अहं स्वयम् कृषकस्य पुत्रः अस्मि, कृषिकार्यस्य कठिनताः अन्नदातृणां आवश्यकताः च सम्यक् अवगच्छामि - मुख्यमन्त्री सायः
धान्यक्रयणस्य सुविधानां निरन्तरं विस्तारः क्रियते : मुख्यमन्त्री सायः रायपुरम्, २७ नवम्बरमासः (हि.स.)।मुख्यमन्त्री विष्णुदेवसायः उक्तवान् यत् छत्तीसगढसर्वकारः कृषकाणां सुखसमृद्ध्यै आर्थिकसमृद्ध्यै च पूर्णप्रतिबद्धतया कार्यं करोति। प्रदेशस्य अन्नदा
मुख्यमंत्री साय पत्रकाराें से चर्चा करते हुए


धान्यक्रयणस्य सुविधानां निरन्तरं विस्तारः क्रियते : मुख्यमन्त्री सायः

रायपुरम्, २७ नवम्बरमासः (हि.स.)।मुख्यमन्त्री विष्णुदेवसायः उक्तवान् यत् छत्तीसगढसर्वकारः कृषकाणां सुखसमृद्ध्यै आर्थिकसमृद्ध्यै च पूर्णप्रतिबद्धतया कार्यं करोति। प्रदेशस्य अन्नदातृभ्यः कृषकेभ्यः तेषाम् उत्पादस्य उत्तमं मूल्यं प्रदातुं सह धान्यक्रयणव्यवस्था अधिकं सुविधाजनका पारदर्शिनी च क्रियते।

राज्यसर्वकारेण अस्मिन् वर्षे कृषकहिते ऐतिहासिकः निर्णयः स्वीकृतः, यस्य अन्तर्गतं प्रतिएकरं एकविंशतिकुन्तलात् न्यूनं धान्यं विक्रीणतां कृषकाणाम् अपि निर्धारितसीमापर्यन्तं अन्तरराशेः लाभः प्रदास्यते। एतेन न्यूनोत्पादनयुक्तक्षेत्राणां कृषकाः अपि आर्थिकलाभं प्राप्तुं शक्नुवन्ति।

मुख्यमन्त्री सायः अद्य पत्रकारैः सह चर्चायां धान्यक्रयणस्य कृषकेभ्यः प्रदीयमानसुविधानां च विषये पृष्टानां प्रश्नानाम् उत्तराणि ददन् एतत् उक्तवान्।

मुख्यमन्त्री उक्तवान् यत् सम्पूर्णे देशे छत्तीसगढस्य कृषकेभ्यः यथा आर्थिकलाभः प्रदीयते, तथा लाभः अन्यस्मिन् कस्मिन्नपि राज्ये कृषकेभ्यः न प्रदीयते। अस्माकं सर्वकारः कृषकाणां परिश्रमस्य सम्मानं कुर्वन् तेभ्यः अधिकाधिकं लाभं प्रदातुं निरन्तरं निर्णयान् स्वीकरोति। धान्यक्रयणव्यवस्था एतादृशी भवेत् यया कृषकाणां कृते कापि समस्या न भवेत् तथा अधिकतमाः सुविधाः तेषां गृहात् एव प्राप्तुं शक्येरन्, एतदर्थं सर्वकारः निरन्तरं प्रयत्नशीलः अस्ति।

मुख्यमन्त्री सायः उक्तवान् यत् अस्मिन् वर्षे राज्यसर्वकारेण कृषकहिते अत्यन्तं महत्त्वपूर्णः ऐतिहासिकः च निर्णयः स्वीकृतः अस्ति।

छत्तीसगढस्य सर्वेषु क्षेत्रेषु प्रतिएकरं एकविंशतिकुन्तलपरिमितं धान्यस्य उत्पादनं न भवति। प्रदेशस्य विभिन्नक्षेत्रेषु कृषेः परिस्थितयः उत्पादनक्षमता च भिन्ना भिन्ना अस्ति। अतः न्यूनोत्पादनं कुर्वतां कृषकाणाम् अपि निर्धारितसीमापर्यन्तं अन्तरराशेः लाभं प्रदातुं स्वीकृतः निर्णयः तेषाम् आर्थिकस्थितिं सुदृढीकर्तुं महत्त्वपूर्णं पदम् अस्ति।

मुख्यमन्त्री उक्तवान् यत् अहं स्वयम् कृषकस्य पुत्रः अस्मि तथा कृषिकार्यस्य परिस्थितीः सम्यक् अवगच्छामि।

अतः अस्माकं सर्वकारेण निर्णयः स्वीकृतः यत् ये कृषकाः प्रतिएकरं एकविंशतिकुन्तलात् न्यूनं धान्यं विक्रीणन्ति, तेभ्यः अपि एकविंशतिकुन्तलस्य निर्धारितसीमापर्यन्तं अन्तरराशिः तेषां पंजिजासु प्रदास्यते। अस्माकं सर्वकारस्य इच्छा अस्ति यत् प्रदेशस्य कश्चिदपि कृषकः न्यूनोत्पादनस्य कारणेन एतस्मात् लाभात् वञ्चितः न भवेत्।

मुख्यमन्त्री सायः उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः आश्वासनानुसारं राज्यसर्वकारः कृषकाणां कल्याणाय निरन्तरं कार्यं करोति। कृषकेभ्यः तेषां परिश्रमस्य उचितं प्रतिफलं प्राप्येत, कृषिः लाभप्रदा भवेत्, ग्रामीणार्थव्यवस्था च सुदृढा भवेत्, एतमेव उद्देश्यम् अवलम्ब्य सर्वकारः नीतिगतनिर्णयान् स्वीकरोति।

तेन उक्तं यत् अस्माकं सर्वकारस्य कृते कृषकहितं सर्वोपरि अस्ति। धान्यक्रयणात् आरभ्य आर्थिकसहायतायाः सुविधानां विस्तारपर्यन्तं प्रत्येकस्मिन् स्तर पर कृषकाणाम् आवश्यकताः प्राथमिकतया विचार्यन्ते। अन्नदातृणां समृद्धिः एव समृद्धस्य विकसितस्य च छत्तीसगढस्य दृढा आधारशिला अस्ति।

Hindusthan Samachar / Divya Ranjan