नूतनशिक्षानीतिः छात्राणाम् उज्ज्वलभविष्याय महत्त्वपूर्णा – प्रो. के.के. अग्रवालः
नवदिल्ली, २७ नवम्बरमासः (हि.स.)। नवदिल्लीस्थितस्य दक्षिण एशियायी-विश्वविद्यालयस्य अध्यक्षः तथा दिल्लीस्थस्य गुरु गोबिन्दसिंह इन्द्रप्रस्थ-विश्वविद्यालयस्य संस्थापककुलपतिः प्रो. के.के. अग्रवालः उक्तवान् यत् नूतनशिक्षानीतिः छात्राणां उज्ज्वल-भविष्याय
दक्षिण एशियाई विश्वविद्यालय (एसएयू) के अध्यक्ष प्रो. केके अग्रवाल  (फाइल फोटो)


नवदिल्ली, २७ नवम्बरमासः (हि.स.)। नवदिल्लीस्थितस्य दक्षिण एशियायी-विश्वविद्यालयस्य अध्यक्षः तथा दिल्लीस्थस्य गुरु गोबिन्दसिंह इन्द्रप्रस्थ-विश्वविद्यालयस्य संस्थापककुलपतिः प्रो. के.के. अग्रवालः उक्तवान् यत् नूतनशिक्षानीतिः छात्राणां उज्ज्वल-भविष्याय अत्यन्तं महत्त्वपूर्णा अस्ति। अस्यां सत्राधारितशिक्षाप्रणाली अस्ति, यस्यां वर्षे द्विवारं परीक्षाः भवन्ति, तेन छात्राः निरन्तरं अध्ययनकार्ये संलग्नाः भवन्ति।

प्रो. के.के. अग्रवालः हिन्दुस्थान-समाचारसंस्थया सह वार्तालापे उक्तवान् यत् विश्वस्य शिक्षाव्यवस्था अधुना सत्राधारितप्रणाल्याः अनुसरणं करोति तथा भारतम् अपि एनईपी-माध्यमेन तस्याः गतिं प्राप्तुं प्रयासं कृतवान्। एतदर्थं शिक्षणसंस्थाभिः, विश्वविद्यालयैः तथा शिक्षकैः एनईपी-कार्यान्वयनाय स्वकीयाः व्यवस्थाः आधुनिकीकर्तव्याः। विश्व-विद्यालयैः एनईपी-अनुसारं प्रवेशस्थानानां कक्षाणां च संख्या वर्धयितुं आवश्यकम् इति सः उक्तवान्।

उल्लेखनीयम् अस्ति यत् दिल्ली-विश्वविद्यालयस्य प्रथमसमूहस्य (२०२२-२३) ७५,९४८ छात्राः प्रवेशं प्राप्तवन्तः। तेषु ४०,००५ छात्राः त्रिवर्षीयपाठ्यक्रममेव त्यक्तवन्तः, यदा तु ३५,९४३ छात्राः चतुर्वर्षीयपाठ्यक्रमं पूर्णं कृत्वा २०२६ तमे वर्षे उत्तीर्णाः अभवन्। किन्तु एकवर्षीयस्नातकोत्तरपाठ्यक्रमे प्रवेशस्थानानां न्यूनतायाः कारणात् प्रायः ४,००० छात्राः प्रभाविताः अभवन्। केन्द्रसर्वकारेण २०२० तमे वर्षे एनईपी अनुमोदिता। ततः पूर्वं १९८६ तमवर्षस्य शिक्षानीतिः प्रचलिता आसीत्। एनईपी-अन्तर्गतं ५+३+३+४ शिक्षाव्यवस्था प्रवर्तिता। चतुर्वर्षीयस्नातकपाठ्यक्रमः, सत्राधारितशिक्षाप्रणाली तथा श्रेयाङ्का-धारितप्रणाली च स्वीकृता।

प्रो. के.के. अग्रवालः उक्तवान् यत् शिक्षकाः छात्राणां निरन्तरं मार्गदर्शनं कृत्वा तेषां भविष्यस्य सुदृढाधारनिर्माणे महत्त्वपूर्णां भूमिकां निर्वहेयुः। एनईपी-अन्तर्गतस्य चतुर्वर्षीयपाठ्यक्रमस्य विरोधविषये सः उक्तवान् यत् शिक्षकाः एतं भाररूपेण न स्वीकृत्य छात्राणां उज्ज्वलभविष्यस्य विषये चिन्तयेयुः। सः उक्तवान् यत् त्रिवर्षीयपाठ्यक्रमस्य समाप्तौ शिक्षकाः छात्राणां रुच्यनुसारं तेषां मार्गदर्शनं कुर्युः।

प्रो. के.के. अग्रवालः उक्तवान् यत् एनईपी कण्ठस्थीकरणस्य स्थाने व्यावहारिक-शिक्षायाः, अनुभवानां माध्यमेन शिक्षायाः तथा कौशलाधारितशिक्षायाः च उपरि बलं ददाति। अस्यां छात्राः कक्षायां प्राप्तेन ज्ञानेन सह समाजस्य व्यावहारिकानुभवैः अपि सम्बद्धाः भवन्ति। अस्यां प्रारम्भिकशिक्षातः उच्चशिक्षापर्यन्तं सर्वेषु स्तरेषु ध्यानं दीयते।

दक्षिण एशियायीविश्वविद्यालयस्य विषये प्रो. के.के. अग्रवालः उक्तवान् यत् अत्र भारतस्य अतिरिक्तं दक्षिण एशियायाः अन्येषां सप्तदेशानाम्—अफगानिस्तानस्य, बाङ्ग्लादेशस्य, भूटानस्य, मालदीवस्य, नेपालस्य, पाकिस्तानस्य तथा श्रीलङ्कायाः—विद्यार्थिनः अपि अध्ययनं कुर्वन्ति। अस्य विश्वविद्यालयस्य दक्षिणदिल्लीस्थे मैदानगढीक्षेत्रे १०० एकरपरिमितः परिसरः अस्ति। अत्र छात्रावासः, पुस्तकालयः, प्रयोगशालाः, तरणतालः तथा क्रीडासुविधाः उपलब्धाः सन्ति। सः उक्तवान् यत् अस्मिन् परिसरे २,४०० छात्राः अध्ययनं कुर्वन्ति, अस्य क्षमता ४,५०० छात्राणां पर्यन्तम् अस्ति।

Hindusthan Samachar / Divya Ranjan