Enter your Email Address to subscribe to our newsletters

मुंबई, 28 नवंबरमासः (हि.स.)। अभिनेत्री श्रद्धाकपूरः ‘ईठा’ इति चलच्चित्रेण शीघ्रमेव बृहत्तमपटले पुनरागमनं कर्तुं सज्जा अस्ति। लक्ष्मण उतेकरस्य निर्देशननिर्मितम् एतत् ऐतिहासिकपृष्ठभूमियुक्तं नाट्यप्रधानं चलच्चित्रं प्रति दर्शकाणां पूर्वमेव उत्सुकता वर्तते। चलच्चित्रस्य प्रदर्शनात् पूर्वं निर्मातृभिः अस्य सेन्सरसम्बद्धा प्रक्रिया अपि पूर्णा कृता। केन्द्रीयचलच्चित्रप्रमाणनमण्डलस्य जालपुटे प्रदत्तविवरणानुसारं नवम्बरमासस्य २७ दिनाङ्के अस्मै यू/ए १६+ प्रमाणपत्रं प्रदत्तम्। चलच्चित्रस्य सम्पूर्णा अवधि २ घण्टाः ५२ निमेषाः च अस्ति।
‘ईठा’ श्रद्धाकपूरस्य षोडशवर्षीयस्य चलच्चित्रजीवनस्य अद्यावधि दीर्घतमं चलच्चित्रं जातम्। अस्य प्रदर्शनावधिः प्रभासेन अभिनीतस्य ‘साहो’ इति चलच्चित्रस्य अवधितः अपि २२ निमेषसेकण्डपरिमिता अधिका कथ्यते, यस्य अवधि २ घण्टाः ५१ निमेषाः आसीत्। अस्मिन् चलच्चित्रे श्रद्धया सह रणदीपहुड्डा, जीशानअय्यूबः, सिद्धार्थजाधवः, इश्तियाकखानः तथा अनन्तजोशी च प्रमुखभूमिकासु दृश्यन्ते। दिनेशविजानः, लक्ष्मणउतेकरः तथा करिश्माशर्मा च अस्य चलच्चित्रस्य निर्मातारः सन्ति। ‘छावा’ इत्यनन्तरं निर्देशकस्य लक्ष्मणउतेकरस्य एषा अग्रिमा प्रमुखा चलच्चित्रप्रस्तुतिः अस्ति।
अस्मिन् चलच्चित्रे श्रद्धाकपूरः प्रसिद्धायाः मराठी तमाशाकलाकारायाः विठाबाईनारायणगाँवकर इत्यस्याः भूमिकां निर्वहति। महाराष्ट्रस्य लोककलायाः तमाशापरम्परायाश्च पृष्ठभूमौ निर्मिता एषा कथा दिसम्बरमासस्य ४ दिनाङ्के चलचित्रगृहेषु प्रदर्शिता भविष्यति।
चलच्चित्रेण प्रदर्शनात् पूर्वमेव एकः उपलब्धिविशेषः अपि प्राप्तः। अस्य प्रथमगीतस्य ‘जी जी रे जी’ इत्यस्य लावणीनृत्ये ५१७ महिलाभिः निरन्तरम् एकनिमेषपर्यन्तं एकत्र नृत्यप्रस्तुतिः कृता आसीत्। अस्य सामूहिकनृत्यप्रदर्शनस्य कारणेन चलच्चित्रस्य नाम इण्डिया बुक ऑफ रिकॉर्ड्स तथा एशिया बुक ऑफ रिकॉर्ड्स इत्यनयोः अभिलेखपुस्तकयोः समाविष्टम् अभवत्।---------------
Hindusthan Samachar / Dheeraj Maithani