समाजवादीपक्षस्य कांग्रेसदलस्य च नेतृत्वं प्रभुत्वं च प्राप्तुं स्पर्धा विद्यते इति सुधांशुत्रिवेदी महोदयस्य कटाक्षः।
कानपुरम्, 28 नवंबरमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियप्रवक्ता तथा राज्यसभासदस्यः डॉ. सुधांशु त्रिवेदी समाजवादीपक्षं भारतीयराष्ट्रीयकाङ्ग्रेसं च लक्ष्यीकृत्य अवदत् यत् उभयोः दलयोः गठबन्धनराजनीतौ परस्परं मतभेदाः, नेतृत्वप्रतिस्पर्धा च स्पष्टतय
सुधांशु त्रिवेदी (फाइल फोटो)


कानपुरम्, 28 नवंबरमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियप्रवक्ता तथा राज्यसभासदस्यः डॉ. सुधांशु त्रिवेदी समाजवादीपक्षं भारतीयराष्ट्रीयकाङ्ग्रेसं च लक्ष्यीकृत्य अवदत् यत् उभयोः दलयोः गठबन्धनराजनीतौ परस्परं मतभेदाः, नेतृत्वप्रतिस्पर्धा च स्पष्टतया दृश्यन्ते।

शनिवासरे कानपुरनगरे पत्रकारैः सह वार्तालापप्रसङ्गे डॉ. त्रिवेदी समाजवादीपक्षस्य काङ्ग्रेसदलस्य च मध्ये गठबन्धनस्य सम्भावनां प्रति व्यङ्ग्यं कुर्वन् अवदत् यत् उभयोः दलयोः नेतारः यथा परस्परं आलिङ्गनं कुर्वन्तः दृश्यन्ते, तेन गठबन्धनस्य गाम्भीर्यं प्रति प्रश्नाः उत्पद्यन्ते। सः अवदत् यत् उभौ नेतारौ दश निमेषान् अपि सह उपविश्य परस्परं परिचयं कर्तुं न समर्थौ अभविष्यताम्, आसनविभाजनस्य चर्चा तु दूरमेव। आलिङ्गनसमये अपि परस्परं अधिकाधिकारं प्राप्तुं स्पर्धा दृश्यते।

भाजपाप्रवक्त्ता समाजवादीपक्षस्य पीडीए-राजनीतिमपि लक्ष्यीकृत्य अवदत् यत् पीडीए इत्यस्य परिभाषा परिस्थित्यानुसारं परिवर्तते, किन्तु भारतीयजनतापक्षस्य राजनीतेः आधारः राष्ट्रहितमेव अस्ति।

प्रदेशे मुख्यमन्त्रिपदं प्रति भारतीयजनतापक्षे कश्चित् विवादः अस्ति इति सम्भावनाः निराकुर्वन् सः अवदत् यत् भाजपादले मुख्यमन्त्रिपदस्य अभ्यर्थी स्पष्टः अस्ति, परन्तु विपक्षीदलेषु नेतृत्वं परस्परं प्रभुत्वं च प्रति संघर्षः निरन्तरं वर्तते। काङ्ग्रेसदले अपि विभिन्नगणानां मध्ये मतभेदाः समये समये प्रकाशं गच्छन्ति।

संसदः विशेषसत्रस्य महिलासंरक्षणविषयस्य च सन्दर्भे डॉ. त्रिवेदी अवदत् यत् संसदः एकतृतीयांशे महिलानां प्रतिनिधित्वं सुनिश्चितं कर्तुं सर्वकारस्य सङ्कल्पः प्राथमिकतायां वर्तते। परिसीमनस्य उद्देश्यम् परिवर्तमानपरिस्थित्यानुसारं संसदः आधुनिकीकरणमेव अस्ति।

विपक्षेण राज्यानां प्रतिनिधित्वं प्रति प्रदर्शितानाम् आशङ्कानां विषये सः अवदत् यत् प्रस्तावितव्यवस्थायां राज्यानां मध्ये प्रतिनिधित्वस्य अनुपातः समानः स्थापयितुं विचारः अस्ति। उदाहरणं दत्त्वा सः अवदत् यत् यदि उत्तरप्रदेशस्य लोकसभासनानां सङ्ख्यायां पञ्चाशत् प्रतिशतं वृद्धिः भवति, तर्हि तमिलनाडुराज्यस्य आसनानाम् अपि तस्मिन्नेव अनुपाते वृद्धिः भविष्यति।

उत्तरप्रदेशे औद्योगिकक्षेत्रे रक्षाक्षेत्रे च अभूतपूर्वपरिवर्तनानां उल्लेखं कुर्वन् त्रिवेदी अवदत् यत् कदाचित् उत्तरप्रदेशस्य परिचयः कट्टैः भवति स्म, किन्तु अधुना लखनऊस्थे रक्षाप्रतिष्ठानमार्गे ब्रह्मोसमिसाइलास्त्रस्य निर्माणं भवति तथा च तस्य निर्यातः अपि क्रियते। भाजपासर्वकारेण युवभ्यः रोजगारस्य विकासस्य च अवसराः वर्धिताः इति सः दावान् अकरोत्। विपक्षस्य समीपे न स्पष्टं नेतृत्वम् अस्ति, न च काचित् सामूहिकी दिशा। आगामी निर्वाचनकाले जनाः भारतीयजनतापक्षाय निर्णायकं समर्थनं प्रदास्यन्ति इति सः विश्वासं प्रकटितवान्।

--------------

Hindusthan Samachar / Dheeraj Maithani