Enter your Email Address to subscribe to our newsletters


संविधानस्य भावनाम् अवगत्य स्वाचरणे समावेशयेयुः विद्यार्थिनः। प्रयागराजः, २६नवम्बरमासः (हि.स.)। अस्माकं संविधानमेव अस्माकम् अभिज्ञानम् अस्ति तथा च प्रत्येकस्य नागरिकस्य कर्तव्यं वर्तते यत् सः संविधानस्य सम्मानं कुर्यात्। विद्यार्थिभिः संविधानस्य भावनाम् अवगत्य ताम् स्वाचरणे समावेशयितव्यम्। एताः उक्तयः गुरुवासरे ज्वालादेवी सरस्वतीविद्यामन्दिरस्य सिविललाइन्सस्थिते अन्तर्महाविद्यालये संविधानदिवसम् उपलक्ष्य आयोजिते कार्यक्रमे मुख्यवक्त्रा सामाजिकविषयस्य आचार्येण विवेकसिंहेन उक्ताः।
ते अवदन् यत् संविधानं देशस्य लोकतान्त्रिकव्यवस्थायाः आधारः अस्ति। तस्य मूल्यानाम् अनुसरणेन एव उत्तरदायिनः नागरिकस्य सशक्तराष्ट्रस्य च निर्माणं कर्तुं शक्यते।
कार्यक्रमस्य शुभारम्भः विद्यालयस्य प्रधानाचार्येण डॉ. राकेशकुमारेण मुख्यवक्त्रा विवेकसिंहेन च संविधाननिर्मातुः भारतरत्नबाबासाहबडॉ. भीमरावआम्बेडकरस्य प्रतिमायाः समक्षं दीपप्रज्वालनेन पुष्पार्चनेन च कृतः। अस्मिन् अवसरे छात्रछात्राः संविधानदिवसस्य महत्त्वे, मौलिकाधिकारविषये नागरिककर्तव्येषु च स्वविचारान् प्रस्तुतवन्तः। तेषां वक्तव्येषु लोकतान्त्रिकमूल्यानां प्रति जागरूकता राष्ट्रनिर्माणे च युवानां भूमिकायाः परिचयः अभवत्।
प्रधानाचार्यः डॉ. राकेशकुमारः अवदत् यत् प्रत्येकजनेन स्वजीवने संविधानस्य पालनं कर्तव्यम्। संवैधानिककर्तव्यानां निष्ठापूर्वकं निर्वहणेन एव वयं उत्तरदायिनः नागरिकाः भवितुं शक्नुमः तथा च देशस्य विकासे महत्त्वपूर्णं योगदानं दातुं शक्नुमः। सुदृढलोकतन्त्रस्य आधारः संवैधानिकादर्शानां पालनेन एव सुदृढः भवति।
कार्यक्रमस्य अन्ते उपस्थितैः सर्वैः संवैधानिकादर्शानां प्रति निष्ठां संरक्षितुं सङ्कल्पः कृतः। अस्मिन् अवसरे विद्यालयस्य छात्रछात्राभिः सह शिक्षकशिक्षिकाः अपि उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani