Enter your Email Address to subscribe to our newsletters

फर्रुखाबादम्, 26 नवंबरमासः (हि.स.)।
शिक्षां स्वास्थ्यं च प्रति बालकान् प्रोत्साहयितुं रोटरीक्लब ऑफ फर्रुखाबाद इत्यनेन अमेठी कोहना इत्यत्र स्थिते कनिष्ठविद्यालये ‘उड़ान’ कार्यक्रमस्य आयोजनं कृतम्। अस्मिन् कार्यक्रमे शताधिकेभ्यः छात्रेभ्यः छात्राभ्यश्च विद्यालयीयस्यूतानां वितरणं कृतम्। तदैव विशेषज्ञचिकित्सकानां दलेन बालकानां स्वास्थ्यपरीक्षणं कृत्वा आवश्यकतावतां निःशुल्कौषधानि अपि वितरितानि।
कार्यक्रमे डॉ. बी.के. चौधरी, डॉ. शिवाशीष उपाध्याय, डॉ. वी.के. गुप्त, डॉ. एस.पी. सिंह, डॉ. रोहित तिवारी, डॉ. प्रशांत श्रीवास्तव, डॉ. सुरभि, डॉ. आकांक्षा, डॉ. सरोज बाला तथा डॉ. अनुराग अग्रवाल इत्येते चिकित्सकाः बालकानां स्वास्थ्यपरीक्षणम् अकुर्वन्। चिकित्सकैः आवश्यकपरामर्शं प्रदाय बालकेभ्यः स्वास्थ्यसम्बद्धसावधानतानां विषये सूचनाः अपि प्रदत्ताः।
रोटरीक्लब ऑफ फर्रुखाबाद इत्यस्य अध्यक्षः रोटेरियन दीपक खन्ना अवदत् यत् क्लबः शिक्षाक्षेत्रे, स्वास्थ्यसेवायां समाजसेवाक्षेत्रे च निरन्तरं कार्यं करोति। ‘उड़ान’ कार्यक्रमस्य उद्देश्यम् अस्ति यत् आवश्यकतावद्भ्यः बालकेभ्यः अध्ययनाय आवश्यकसंसाधनानि उपलब्धानि कारयित्वा तेषां स्वास्थ्यस्य रक्षणम् अपि सुनिश्चितं क्रियते। सः अवदत् यत् विद्यालयीयस्यूताः बालकानां कृते केवलं शैक्षिकसामग्रीणां धारणस्य साधनं न, अपितु तेषां स्वप्नानां श्रेष्ठभविष्यस्य च दिशि अग्रे गन्तुं माध्यमम् अपि सन्ति।
कार्यक्रमे उपस्थितेन जनपदस्य आधारभूतशिक्षाधिकारी विश्व प्रताप सिंह इत्यनेन छात्रेभ्यः छात्राभ्यश्च विद्यालयीयस्यूतानि वितरितानि। सः रोटरीक्लबस्य प्रयासानां प्रशंसां कुर्वन् अवदत् यत् बालकानां सर्वाङ्गीणविकासाय शिक्षया सह स्वास्थ्यस्य अपि समानरूपेण ध्यानं दातव्यम्।
कार्यक्रमस्य सञ्चालनं मोनिका खन्ना अकरोत्, विद्यालयस्य प्रभारी पुष्पेन्द्र सिंह च व्यवस्थाः सम्भालितवान्। अस्मिन्नवसरे रोटरीक्लबस्य सन्दीप अग्रवाल, हर्षित मेहरोत्रा, नेहा श्रीवास्तव, शरद रस्तोगी, नेहा रस्तोगी, रितु गुप्ता, पूर्वी मेहरोत्रा, सारिका चौधरी तथा उदित अग्रवाल इत्यादयः क्लबस्य बहवः सदस्याः उपस्थिताः आसन्।
अनेन कार्यक्रमेण रोटरीक्लबेन आवश्यकतावद्बालकानां शिक्षायै स्वास्थ्याय च सहायतां प्रदाय सामाजिकसहभागितायाः सेवाभावस्य च सन्देशः प्रसारितः।
---------------
Hindusthan Samachar / Dheeraj Maithani