Enter your Email Address to subscribe to our newsletters

कोलकाता, 26 नवंबरमासः (हि. स.)।पश्चिमबङ्गाले मार्गाणां, सेतूनां राष्ट्रियमहामार्गाणां च विकासाय केन्द्रसर्वकारेण महत्त्वपूर्णा घोषणा कृता अस्ति। केन्द्रीयमार्गपरिवहन-राष्ट्रियमहामार्गमन्त्री नितिनगडकरीः गुरुवासरे पूर्वमेदिनीपुरमण्डलस्य कोलाघाटे आयोजिते कार्यक्रमे अवदत् यत् बङ्गालस्य विकासाय केन्द्रसर्वकारः धनस्य अभावं न भवितुं दास्यति। राज्ये मार्गाणाम् आधारभूतसंरचनायाश्च विकासाय प्रायः एकलक्षकोटिरूप्यकाणि यावत् राशिः उपलब्धा कारयिष्यते इति आश्वासनं दत्त्वा तेन अनेकानां नवीनमार्गाणां सेतुपरियोजनानां च घोषणा कृता।
कार्यक्रमे मुख्यमन्त्री शुभेन्दु अधिकारी इत्यस्य अध्यक्षतायां द्वाविंशतिः राष्ट्रियमहामार्गपरियोजनानां उद्घाटन-शिलान्यासकार्यक्रमाः आयोजिताः। एतासां परियोजनानां समग्रव्ययः अष्टसहस्रसप्तशतकोटिरूप्यकेभ्यः अधिकः कथितः। अस्मिन् अवसरे केन्द्रीयमन्त्री अवदत् यत् बङ्गाले मार्गसम्पर्कस्य सुदृढीकरणम्, औद्योगिकविकासस्य प्रवर्धनम्, आवागमनस्य सुगमीकरणं मार्गदुर्घटनानां न्यूनीकरणं च केन्द्रसर्वकारस्य प्राथमिकतासु अन्तर्भवति।
नितिनगडकरीः स्वसम्बोधने रामपुरहाटतः सिञ्चुरापर्यन्तं प्रायः पञ्चदशकिलोमीटर् दीर्घमार्गस्य चतुर्मार्गीयनिर्माणस्य घोषणाम् अकरोत्। अस्याः परियोजनायाः कृते प्रायः पञ्चसप्ततिकोटिरूप्यकाणां व्ययस्य प्रस्तावः अस्ति। एतदतिरिक्तं मालदातः दुर्गापुरपर्यन्तं मार्गपरियोजनायाः कृते सप्तशतपञ्चाशत्कोटिरूप्यकाणां व्ययस्य उल्लेखः अपि तेन कृतः। एतासां परियोजनानां पूर्णतया यात्रिकाणां मालवाहकयानानां च आवागमनं अधिकं सुकरं भविष्यति इति अपेक्षा अस्ति।
तेन मालबाजार, गुर्जन, चोड़ा माल तथा नेवराक्षेत्रेषु प्रायः षट्किलोमीटर् दीर्घस्य सेतोः चतुर्मार्गीयमार्गस्य च निर्माणाय त्रिशतपञ्चसप्ततिकोटिरूप्यकाणां परियोजनायाः घोषणा कृता। अनेन सम्बन्धितक्षेत्रेषु मार्गसम्पर्कः सुदृढः भविष्यति तथा स्थानीयव्यापारिकगतिविधीनाम् अपि प्रवर्धनं भविष्यति इति सम्भावना अस्ति। एतस्मिन्नेव क्रमे दामोदरनद्याम् प्रायः षट्किलोमीटर् दीर्घस्य चतुर्मार्गीयसेतोः निर्माणाय त्रिशतकोटिरूप्यकाणां परियोजनायाः घोषणा कृता। अस्य सेतोः निर्माणेन नद्याः उभयतटयोः मध्ये आवागमनं सुकरं भविष्यति तथा क्षेत्रीयमार्गसम्पर्कः सुदृढः भविष्यति।
तथैव दार्जिलिङ्गमण्डले महानन्दानद्याम् सेतुनिर्माणाय द्विशतसप्ततिः कोटिरूप्यकाणां परियोजनायाः घोषणा कृता। एषा परियोजना पर्वतीयक्षेत्रेषु तदनुसंलग्नक्षेत्रेषु च यातायातव्यवस्थायाः सुधाराय महत्त्वपूर्णा मन्यते।
केन्द्रीयमन्त्री स्वसम्बोधने मार्गसुरक्षायां विशेषम् आग्रहं कृतवान्। तेन पश्चिमबङ्गालस्य प्रायः एकषष्टिः दुर्घटनासम्भावनास्थलानां सुधाराय पञ्चसहस्रैकशतकोटिरूप्यकाणां योजनायाः अनुमोदनस्य घोषणा कृता। अस्यां योजनायां दुर्घटनाप्रवणस्थलेषु मार्गसुरक्षाव्यवस्थायाः सुदृढीकरणेन सह सेवामार्गाणाम्, अधःपारमार्गाणाम्, उपरिपारमार्गाणाम् अन्येषां च आवश्यकसुधारकार्याणां सम्पादनं भविष्यति। गडकरीः अवदत् यत् सर्वकारस्य उद्देशः केवलं मार्गाणां राष्ट्रियमहामार्गाणां च निर्माणं नास्ति, अपितु तेषु यात्रां कुर्वतां जनानां सुरक्षासुनिश्चयः अपि अस्ति। मार्गदुर्घटनानां न्यूनीकरणाय आधुनिकप्रौद्योगिक्याः उत्तममार्गनिर्माणप्रारूपस्य च विशेषं ध्यानं दीयते।
