पूर्वा आईएएस दिव्यामित्तलेन ग्रामेषु जनसंवादः कृतः, जनसमस्यानां श्रवणं च कृतम्
मीरजापुरम्, २७ नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मीरजापुरजनपदस्य पूर्वजनपदाधिकारी तथा पूर्वा आईएएस दिव्यामित्तलः शुक्रवासरे जननीतिभारतपार्टी इत्यस्य ध्वजतले क्षेत्रभ्रमणार्थम् आगतवती। तया अमोई, खन्तरा, सुगापांख, रजौहा तथा मड़िहानतहसीलक्षेत्रे, विप
ग्रामीणों से संवाद करती पूर्व आईएएस दिव्या मित्तल


मीरजापुरम्, २७ नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मीरजापुरजनपदस्य पूर्वजनपदाधिकारी तथा पूर्वा आईएएस दिव्यामित्तलः शुक्रवासरे जननीतिभारतपार्टी इत्यस्य ध्वजतले क्षेत्रभ्रमणार्थम् आगतवती। तया अमोई, खन्तरा, सुगापांख, रजौहा तथा मड़िहानतहसीलक्षेत्रे, विपणिक्षेत्रे च जनैः सह मिलित्वा तेषां समस्याः श्रुताः। अस्मिन् अवसरे विभिन्नस्थानेषु स्थानीयजनैः महिलाभिश्च तस्याः स्वागतं कृतम्।

पूर्वनिर्धारितकार्यक्रमानुसारम् आयोजिते जनसंवादे दिव्यामित्तल इत्यनया जनैः सह प्रत्यक्षं संवादः कृतः। कुत्रचित् मञ्चस्य व्यवस्था नासीत्, तत्र सा वृक्षस्य अधः निर्मितायां लघुपुलियायां स्थित्वैव जनैः सह संवादं कृतवती। तया उक्तं यत् वास्तविकः स्वामी कः—जनतायाः अथवा निर्वाचितजनप्रतिनिधीनाम् — इति निर्णयः जनैः एव करणीयः। तया जनाः जाति-बिरादरी-धर्मादिभ्यः उपरि उत्थाय विकासस्य विषयम् आधारीकृत्य मतदानं कर्तुम् आहूताः। तया कथितं यत् निर्वाचनकाले अनेके जनाः धनस्य प्रलोभनं दास्यन्ति, किन्तु मतदातृभिः विकासं जनहितं च ध्यात्वा निर्णयः करणीयः।

दिव्यामित्तल इत्यनया पदत्यागानन्तरं जनैः सह प्रत्यक्षसम्बन्धं स्थापयितुं तथा तेषां समस्याः अवगन्तुं जननीतिभारतसङ्घटनस्य स्थापनायाः विषयेऽपि कथितम्। क्षेत्रभ्रमणकाले निखिलसोनी, शुभम्, अजय-अग्रहरिः, वीरू, दिलीपः, सुरेशसिंहः, हनुमानदासः इत्यादयः शतशः जनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan