Enter your Email Address to subscribe to our newsletters

गङ्गाद्वारे जागरूकताभियानम्, सन्देशः– भारतीयसंविधानं पर्यावरणस्य रक्षणं संवर्धनं च प्रत्येकं नागरिकस्य कर्तव्यत्वेन निर्धारितवान्
वाराणसी, २६ नवम्बरमासः (हि.स.)। संविधानदिवसस्य अवसरे गुरुवासरे उत्तरप्रदेशस्य वाराणस्यां श्रीकाशीविश्व-नाथधाम्नः गङ्गाद्वारे नमामि गङ्गे अभियानस्य पक्षतः भारतीयसंविधानस्य नागरिककर्तव्याणां च विषये जागरूकताभियानं सञ्चालितम्। अस्मिन् अवसरे जनान् संविधाने निहितानां पर्यावरणसंरक्षणसम्बद्धानां दायित्वानां विषये अवगतं कारयन् प्रकृतेः, नदीनां, वनानां, सरोवराणां तथा वन्यजीवानां रक्षणाय सङ्कल्पः कारितः।
अभियाने नमामि गङ्गे दलस्य सदस्यैः सन्देशः प्रदत्तः यत् भारतीयसंविधानं प्रत्येकं नागरिकं प्राकृतिकपर्यावरणस्य संरक्षणे संवर्धने च उत्तरदायित्वयुक्तं करोति। संविधानस्य अनुच्छेदः ५१(क)(छ) अर्थात् ५१-ए(जी) इत्यनुसारं प्रत्येकस्य नागरिकस्य मूलकर्तव्यं वर्तते यत् सः वनानां, सरोवराणां, नदीनां, वन्यजीवानां च सहितं प्राकृतिकपर्यावरणस्य रक्षणं संवर्धनं च कुर्यात्। अपि च सर्वेषु जीवेषु करुणाभावं धारयेत्।
अस्मिन् अवसरे नागरिकाः भारतीय-संविधानस्य चित्रं राष्ट्रध्वजं तिरङ्गं च हस्ते गृहीत्वा ‘अस्माकं संविधानम्–अस्माकं स्वाभिमानम्’ इति उद्घोषं कृतवन्तः। तैः संविधानस्य प्रति वास्तविकश्रद्धां निष्ठां च धारयितुं तथा पर्यावरणसंरक्षणे सक्रिय-सहभागितां निर्वोढुं सङ्कल्पः अपि कृतः।
नगरनिगमस्य स्वच्छतादूतः राजेशशुक्लः संविधानस्य प्रस्तावनायाः सामूहिकवाचनं कारितवान् तथा उपस्थितेभ्यः शपथं प्रदत्तवान्। सः अवदत् यत् भारतीयसंविधाने निहितानां पर्यावरणसंरक्षणसम्बद्धानां प्रावधानानां, सर्वकारस्य आधुनिक-प्रयासानां तथा जनसहभागितायाः समन्वयः एव गङ्गायाः पुनरुद्धारस्य आधारः अस्ति। गङ्गायाः अविरलां निर्मलां च धारां सुनिश्चितं कर्तुं संवैधानिक-दायित्वानां विषये जागरूकता सामूहिक-प्रयासाश्च अत्यावश्यकाः सन्ति।
सः अवदत् यत् पर्यावरणसंरक्षणं केवलं सर्वकारस्य दायित्वं न, अपितु प्रत्येकस्य नागरिकस्य संवैधानिककर्तव्यम् अस्ति। नदीनां स्वच्छतां रक्षितुं, जलस्रोतांसि संरक्षितुं तथा जीवजन्तूनां प्रति संवेदनशीलं व्यवहारं कर्तुं प्रत्येकं व्यक्तेः दायित्वम् अस्ति। अभियाने रविन्द्रपाण्डेयः, साकेतः, रोहितमिश्रः, रिया, आरती, जयशाहा, रमननायडुः इत्यादयः बहवः नागरिकाः पर्यटकाः च सहभागितां कृतवन्तः।
Hindusthan Samachar / Divya Ranjan