नितिनगडकरीः अवदत् यत् आगामिषु पञ्चसु वर्षेषु पश्चिमबङ्गालस्य राष्ट्रियमहामार्गान् अमेरिकादेशस्य महामार्गाणां समकक्षगुणवत्तायुक्तान् कर्तुं तस्य लक्ष्यं वर्तते। विकसितभारतस्य सह विकसितबङ्गालस्य आवश्यकता अपि तेन प्रतिपादिता। तेन उक्तं यत् बङ्गालस्य विकासः पश्चाद्गतस्य राज्यस्य रूपेण न, अपितु प्रगतिशीलस्य समृद्धस्य सम्पन्नस्य च राज्यस्य रूपेण करणीयः। राज्ये उत्तममार्गजालस्य निर्माणेन औद्योगिकगतिविधयः प्रवर्धिष्यन्ते, व्यापारस्य परिवहनस्य च व्ययः न्यूनीभविष्यति तथा पर्यटनक्षेत्रम् अपि लाभान्वितं भविष्यति। सुदृढमहामार्गव्यवस्थया ग्रामीणक्षेत्राणां नगरीयक्षेत्राणां च सम्पर्कः उत्तमः भविष्यति तथा रोजगारस्य नवीनावसराः अपि उत्पद्यन्ते।
केन्द्रीयमन्त्री मुख्यमन्त्री शुभेन्दु अधिकारी तथा प्रधानमन्त्री नरेन्द्रमोदी इत्यनयोः समन्वयस्य उल्लेखम् अकरोत्। द्विचक्रसर्वकारस्य (डबल इञ्जिन सरकार) अवधारणायाः समर्थनं कुर्वन् तेन उक्तं यत् केन्द्रस्य राज्यस्य च सर्वकारयोः उभौ इञ्जिनौ मिलित्वा विकासस्य बुलेट् रेलयानं तीव्रगतिना अग्रे नेष्यतः। बङ्गाले विकासस्य अपरिमिताः सम्भावनाः सन्ति। एतदर्थं केन्द्रसर्वकारः राज्येन सह मिलित्वा कार्यं कर्तुं सज्जः अस्ति।
नितिनगडकरीः अवदत् यत् सः प्रथमवारं बङ्गाले एतादृशीभिः व्यापकघोषणाभिः सह आगतः अस्ति तथा एतत् केवलम् आरम्भमात्रम् अस्ति। सः आश्वासनम् अददात् यत् प्रायः षण्मासानन्तरं पुनः पश्चिमबङ्गालम् आगमिष्यति। तावत् घोषितपरियोजनानां प्रारम्भाय ठोसप्रयत्नाः क्रियन्ते। तेन राज्यसर्वकारं परियोजनानां कार्यान्वयने सहकारितां कर्तुम् अपि आग्रहः कृतः। तेन उक्तं यत् मार्गनिर्माणाय भूम्यधिग्रहणप्रक्रियायाः समयेन पूर्णता, वनपर्यावरणसम्बद्धानाम् अनुमतीनां प्राप्तिः तथा निर्माणस्थलेषु विद्यमानानाम् अतिक्रमणानां निष्कासनं च अत्यावश्यकम् अस्ति।
केन्द्रीयमन्त्री नितिनगडकरीः स्पष्टम् अकरोत् यत् परियोजनासु विलम्बं निवारयितुं सर्वाः आवश्यकाः प्रशासनिकप्रक्रियाः शीघ्रं सम्पादनीयाः। केन्द्रसर्वकारस्य वित्तीयसहायतायां कस्यापि प्रकारस्य न्यूनता न भविष्यति। बङ्गालस्य विकासाय यावती राशिः आवश्यकी भविष्यति, तावती उपलब्धां कर्तुं प्रयासः क्रियते। पश्चिमबङ्गालं समृद्धं सम्पन्नं विकसितं च कर्तुं यत् स्वप्नं वर्तते, तस्य साकारीकरणाय केन्द्रसर्वकारः पूर्णदृढतया राज्यस्य पार्श्वे तिष्ठति इति तेन उक्तम्। केन्द्र-राज्यसर्वकारयोः उत्तमसमन्वयेन बङ्गालः मार्गपरिवहन-उद्योग-आधारभूतसंरचनाक्षेत्रेषु विकासस्य नवीनानि शिखराणि प्राप्स्यति इति सः विश्वासं प्रकटितवान्।
--------------
Hindusthan Samachar / Dheeraj Maithani