रोजगारमहोत्सवे २० निर्माण्यः त्रिसहस्राधिकेषु पदेषु करिष्यन्ति नियुक्तिम्
नवम्बरमासस्य २९ दिनाङ्के नवाबगञ्जस्य रामयस स्नातकोत्तर-महाविद्यालये आयोजितः भविष्यति रोजगारमेलापक:, १३,५०० तः ३०,००० रूप्यकाणि यावत् मासिकं वेतनं प्राप्स्यते प्रयागराजः, २६ नवम्बरमासः (हि.स.)। बेरोजगारयुवभ्यः निजिक्षेत्रे रोजगारस्य अवसरान् प्रदातु
रोजगार मेले का प्रतीकात्मक छाया चित्र


नवम्बरमासस्य २९ दिनाङ्के नवाबगञ्जस्य रामयस स्नातकोत्तर-महाविद्यालये आयोजितः भविष्यति रोजगारमेलापक:, १३,५०० तः ३०,००० रूप्यकाणि यावत् मासिकं वेतनं प्राप्स्यते

प्रयागराजः, २६ नवम्बरमासः (हि.स.)। बेरोजगारयुवभ्यः निजिक्षेत्रे रोजगारस्य अवसरान् प्रदातुम् उत्तरप्रदेशरोजगार-मिशन इत्यस्य अन्तर्गतं नवम्बरमासस्य २९ दिनाङ्के एकदिवसीयस्य रोजगार-महोत्सव-२०२६ इत्यस्य आयोजनं भविष्यति। एतत् गुरुवासरे क्षेत्रीयसेवा-योजनकार्यालयस्य प्रयागराजस्य अधिकारी राजीवकुमारयादवः सूचितवान्।

तेन उक्तं यत् क्षेत्रीयसेवायोजन-कार्यालयस्य प्रयागराजस्य रामयस स्नातकोत्तरमहा-विद्यालयस्य मलाकबलऊ, नवाबगञ्जस्य च संयुक्ततत्त्वावधाने आयोजिते अस्मिन् महोत्सवे निजिक्षेत्रस्य २० प्रतिष्ठिताः निर्माण्यः त्रिसहस्राधिकेषु पदेषु प्रत्यक्षरूपेण नियुक्तिं करिष्यन्ति। चयनितेभ्यः अभ्यर्थिभ्यः १३,५०० तः ३०,००० रूप्यकाणि यावत् प्रतिमासं वेतनं प्रदास्यते।

रोजगारमहोत्सवस्य आयोजनं नवम्बर-मासस्य २९ दिनाङ्के प्रातः १० वादनात् रामयस स्नातकोत्तरमहा-विद्यालयस्य परिसरे भविष्यति। अस्मिन् फाफामऊ-विधानसभाक्षेत्रसहितं जनपदस्य बेरोज-गारयुवकाः सहभागितां कर्तुं शक्नुवन्ति। कनिष्ठमाध्यमिक-विद्यालयस्य, माध्यमिकविद्यालयस्य, उच्चतर-माध्यमिकविद्यालयस्य, स्नातकस्य, बीबीए, बीसीए, बीई, आईटीआई, डिप्लोमा, पॉलिटेक्निक, बीटेक तथा एमबीए इत्यादीनि उत्तीर्णाः १८ तः ४० वर्षपर्यन्तम् आयुः विद्यमानाः अभ्यर्थिनः अस्मिन् भागं ग्रहीतुं शक्नुवन्ति।

सहायकसेवायोजननिदेशकः राजीव-कुमारयादवः अवदत् यत् रोजगारमहोत्सवस्य माध्यमेन युवभ्यः एकस्मिन् स्थाने विभिन्नासु प्रतिष्ठित-निर्माणिषु रोजगारं प्राप्तुं अवसरः प्राप्स्यते। इच्छुकाः अभ्यर्थिनः रोजगारसङ्गमपटलं (rojgaarsangam.up.gov.in) इत्यत्र पञ्जीकरणं कृत्वा मेलापके सहभागितां कर्तुं शक्नुवन्ति। ते स्वकीयाणां सर्वेषां शैक्षिकप्रमाणपत्राणां, अङ्कपत्राणां प्रति-लिपिभिः सह जातिप्रमाणपत्रमपि आनयन्तु। निर्माणिषु उपलब्धानां रिक्तपदानां तेषां च सम्बन्धिनां विस्तृतविवरणं पटलद्वारा प्राप्तुं शक्यते। रोजगारमेलायां सहभागितायै अभ्यर्थिभ्यः यात्राभत्ता न प्रदास्यते।

Hindusthan Samachar / Divya Ranjan