Enter your Email Address to subscribe to our newsletters

जयपुरम्, 28 नवंबरमासः (हि.स.)।निजीसंस्थायै लाभं प्रदाय न्यूनमूल्येन विलाक्रयसम्बद्धे प्रकरणे आईएएस अधिकारी शिखर अग्रवालाय साम्प्रतं सर्वोच्चन्यायालयतः किमपि उपशमनं न प्राप्तम्। सर्वोच्चन्यायालयेन उक्तं यत् उच्चन्यायालयस्य आदेशः अन्तरिमस्वरूपः अस्ति तथा अस्मिन् स्तरे तस्मिन् हस्तक्षेपः उचितः न मन्यते। तथापि सर्वोच्चन्यायालयेन शिखर अग्रवालाय अनुमतिः प्रदत्ता यत् सः अन्तरिमोपशमनार्थम् उच्चन्यायालयस्य समक्षमेव प्रार्थनां कुर्यात्। अपि च सर्वोच्चन्यायालयेन उच्चन्यायालयम् आग्रहः कृतः यत् सः अस्य प्रकरणस्य शीघ्रं श्रवणं कुर्यात्। शिखर अग्रवालस्य विशेषानुमतियाचिकायाः श्रवणं कुर्वन् सर्वोच्चन्यायालयेन एषः आदेशः प्रदत्तः।
शिखर अग्रवालः राजस्थान उच्चन्यायालयतः भ्रष्टाचारनिरोधकविभागस्य अन्वेषणकार्यवाहीविषये किमपि उपशमनं न प्राप्तवान्। अतः सः सर्वोच्चन्यायालये विशेषानुमतियाचिकां प्रस्तुतवान्। शिखर अग्रवालस्य पक्षतः पूर्वमहान्यायवादी मुकुल रोहतगी पक्षसमर्थनं कृतवान्। अपरतः राज्यसर्वकारस्य पक्षतः देशस्य महान्यायवादी आर. वेंकटरमणी तथा अपरमहाधिवक्तारौ शिवमंगल शर्मा एवं पद्मेश मिश्रा उपस्थितौ अभवताम्।
वस्तुतः अस्मिन् प्रकरणे उच्चन्यायालयेन नवम्बरमासस्य १९ दिनाङ्के शिखर अग्रवालस्य याचिकायाः श्रवणं कुर्वता तस्य विरुद्धं दण्डात्मककार्यवाहीं तथा भ्रष्टाचारनिरोधकविभागस्य अन्वेषणकार्यवाहीं प्रति उपशमनं न प्रदत्तम्। तत्सह राज्यसर्वकाराय तथा भ्रष्टाचारनिरोधकविभागाय उत्तरं प्रस्तुतुं निर्देशः अपि दत्तः।
शिखर अग्रवालः उच्चन्यायालये प्रस्तुतायां याचिकायां कथितवान् यत् अक्टोबरमासस्य २७ दिनाङ्के माध्यमेषु वार्तायाः प्रकाशनस्य अनन्तरदिने एव राज्यसर्वकारेण तस्य पदस्थापनं स्थगितम्। अपरतः अक्टोबरमासस्य ३० दिनाङ्के राज्यसर्वकारेण भ्रष्टाचारनिवारणाधिनियमस्य १७-ए धारायाः अन्तर्गतं भ्रष्टाचारनिरोधकविभागाय प्रकरणस्य विस्तृतान्वेषणस्य अनुमतिः प्रदत्ता। राज्यसर्वकारेण याचिकाकर्तुः स्पष्टीकरणस्य उत्तरं प्राप्तुं विना एव तस्य विरुद्धम् अन्वेषणस्य अनुमतिः प्रदत्ता तथा च सम्पूर्णा प्रक्रिया शीघ्रतया कृता। अतः तस्य विरुद्धां दण्डात्मककार्यवाहीं तथा भ्रष्टाचारनिरोधकविभागस्य कार्यवाहीं स्थगयितुम् आदेशः दीयताम् इति सः प्रार्थितवान्। उच्चन्यायालये याचिकां प्रस्तुतस्य अनन्तरदिने एव भ्रष्टाचारनिरोधकविभागेन अस्मिन् प्रकरणे शिखर अग्रवालसहितानाम् अन्येषां विरुद्धं प्रथमसूचनाप्रतिवेदनं पञ्जीकृतम् आसीत्।
---------------
Hindusthan Samachar / Dheeraj Maithani