कुम्भपर्वणि सन्तेभ्यः आश्रमेभ्यश्च निःशुल्कं भूमिसुविधाः प्रदातुं मागः।
हरिद्वारम्, 26नवम्बरमासः (हि.स.)। २०२७ तमे वर्षे आयोज्यमाने कुम्भमेलायां सन्तमहात्मभ्यः, मठेभ्यः, मढीभ्यः, मन्दिरेभ्यः आश्रमेभ्यश्च शिविरस्थापनार्थं निःशुल्कभूमिं सर्वाः आवश्यकसुविधाश्च उपलब्धाः कारयितुम् आग्रहः कृतः। षड्दर्शनसाधुसमाजः अखिलभारतीयसन
ज्ञापन सौंपते हुए संत


हरिद्वारम्, 26नवम्बरमासः (हि.स.)। २०२७ तमे वर्षे आयोज्यमाने कुम्भमेलायां सन्तमहात्मभ्यः, मठेभ्यः, मढीभ्यः, मन्दिरेभ्यः आश्रमेभ्यश्च शिविरस्थापनार्थं निःशुल्कभूमिं सर्वाः आवश्यकसुविधाश्च उपलब्धाः कारयितुम् आग्रहः कृतः। षड्दर्शनसाधुसमाजः अखिलभारतीयसनातनधर्मरक्षासमितिः च अस्मिन् विषये कुम्भमेलाधिकारिणं मेलाभवने मिलित्वा प्रयागराजस्य, नासिकस्य उज्जयिन्याः च कुम्भमेलानां सदृशाः सुविधाः प्रदातुम् आग्रहं कृतवन्तौ।

समित्या प्रदत्ते पत्रे उक्तं यत् हरिद्वारे २०२७ तमे वर्षे आयोज्यमानस्य कुम्भमेलस्य कृते देशस्य विभिन्नभागेभ्यः सन्तमहात्मभिः धार्मिकसंस्थाभिश्च शिविरस्थापनार्थम् आवेदनानि प्रदत्तानि सन्ति। किन्तु आवेदनकर्तृभ्यः भूम्यावण्टनाय शुल्कं दातुं तथा शामियानानां, विद्युतः, जलस्य, शौचालयानां च व्यवस्थाः स्वयमेव कर्तुं सूच्यते। यद्यपि प्रयागराजे, नासिके, उज्जयिन्यां च आयोजितेषु कुम्भमेलासु साधुसन्तेभ्यः, अखाडेभ्यः, मठेभ्यः, मन्दिरेभ्यः आश्रमेभ्यश्च निःशुल्कभूम्या सह शामियानाः, विद्युत्, जलम्, शौचालयाः, टीननिर्मिताः परिखाः इत्यादिसुविधाः प्रदीयन्ते।

षड्दर्शनसाधुसमाजस्य अखिलभारतीयसनातनधर्मरक्षासमितेश्च अध्यक्षेण श्रीमहन्तगोपालगिरिणा उपाध्यक्षेण श्रीमहन्तचेतनानन्दगिरिमहाराजेन च मेलाधिकारिण्यै सोनिकायै प्रदत्ते पत्रे उक्तं यत् हरिद्वारे २०१६ तमे वर्षे उज्जयिन्याः सिंहस्थकुम्भस्य सह अर्धकुम्भस्य आयोजनम् अभवत्। अधुना २०२७ तमे वर्षे सर्वकारेण हरिद्वारे कुम्भमेलस्य स्वरूपेण अर्धकुम्भमेलस्य आयोजनं क्रियते। समित्या ऋषिकेशस्य त्रिवेणीघाटस्य अपि कुम्भस्नानदृष्ट्या विकासं कर्तुम् आग्रहः कृतः। उक्तं च यत् जनवरीमासस्य १४ दिनाङ्के देवप्रयागे अमृतस्नानस्य, फरवरीमासस्य ६ दिनाङ्के मौनी-अमावस्यायाः तथा २०२७ तमवर्षस्य फरवरीमासस्य ११ दिनाङ्के वसन्तपञ्चम्यां ऋषिकेशस्य त्रिवेणीसङ्गमे स्नानस्य कार्यक्रमः प्रस्तावितः अस्ति।

समित्या त्रिवेणीघाटस्य सौन्दर्यवर्धनस्य तथा गङ्गायाः अन्तः सङ्गमघाटात् प्रायः विंशतिः पादपरिमिते दूरे दशपादोन्नतायाः सुरक्षावेष्टिकायाः स्थापनायाः च आग्रहः कृतः।

उक्तं यत् देशस्य विभिन्नभागेभ्यः सन्तमहात्मभिः स्वकीयमठानां, मढीनां, मन्दिराणाम् आश्रमाणां च पक्षतः शिविरस्थापनार्थम् आवेदनानि प्रदत्तानि सन्ति। अतः प्रशासनं सर्वाभ्यः धार्मिकसंस्थाभ्यः निःशुल्कभूमिं मूलभूतसुविधाश्च व्यवस्थापयेत्, येन सन्तमहात्मानः श्रद्धालवश्च शान्तिपूर्णरीत्या कुम्भस्नानं कर्तुं शक्नुयुः।

सन्तानां निवेदनं श्रुत्वा मेलाधिकारिणी सोनिका तेषां मागासु शीघ्रं यथासम्भवं कार्यवाहीं कर्तुम् आश्वासनं प्रदत्तवती। अस्मिन्नवसरे श्रीमहन्तगोपालगिरिमहाराजः, श्रीमहन्तचेतनानन्दगिरिमहाराजः, महामण्डलेश्वरः स्वामी प्रबोधानन्दगिरिः सहिताः प्रायः द्वादशाधिकाः सन्तः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani