भारत-डेनमार्कदेशौ द्विपक्षीयव्यापारस्य आर्थिकसहकारितायाश्च अधिकसुदृढीकरणाय स्वां प्रतिबद्धतां पुनरुक्तवन्तौ।
डेनमार्कदेशस्य विदेशमन्त्री लार्स लोक्के रासमुसेन इत्यनेन सह वाणिज्यमन्त्री गोयलस्य भेंटवार्ता। नवदिल्ली, २८ नवम्बरमासः (हि.स.)। भारत-डेनमार्कदेशौ द्विपक्षीयव्यापारस्य आर्थिकसहकारितायाश्च अधिकं सुदृढीकरणाय स्वां प्रतिबद्धतां पुनः प्रकटितवन्तौ। क
डेनमार्क के विदेश मंत्री, लार्स लोक्के रासमुसेन से मुलाकात करते वाणिज्य मंत्री गोयल


डेनमार्क के विदेश मंत्री, लार्स लोक्के रासमुसेन से मुलाकात करते वाणिज्य मंत्री गोयल


- डेनमार्कदेशस्य विदेशमन्त्री लार्स लोक्के रासमुसेन इत्यनेन सह वाणिज्यमन्त्री गोयलस्य भेंटवार्ता।

नवदिल्ली, २८ नवम्बरमासः (हि.स.)। भारत-डेनमार्कदेशौ द्विपक्षीयव्यापारस्य आर्थिकसहकारितायाश्च अधिकं सुदृढीकरणाय स्वां प्रतिबद्धतां पुनः प्रकटितवन्तौ। केन्द्रीयवाणिज्योद्योगमन्त्री पीयूषगोयलः शनिवासरे एतां सूचनां प्रदत्तवान्।

गोयलः सामाजिकमाध्यमे एक्स इत्यत्र प्रकाशिते सन्देशे लिखितवान् यत् डेनमार्कदेशस्य विदेशमन्त्रिणा लार्स लोक्के रासमुसेन इत्यनेन सह मिलित्वा प्रसन्नताम् अनुभवति। सः अवदत् यत् रासमुसेन इत्यनेन सह व्यापारिकसम्बन्धानां विस्तारस्य सहयोगस्य च नूतनक्षेत्राणां सम्भावनानां विषये चर्चा कृता।

केन्द्रीयवाणिज्योद्योगमन्त्री अवदत् यत् भारत-डेनमार्कयोः सहभागितां अधिकं सुदृढां कर्तुं द्विपक्षीयव्यापारस्य आर्थिकसहकारितायाश्च वर्धनम्, व्यावसायिकसम्बन्धानां सुदृढीकरणम् तथा परस्परहितसम्बद्धेषु क्षेत्रेषु सहयोगस्य नवीनमार्गाणाम् अन्वेषणम् इत्यादिविषयेषु अपि चर्चा कृता।

उभयोः देशयोः मध्ये एषा वार्ता तस्मिन् समये अभवत्, यदा नवीकरणीयऊर्जा, हरितप्रौद्योगिकी, समुद्रीसहकारिता, निवेशः इत्यादिषु क्षेत्रेषु विशेषतः आर्थिकसम्बन्धाः वर्धमानाः सन्ति।

अस्याः पूर्वम् अस्मिन्नेव मासे केन्द्रीयमन्त्री प्रह्लादजोशी ‘भारत-नवीकरणीयऊर्जाशिखरसम्मेलनम् २०२६’ इत्यस्यावसरे डेनमार्कदेशस्य व्यापार-प्रतिस्पर्धामन्त्री मार्टिन लिडेगार्ड इत्यनेन सह वार्तालापं कृतवान् आसीत्।

Hindusthan Samachar / Dheeraj Maithani