Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 28 नवंबरमासः (हि.स.)।
भारतीयजनतापक्षस्य वरिष्ठनेता रविशङ्करप्रसादः काङ्ग्रेसनेता राहुलगान्धिनं प्रति तीव्रम् आक्षेपं कृतवान्। सः अवदत् यत् राहुलगान्धिनः प्रधानमन्त्री भवितुम् एतावती शीघ्रता अस्ति यत् सः पर्याप्तां सूचनां विना एव सर्वकारस्योपरि आरोपान् कर्तुमपि न सङ्कोचते। सः व्यङ्ग्यपूर्वकम् अवदत् यत् राहुलगान्धिना कस्मिन्नपि विषये वक्तुं पूर्वं सम्यक् सूचना सङ्ग्रहीतव्या। न केवलम्, अपितु तस्मै परामर्शं यच्छन्तः जनाः अपि स्वीयं पूर्वाध्ययनं सम्यक् कुर्युः।
शनिवासरे भाजपाकेन्द्रीयकार्यालये आयोजितायां पत्रकारगोष्ठ्यां लोकसभायां सांसदानां सङ्ख्यां ८५० पर्यन्तं वर्धयितुं सम्बन्धिनि विषये राहुलगान्धिनः वक्तव्यस्य प्रत्युत्तरं यच्छन् रविशङ्करप्रसादः अवदत् यत् राहुलगान्धिः एतत् देशस्य राजनैतिकभूगोलस्य विखण्डनस्य तथा निरङ्कुशशासनस्य स्थापनायाः प्रयासरूपेण वर्णयति। किन्तु वास्तविकता एषा अस्ति यत् काङ्ग्रेसशासनकाले अपि त्रिवारं परिसीमनं जातम् आसीत्। सः प्रश्नम् अकरोत् यत् यदा काङ्ग्रेसशासनकाले परिसीमनं जातम्, तदा किं देशे निरङ्कुशशासनम् आगतम् आसीत्? आपत्कालस्य उल्लेखं कुर्वन् सः अवदत् यत् देशे निरङ्कुशशासनस्य स्थितिः तदा उत्पन्ना, यदा तत्कालीनप्रधानमन्त्री इन्दिरागान्धी इलाहाबादोच्चन्यायालयस्य निर्णयानन्तरम् आपत्कालम् आरोपितवती।
रविशङ्करप्रसादः सांसदानां सङ्ख्यावर्धनस्य विषये ब्रिटेनदेशस्य उदाहरणमपि प्रस्तुतवान्। सः अवदत् यत् ब्रिटेनदेशस्य जनसङ्ख्या प्रायः ५.८८ कोटिः अस्ति, तत्र च हाउस ऑफ कॉमन्स इत्याख्यायां प्रतिनिधिसभायां ६५० सांसदाः सन्ति। अपरपक्षे भारतस्य जनसङ्ख्या १४० कोटितः अधिका अस्ति। एतादृशे सति भारते सांसदानां सङ्ख्यावर्धनस्य विषये चर्चा करणं कथम् अनुचितं भवितुम् अर्हति? सः अवदत् यत् राहुलगान्धिना अस्मिन् विषये अनावश्यकभ्रमस्य प्रसारणं विहाय तथ्यानि अवगन्तव्यानि।
एसआईआर अर्थात् मतदातृसूच्याः विशेषगहनपुनरीक्षणस्य विषये राहुलगान्धिनः दावान् अपि सः प्रश्नाङ्कितवान्। राहुलगान्धिना प्रायः १३ कोटिमतदातॄणां नामानि विलोपितानि इति उक्ते सति रविशङ्करप्रसादः अवदत् यत् एतेषु नामसु मृतमतदातारः, अन्यत्र स्थानान्तरिताः जनाः, द्विरुक्तनामानि तथा अनुपस्थितमतदातारः च अन्तर्भवन्ति। तस्य कथनानुसारम् एतेषु प्रायः २.८ कोटिः मृतमतदातारः, ६.३ कोटिः स्थानान्तरिताः, १ कोटिः द्विरुक्तनामानि तथा ३ कोटिः अनुपस्थितमतदातारः सन्ति। अतः सर्वाणि नामानि मिथ्या सन्ति इति वक्तुं समुचितं नास्ति।
निर्वाचनायोगं प्रति राहुलगान्धिनः वक्तव्यस्य विषये अपि सः प्रश्नान् उत्थापितवान्। रविशङ्करप्रसादः अवदत् यत् राहुलगान्धिना एतदपि न ज्ञायते यत् २०२४ तमे वर्षे मुख्यनिर्वाचनायुक्तः कः आसीत्। सः आरोपितवान् यत् राहुलगान्धिः तथ्यानां परीक्षणं विना निरन्तरम् एकप्रकारकान् आरोपान् करोति। तस्य मते राहुलगान्धिनः वक्तव्येषु एकस्य निराशनेतुः राजनीतेः प्रतिबिम्बं दृश्यते।
महिलासशक्तीकरणस्य विषये अपि रविशङ्करप्रसादः काङ्ग्रेसपक्षस्य आलोचनां कृतवान्। सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी महिलाः सर्वेषु क्षेत्रेषु अग्रे नेतुं बहूनि पदानि स्वीकृतवान्। ‘ड्रोन दीदी’ योजनया महिलाः नवीनप्रौद्योगिक्या सह सम्बद्धाः क्रियन्ते। चन्द्रयान-मङ्गलयानादिषु अन्तरिक्षाभियानेषु महिला वैज्ञानिकाः महत्त्वपूर्णां भूमिकां निर्वहन्ति। एतदतिरिक्तं सेनायां महिलानाम् अवसरप्रदानं, तासां कृते स्थायिनियुक्तेः व्यवस्था तथा महिलानां नाम्ना भूमिक्रयविक्रयसमये पञ्जीकरणस्य प्रोत्साहनम् इत्यादयः उपायाः अपि कृताः।
सः अवदत् यत् ग्रामपञ्चायततः आरभ्य जिलापञ्चायतपर्यन्तं महिलाभ्यः आरक्षणं प्रदाय तासां राजनैतिकसहभागितायाः वर्धनाय प्रयासः कृतः। अधुना लोकसभायां राज्यविधानसभासु च महिलानां सहभागितां सुदृढां कर्तुं आरक्षणस्य उपक्रमः क्रियते। अस्मिन् दिशि प्रस्तूयमानं विधेयकं महिला-सशक्तीकरणस्य दिशि महत्त्वपूर्णः प्रयासः इति वर्णयन् सः अवदत् यत् सर्वकारः आशास्ति यत् अन्ये राजनैतिकदलानि अपि अस्य समर्थनं करिष्यन्ति।
रविशङ्करप्रसादः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी महिलाः केवलं योजनानां लाभप्राप्तिपर्यन्तं सीमिताः स्थापयितुम् इच्छति न, अपितु देशस्य निर्णयप्रक्रियायामपि तासां सशक्तसहभागितां सुनिश्चितां कर्तुम् इच्छति। राहुलगान्धिनः आरोपान् निराकुर्वन् सः अवदत् यत् सर्वकारः महिला-सशक्तीकरणाय लोकतान्त्रिकव्यवस्थायाः सुदृढीकरणाय च कार्यं कुर्वन् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani