पणजीनगरे ५७ तमस्य भारतीयान्तरराष्ट्रीयचलच्चित्रमहोत्सवस्य (इफ्फी) समापनम् : ‘अकी’ चलच्चित्राय गोल्डन पीकॉक पुरस्कारः, ‘कान्तारा : ए लीजेण्ड चैप्टर १’ इत्यस्मिन् चलच्चित्रे अभिनयार्थं ऋषभशेट्टी श्रेष्ठाभिनेता पुरस्कारेण सम्मानितः।
पणजी, 28 नवंबरमासः (हि.स.) गोवायां ५७ तमस्य भारतीयान्ताराष्ट्रियचलच्चित्रमहोत्सवस्य समापनं शनिवासरे अभवत्। अस्मिन् समारोहे ‘अकी’ इति चलच्चित्रं सर्वश्रेष्ठचलच्चित्रस्य प्रतिष्ठितेन ‘गोल्डन पीकॉक’ इति पुरस्कारेण सम्मानितम्। अभिनेता चलच्चित्रनिर्म
पणजीनगरे ५७ तमस्य भारतीयान्तरराष्ट्रीयचलच्चित्रमहोत्सवस्य (इफ्फी) समापनम् : ‘अकी’ चलच्चित्राय गोल्डन पीकॉक पुरस्कारः, ‘कान्तारा : ए लीजेण्ड चैप्टर १’ इत्यस्मिन् चलच्चित्रे अभिनयार्थं ऋषभशेट्टी श्रेष्ठाभिनेता पुरस्कारेण सम्मानितः।


पणजी, 28 नवंबरमासः (हि.स.)

गोवायां ५७ तमस्य भारतीयान्ताराष्ट्रियचलच्चित्रमहोत्सवस्य समापनं शनिवासरे अभवत्। अस्मिन् समारोहे ‘अकी’ इति चलच्चित्रं सर्वश्रेष्ठचलच्चित्रस्य प्रतिष्ठितेन ‘गोल्डन पीकॉक’ इति पुरस्कारेण सम्मानितम्। अभिनेता चलच्चित्रनिर्माता च ऋषभशेट्टी ‘कान्तारा : ए लीजेण्ड चैप्टर १’ इति चलच्चित्राय सर्वश्रेष्ठाभिनेतुः (पुरुषवर्गस्य) ‘सिल्वर पीकॉक’ पुरस्कारं तथा ‘विशेषप्रशंसा’ सम्मानं च प्राप्तवान्।

नवदिनात्मकस्य अस्य भव्यचलच्चित्रमहोत्सवस्य समापनसमारोहे जर्मनीदेशस्य प्रख्याताय चलच्चित्रनिर्मात्रे वोल्कर श्लोंडॉर्फ इत्यस्मै तदीयाय ‘विजिटेशन’ इति चलच्चित्राय सर्वश्रेष्ठनिर्देशकस्य ‘सिल्वर पीकॉक’ पुरस्कारः प्रदत्तः। अपरतः ‘द मेल्टडाउन’ इति चलच्चित्राय माया ओ’रूर्क श्रेष्ठाभिनेत्रीरूपेण चयनिता।

लुकास ए विग्नाले इत्यस्य ‘द रिवर ट्रेन’ इति चलच्चित्रं ‘विशेषनिर्णायकमण्डलपुरस्कारेण’ सम्मानितम्। ‘द गोल्डन एज (एल’एज डी’ओर)’ इति चलच्चित्रं च निर्देशकस्य सर्वश्रेष्ठप्रथमपूर्णदैर्घ्यचलच्चित्रस्य ‘सिल्वर पीकॉक’ पुरस्कारं प्राप्तवत्।

भारतीयेषु विशिष्टवर्गेषु च डॉ. विशालचतुर्वेदी ‘हनुमान अंश’ इति चलच्चित्राय भारतीयपूर्णदैर्घ्यचलच्चित्रस्य सर्वश्रेष्ठनवोदितनिर्देशकस्य पुरस्कारं प्राप्तवान्। ‘मेड इन इण्डिया : ए टाइटन स्टोरी’ इति चलच्चित्रं च सर्वश्रेष्ठजालमालिकायाः (ओटीटी) पुरस्कारं प्राप्तवत्।

