद्देश्यम् अस्ति पुरातनकरबकायानां सरलतया व्यावहारिकतया च निस्तारणम्, करदातृषु आर्थिकभारस्य न्यूनीकरणं तथा नगरीयनिकायानां राजस्वसङ्ग्रहं प्रभावपूर्णं कर्तुम्। योजना २०२६ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्कात् सञ्चालिता अस्ति तथा निस्तारणस्य अन्तिमतिथिः दिसम्बरमासस्य १५ दिनाङ्कः २०२६ निर्धारितः अस्ति।

त्रिलक्षाधिकानि आवेदनानि प्राप्तानि, २.४६ लक्षाणि स्वीकृतानि

ओटीएस योजनायाः अन्तर्गतं अधुनावधि ३,००,०७३ आवेदनानि प्राप्तानि सन्ति। एतेषु २,४६,३७४ आवेदनानि स्वीकृतानि, ४९,१८७ आवेदनानि प्रक्रियायाम् सन्ति तथा ३,००० आवेदनानि निरस्तानि अभवन्। कुलप्राप्तावेदनेषु प्रायः ८२.१० प्रतिशतानि आवेदनानि स्वीकृतानि सन्ति।

१५४.४८ कोटिरूप्यकाणां राजस्ववसूली

योजनायाः अन्तर्गतं अधुनावधि ६४९.९९ कोटिरूप्यकाणां कुलदेयराशिः निर्धारिता अस्ति, यस्मात् १५४.४८ कोटिरूप्यकाणां राजस्ववसूली कृता अस्ति। कुलवसूल्यां १३१.८२ कोटिरूप्यकाणि प्रत्यक्षमाध्यमेन तथा २२.६६ कोटिरूप्यकाणि अन्तर्जालमाध्यमेन प्राप्तानि सन्ति।

२३५.१४ कोटिरूप्यकाणां राहतिः प्रदत्ता

पात्रलाभार्थिभ्यः राहतिं प्रदाय अधुनावधि २३५.१४ कोटिरूप्यकाणां धनराशेः समायोजनं कृतम् अस्ति। अनेन २,४६,३७४ लाभार्थिनः प्रत्यक्षतया लाभान्विताः अभवन्। प्रतिलाभार्थी औसतनं प्रायः ९,५४४.०८ रूप्यकाणां राहतिः प्रदत्ता अस्ति।

आवासीयसम्पत्तीनां सर्वाधिकः सहभागः

प्राप्तेषु आवेदनेषु २,५२,२१५ (८४.१ प्रतिशतं) आवासीयसम्पत्तिसम्बद्धानि, २६,२१९ (८.७ प्रतिशतं) व्यावसायिकसम्पत्तिसम्बद्धानि तथा २१,६३९ (७.२ प्रतिशतं) मिश्रितश्रेणीसम्पत्तिसम्बद्धानि सन्ति। एतेषाम् आँकडानां विश्लेषणेन ज्ञायते यत् योजनायाः कृते विशेषतः आवासीयसम्पत्तीनां करदातॄणां व्यापकं समर्थनं प्राप्यते।

त्रिषु किस्तेषु भुगतानस्य सुविधा

करदातॄणां सुविधायै ओटीएस योजनायाः अन्तर्गतं बकायाराशेः भुगतानार्थम् अधिकतमं त्रिषु किस्तेषु धनं दातुं सुविधा उपलब्धा अस्ति। योजनायाः उद्देश्यम् अस्ति करदातॄभ्यः पुरातनबकायानां निस्तारणाय व्यावहारिकम् अवसरं प्रदातुं तथा नगरीयनिकायानां राजस्वाधारं सुदृढं कर्तुम्।

योगिसर्वकारस्य ओटीएस योजनया करदातॄणां पुरातनबकायानां निस्तारणे राहतिः

नगरविकासमन्त्री अरविन्दकुमारशर्मा अवदत् यत् मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे प्रदेशसर्वकारः नगरीयनिकायान् आर्थिकदृष्ट्या सशक्तान् स्वावलम्बिनश्च कर्तुं प्रतिबद्धः अस्ति। ओटीएस योजना अस्मिन् दिशि महत्त्वपूर्णा पहलः अस्ति। अस्याः माध्यमेन करदातॄभ्यः पुरातनबकायानां निस्तारणाय सरलः राहतिपूर्णश्च अवसरः प्राप्यते। तथैव नगरीयनिकायानां लम्बितराजस्वस्य समयबद्धवसूलीकरणे सहायता भवति। अधुनावधि त्रिलक्षाधिकानाम् आवेदनानां प्राप्तिः योजनायाः प्रति नागरिकाणां विश्वासं जनसहभागितां च प्रदर्शयति। सर्वकारस्य प्रयासः अस्ति यत् अधिकाधिकाः पात्रकरदातारः अस्याः लाभं प्राप्नुयुः तथा निकायानां वित्तीयस्थितिः सुदृढा भवेत्।

विशेषशिविरैः लाभप्रदानं भविष्यति, विभागेन करदातृभ्यः आह्वानम्

नगरविकासविभागेन ओटीएस योजनायाः लाभं अधिकाधिकेभ्यः पात्रकरदातृभ्यः प्रापयितुं प्रदेशस्य नगरीयनिकायेषु विशेषशिविराणि आयोज्यन्ते। एतेषां शिविराणां माध्यमेन नागरिकेभ्यः योजनायाः पात्रता, आवेदनप्रक्रिया तथा प्राप्यमानायाः छूटसुविधायाः विषये सूचना प्रदीयते। विभागः आवेदनस्य निस्तारणप्रक्रियायाश्च सरलीकरणे, पारदर्शितायां समयबद्धतायां च बलं ददाति। नागरिकाः अन्तर्जालमाध्यमेन अपि आवेदनं कर्तुं शक्नुवन्ति।

नगरविकासविभागेन पात्रकरदातृभ्यः आह्वानं कृतं यत् ते स्वस्य लम्बितगृहकरस्य, जलकरस्य मलजलकरस्य च निस्तारणं कारयित्वा योजनायाः लाभं स्वीकुर्युः। योजनायाः अन्तिमतिथिः २०२६ तमस्य वर्षस्य दिसम्बरमासस्य १५ दिनाङ्कः अस्ति। ओटीएस योजनया करदातॄणां आर्थिकभारस्य न्यूनीकरणेन सह नगरीयनिकायानां राजस्ववसूली वित्तीयस्थितिश्च अपि सुदृढा भविष्यति।

Hindusthan Samachar / Dheeraj Maithani