Enter your Email Address to subscribe to our newsletters



उत्तरप्रदेश:, २७ नवम्बरमासः (हि.स.)। प्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे बलरामपुरम् प्राप्तवान्। अत्र सः देवीपाटनमन्दिरे आयोजिते ब्रह्मलीनस्य महन्तस्य महेन्द्रनाथयोगिनः षड्विंशतितमे पुण्यतिथिकार्यक्रमे श्रद्धाञ्जलिम् अर्पितवान्। सः अवदत् यत् भारतं सनातनधर्मश्च पृथक् कर्तुं न शक्येते। यदा सनातनधर्मः सुदृढः भविष्यति, तदा भारतमपि सुदृढं भविष्यति। उभौ परस्परस्य पूरकौ स्तः।
शुक्रवासरे मुख्यमन्त्री योगी अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी ‘राष्ट्रं प्रथमम्’ इति घोषणां कृतवान् अस्ति। राष्ट्रं सर्वोपरी भवेत् तथा च एतदर्थं प्रत्येकं नागरिकः स्वकर्तव्यस्य निष्ठया पालनं कुर्यात्।
सः अवदत् यत् कृषकः निष्ठया कृषिकार्यं कुर्यात्, वणिक् निष्ठया स्वव्यापारं कुर्यात् तथा समाजस्य प्रत्येकं वर्गस्य जनः पूर्णनिष्ठया स्वदायित्वस्य निर्वहणं कुर्यात्। तदैव राष्ट्रं सुदृढं भविष्यति। परिणामाः भाषणैः न, अपितु पुरुषार्थेन प्राप्यन्ते।
ब्रह्मलीनस्य महन्तस्य महेन्द्रनाथयोगिनः स्मरणं कुर्वन् मुख्यमन्त्री अवदत् यत् तेन देवीपाटनशक्तिपीठस्य विकासाय अनेकानि कार्याणि कृतानि।
शताब्देिभ्यः एतत् शक्तिपीठं समाजस्य जनान् संयोजयितुं कार्यं कुर्वदस्ति। ब्रह्मलीनः महन्तः गोरखपुरात् अत्र आगतवान् आसीत्। तत्र यानि विकासकार्याणि व्यवस्थाश्च पश्यति स्म, तानि स्वसामर्थ्यानुसारं देवीपाटने अपि कार्यान्वितुं प्रयत्नं करोति स्म। थारूजनजातीयानां विकासाय तेन आरब्धं थारूछात्रावासम् अद्यापि शतशः थारूजनजातीयबालकेभ्यः निःशुल्कशिक्षां भोजनञ्च प्रददाति। श्रद्धालूनां निवासाय धर्मशालायाः विस्तारः अपि तस्य प्रयत्नानामेव परिणामः अस्ति। देवीपाटनशक्तिपीठे विकासकार्यरूपेण तस्य योगदानम् अद्यापि दृश्यते।
सः अवदत् यत् ब्रह्मलीनमहन्तः गोरक्षपीठाधीश्वरात् महन्तात् अवैद्यनाथात् यत् किमपि शिक्षितवान्, तत् स्वकार्येषु आचरणे आनेतुं प्रयत्नम् अकरोत्। रामायणस्य एकस्याः घटनायाः उल्लेखं कुर्वन् मुख्यमन्त्री सीतान्वेषणकाले हनुमतः मैनाकपर्वतस्य च संवादस्य उदाहरणम् अददात्। सः अवदत् यत् यदा मैनाकपर्वतः हनुमन्तं विश्रामं कर्तुम् अवदत्, तदा हनुमान् प्रत्यवदत् — ‘रामकार्यं कृत्वा विना मम कुत्र विश्रामः?’ इति।