प्रतिष्ठितः आईसीएफटी-यूनेस्को गान्धीपदकः तुर्कीदेशस्य ‘रहमा’ इति चलच्चित्राय प्रदत्तः, यस्य निर्देशनं फैसलसोयसलः कृतवान्। समारोहे गोवाप्रदेशस्य चलच्चित्रनिर्माता आदित्यसुहासजम्भाले अपि विशेषसम्मानेन सम्मानितः।

समारोहं सम्बोधयन् गोवाप्रदेशस्य मुख्यमन्त्री प्रमोदसावन्तः चलच्चित्रजगतः सर्वान् जनान् अभिनन्दितवान् तथा अवदत् यत् अयं समुद्रतटीयप्रदेशः विगतैः २२ वर्षैः इफ्फीमहोत्सवस्य सफलतया आयोजनं कुर्वन् अस्ति। अस्य वर्षस्य ‘सीमाभ्यः परे कथाः’ इति विषयवस्तुं (स्टोरीज विदाउट बॉर्डर्स) सूचितवतः महोत्सवस्य निदेशकस्य प्रख्यातचलच्चित्रनिर्मातुः आशुतोषगोवारिकरस्य प्रशंसां कुर्वन् सावन्तः अवदत्, “विश्वम् एकं रङ्गमञ्चम् अस्ति तथा च चलच्चित्रं तस्य सुन्दरं दर्पणम् अस्ति।”

महोत्सवस्य भव्यतायाः विषये प्रकाशयन् मुख्यमन्त्री अवदत् यत् अस्मिन् वर्षे रूसदेशः सहभागिदेशः आसीत् तथा च नवदिनेषु कुलम् १७ सत्राणि आयोजितानि। प्रधानमन्त्री नरेन्द्रमोदिनः स्वप्नं साकारं कर्तुं युवजनाः अनुसन्धानस्य, अङ्कीयकरणस्य, नवाचारस्य च माध्यमेन ‘विकसितभारतस्य’ निर्माणं करिष्यन्ति इत्यस्मिन् विषये अपि सः विशेषं बलम् अददात्।

समापनसमारोहे केन्द्रीयसूचनाप्रसारणसचिवः चञ्चलकुमारः, राष्ट्रियचलच्चित्रविकासनिगमस्य (एनएफडीसी) अध्यक्षः जी कृष्णकुमारः, महोत्सवस्य निदेशकः आशुतोषगोवारिकरः इत्यादयः अनेकाः गणमान्यजनाः उपस्थिताः आसन्।

५७ तमस्य इफ्फीमहोत्सवस्य पुरस्कारविजेतॄणां सम्पूर्णा सूची

1. गोल्डन पीकॉक (सर्वश्रेष्ठचलच्चित्रम्) : अकी

2. सिल्वर पीकॉक (सर्वश्रेष्ठनिर्देशकः) : वोल्कर श्लोंडॉर्फ (विजिटेशन)

3. सिल्वर पीकॉक (सर्वश्रेष्ठाभिनेता – पुरुषवर्गः) : ऋषभशेट्टी (कान्तारा : ए लीजेण्ड चैप्टर १)

4. सिल्वर पीकॉक (सर्वश्रेष्ठाभिनेत्री – महिलावर्गः) : माया ओ’रूर्क (द मेल्टडाउन)

5. विशेषनिर्णायकमण्डलपुरस्कारः : द रिवर ट्रेन (निर्देशकः – लुकास ए विग्नाले)

6. सिल्वर पीकॉक (निर्देशकस्य सर्वश्रेष्ठप्रथमपूर्णदैर्घ्यचलच्चित्रम्) : द गोल्डन एज (एल’एज डी’ओर)

7. विशेषप्रशंसासम्मानः : ऋषभशेट्टी (कान्तारा : ए लीजेण्ड चैप्टर १)

8. भारतीयपूर्णदैर्घ्यचलच्चित्रस्य सर्वश्रेष्ठनवोदितनिर्देशकः : डॉ. विशालचतुर्वेदी (हनुमान अंश)

9. सर्वश्रेष्ठजालमालिकापुरस्कारः (ओटीटी) : मेड इन इण्डिया : ए टाइटन स्टोरी

10. आईसीएफटी-यूनेस्को गान्धीपदकः : रहमा (निर्देशकः – फैसलसोयसलः, तुर्कीदेशः)

11. विशेषसम्मानः : आदित्यसु

हासजम्भाले (चलच्चित्रनिर्देशकः, गोवा)

---------------

Hindusthan Samachar / Dheeraj Maithani