Enter your Email Address to subscribe to our newsletters


कोलकाता, 26 नवंबरमासः (हि. स.)। केन्द्रीयसडकपरिवहन-राजमार्गमन्त्रिणो नितिनगडकरिणः कोलकातानगरागमने सति नेताजीसुभाषचन्द्रबोस-अन्ताराष्ट्रियविमानपत्तने तस्य हार्दिकं स्वागतं कृतम्। अस्मिन्नवसरे पश्चिमबङ्गालसर्वकारस्य मन्त्रिमण्डलीयमन्त्री डॉ. अजयकुमारपोद्दारेण विमानपत्तनं प्राप्य केन्द्रीयमन्त्रिणे पुष्पगुच्छं समर्प्य अभिनन्दनं कृतम्।
नितिनगडकरीस्य आगमनम् उद्दिश्य विमानपत्तने उत्साहपूर्णं वातावरणं दृष्टम्। डॉ. अजयकुमारपोद्दारेण तस्य स्नेहपूर्णं स्वागतं कुर्वता कोलकातानगरागमने प्रसन्नता व्यक्ता। अस्मिन्नवसरे उभयोः नेतारोः मध्ये सौहार्दपूर्णं मेलनम् अपि अभवत्।
उल्लेखनीयमस्ति यत् नितिनगडकरी देशे सडकपरिवहन-राजमार्गक्षेत्रस्य विकासे तथा राष्ट्रियमार्गाणां विस्तारविषये महत्त्वपूर्णां भूमिकां निर्वहति। तस्य नेतृत्वे देशव्यापिनः सडकसम्पर्कव्यवस्थायाः सुदृढीकरणाय आधुनिकमूलसंरचनायाः विकासाय च अनेकासु महत्त्वपूर्णपरियोजनासु कार्यं कृतम् अस्ति।
अपरपक्षे डॉ. अजयकुमारपोद्दारः पश्चिमबङ्गालसर्वकारे लोकनिर्माणविभागस्य तथा जनस्वास्थ्याभियान्त्रिकीविभागस्य दायित्वं निर्वहति। केन्द्रीयमन्त्रिणः कोलकातानगरागमने राज्यसर्वकारस्य मन्त्रिमण्डलीयमन्त्रिणा कृतं स्वागतं राजनैतिकप्रशासनिकदृष्ट्या अपि महत्त्वपूर्णं मन्यते।---------------
Hindusthan Samachar / Dheeraj Maithani