मुख्यमन्त्री अवदत् यत् हनुमच्चालीसायाः बजरङ्गबलेः च प्रति श्रद्धा प्रत्येकं सनातनधर्मानुयायिनः जीवने विशिष्टं स्थानं धारयति। अस्माभिः स्ववृद्धान् प्रति कृतज्ञैः भवितव्यम्। सन्तानां महापुरुषाणां च देशस्य स्वातन्त्र्यार्थं बलिदानं कृतवतां स्वातन्त्र्यसङ्ग्रामसेनानीनां जीवनं प्रत्येकं देशवासिनः कृते प्रेरणास्रोतः भवेत्।
सः युवावंशं सन्तानाम् आदर्शान् स्वजीवने आत्मसात्कर्तुम् आह्वयत्। सः अवदत् यत् सन्तानां शिक्षाः समाजाय सम्यक् दिशां प्रदातुं सह राष्ट्रस्य एकतां अखण्डतां च सुदृढां कुर्वन्ति।
तुलसीपुरं प्राप्ते सति देवीपाटनपीठाधीश्वरः महन्तः मिथिलेशनाथयोगी महाराजः, विधायकः पल्टूरामः, विधायकः कैलाशनाथशुक्लः, जनपदाधिकारी डॉ. विपिनकुमारजैनः, आरक्षकाधीक्षकः डॉ. मार्तण्डप्रकाशसिंहः च अन्यैः जनप्रतिनिधिभिः अधिकारिभिः सह मुख्यमन्त्रिणः स्वागतं कृतवन्तः।
कार्यक्रमे अयोध्यायाः हनुमानगढीस्थः महन्तः राजूदासः, बलरामपुरस्य हनुमानगढीस्थः महन्तः महेन्द्रदासः, गैसडीक्षेत्रस्य पूर्वविधायकः शैलेशसिंहः शैलूः, जनपदपञ्चायताध्यक्षा आरतीतिवारी, दद्दनमिश्रः, श्रावस्तीक्षेत्रस्य विधायकः रामफेरनपाण्डेयः, धीरेन्द्रसिंहः धीरू, प्रवीणसिंहः विक्की, कालीबाडीस्थः महन्तः रवीन्द्रदासमहाराजः, हरियाणायाः हिसारतः महन्तः विनोदनाथः, नेपालतः नारायणनाथयोगी, महन्तः जितेन्द्रदासः, सांसदः अभिषेकप्रतापशाहः तथा पचपेड़वानगरपञ्चायतस्य अध्यक्षः रविवर्मा इत्यादयः अनेके सन्त-महात्मानः जनप्रतिनिधयश्च उपस्थिताः आसन्।
मुख्यमन्त्री योगी आदित्यनाथः द्विदिवसीयप्रवासस्य अन्तर्गतं शुक्रवासरे अपराह्णे प्रायः सार्धद्विवादने देवीपाटनमन्दिरं प्राप्तवान्। मन्दिरं प्राप्य सः मातुः पाटेश्वर्याः दर्शनं पूजनञ्च कृतवान्। ततः सायं पञ्चवादने मन्दिरपरिसरस्थे गोरक्ष-मण्डपम्-सभागारे ब्रह्मलीनस्य महन्तस्य महेन्द्रनाथयोगिनः पुण्यतिथ्युपलक्ष्ये आयोजितायां श्रद्धाञ्जलिसभायां भागम् अगृह्णात्।
मुख्यमन्त्री शनिवासरे मातुः पाटेश्वर्याः दर्शनं पूजनञ्च कृत्वा देवीपाटनमन्दिरात् प्रस्थास्यति।
ब्रह्मलीनस्य महन्तस्य महेन्द्रनाथयोगिनः षड्विंशतितमे पुण्यतिथ्युपलक्ष्ये देवीपाटनपीठाधीश्वरस्य महन्तस्य मिथिलेशनाथयोगिमहाराजस्य मार्गदर्शने पञ्चविंशतितमात् नवम्बरमासस्य दिनाङ्कात् श्रीमद्भागवतकथायाः आयोजनं क्रियमाणम् अस्ति, या त्रिंशत् नवम्बरपर्यन्तं प्रचलिष्यति। शुक्रवासरे श्रद्धाञ्जलिसभायाः आयोजनम् अभवत्। कार्यक्रमस्य अन्तिमे दिने अर्थात् नवम्बरमासस्य त्रिंशत्तमे दिनाङ्के सन्तसम्मेलनस्य भण्डारस्य च आयोजनं भविष्यति।
Hindusthan Samachar / Divya Ranjan