Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 26 नवंबरमासः (हि.स.)।उपराष्ट्रपतिः सी.पी. राधाकृष्णनः गुरुवासरे संविधानदिवसस्य अवसरे विज्ञानभवने भारतस्य संविधानस्य सर्वासु द्वाविंशतिषु अनुसूचितभाषासु अद्यतनीकृतसंस्करणानि विमोचितवान्। सः अवदत् यत् सर्वासु अनुसूचितभाषासु संविधानस्य उपलब्धता ‘एकभारतं श्रेष्ठभारतं’ इत्यस्य भावनां प्रतिबिम्बयति तथा च देशस्य भाषावैविध्यस्य लोकतान्त्रिकसमावेशितायाश्च उत्सवः अस्ति।
उपराष्ट्रपतिः अवदत् यत् नागरिकाणां मातृभाषायां संविधानस्य उपलब्धतया ते स्वकीयान् संवैधानिकाधिकारान्, कर्तव्यानि, मूल्यानि च उत्तमतया अवगन्तुं शक्ष्यन्ति। अनेन शासनस्य नागरिकाणां च मध्ये विद्यमानं दूरत्वं न्यूनं भविष्यति तथा लोकतान्त्रिकप्रक्रियायां जनानां सहभागिता अधिका सुदृढा भविष्यति।
तेन अस्य अवसरस्य भारतस्य लोकतान्त्रिकयात्रायाः ऐतिहासिकं सोपानम् इति वर्णयता संविधाननिर्मातारं डॉ. भीमराव आंबेडकरं संविधानसभायाः अन्यान् सदस्यांश्च श्रद्धया स्मृतम्। सः अवदत् यत् संविधानं केवलं विधिकं दस्तावेजं नास्ति, अपितु राष्ट्रस्य जीवन्तः आत्मा अस्ति। तेन विधि-न्यायमन्त्रालयस्य राज्यमन्त्रिणः (स्वतन्त्रप्रभारः) अर्जुनराममेघवालस्य तस्य दलस्य च प्रयासानां प्रशंसा कृता। एतेषां प्रयासानां माध्यमेन संविधानं सामान्यजनानां अधिकं समीपं नेतुं साहाय्यं भविष्यति। एषा पहल भारतस्य भाषिक-सांस्कृतिकवैभवस्य संरक्षणाय प्रतिबद्धताम् अपि प्रदर्शयति।
राधाकृष्णनेन प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे भारतीयभाषाणां ज्ञानपरम्पराणां च संरक्षण-संवर्धनाय क्रियमाणानां प्रयासानाम् अपि उल्लेखः कृतः। तेन उक्तं यत् ज्ञानभारतम्, काशीतमिलसङ्गमम् इत्यादयः उपक्रमाः भारतस्य सभ्यतागतवैभवस्य संरक्षणाय विभिन्नप्रदेशानां च मध्ये सांस्कृतिकसम्बन्धान् सुदृढीकर्तुं प्रतिबद्धतां प्रदर्शयन्ति।
उपराष्ट्रपतिः अवदत् यत् भारतस्य शक्तिः तस्य विविधतायां निहिता अस्ति। भाषाः केवलं संवादस्य माध्यमानि न सन्ति, अपितु संस्कृतेः, परम्परायाः, परिचयस्य च संवाहिकाः अपि सन्ति। तेन सर्वासां भारतीयभाषाणां प्रति समानसम्मानस्य आह्वानं कुर्वता उक्तं यत् प्रत्येकस्य व्यक्तेः स्वमातृभाषायां विशेषः अनुरागः भवति, किन्तु अन्यासां भाषाणां मातृभाषाणां च सम्मानः अपि समानरूपेण आवश्यकः अस्ति।
तेन नागरिकान् स्वमातृभाषायाः उत्सवम् आचरितुं भारतस्य समृद्धं भाषावैविध्यं च स्वीकर्तुम् आग्रहः कृतः। सः अवदत् यत् एतदेव वैविध्यं भारतं सौहार्दपूर्णं राष्ट्रं निर्माति।
महाकवेः सुब्रह्मण्यभारतेः विचाराणाम् उल्लेखं कुर्वन् उपराष्ट्रपतिः अवदत् यत् भारते यद्यपि अनेकाः भाषाः भाष्यन्ते, तथापि देशस्य विचाराः, आकाङ्क्षाः, कार्याणि च राष्ट्रसेवायै एकतया समर्पितानि सन्ति। तेन उक्तं यत् सर्वासु द्वाविंशतिषु अनुसूचितभाषासु संविधानस्य विमोचनम् ‘एकभारतं श्रेष्ठभारतं’ इत्यस्य भावनां साकारं करोति तथा विकसितभारत@२०४७ इति लक्ष्यस्य दिशि देशस्य यात्रां सुदृढां करिष्यति।
तेन सर्वान् ‘राष्ट्रं प्रथमम्’ इति मार्गदर्शकसिद्धान्तेन कार्यं कर्तुम् आह्वानं कृतम्। सः अवदत् यत् सुदृढं एकीकृतं च राष्ट्रमेव स्वकीयानां सर्वासां भाषाणां संरक्षणाय विकासाय च अनुकूलं वातावरणं निर्मातुं शक्नोति।
अस्मिन् अवसरे केन्द्रीयविधि-न्यायमन्त्री (स्वतन्त्रप्रभारः) अर्जुनराममेघवालः, विधायीविभागस्य सचिवः डॉ. राजीवमणिः सहिताः अन्ये गणमान्यजनाः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani