स्वदेशीयचिकित्सोपकरणक्षेत्रे भविष्यति क्रान्तिः, राजकीयचिकित्साविज्ञानसंस्थानस्य चिकित्सकाः भविष्यन्ति उद्यमिनः
अखिलभारतीयायुर्-विज्ञानसंस्थानस्य अनन्तरं उत्तरप्रदेशे प्रथमवारं राजकीयचिकित्साविज्ञानसंस्थानेन स्वीकृता राष्ट्रिय-नवाचार-उद्यमारम्भनीतिः - उत्तरप्रदेशं चिकित्सकीय-नवोद्यमानां केन्द्रं करिष्यति योगिसर्वकारः, चिकित्सानवाचाराय महती सज्जता - अध्या
मुख्यमंत्री योगी आदित्यनाथ


- अखिलभारतीयायुर्-विज्ञानसंस्थानस्य अनन्तरं उत्तरप्रदेशे प्रथमवारं राजकीयचिकित्साविज्ञानसंस्थानेन स्वीकृता राष्ट्रिय-नवाचार-उद्यमारम्भनीतिः

- उत्तरप्रदेशं चिकित्सकीय-नवोद्यमानां केन्द्रं करिष्यति योगिसर्वकारः, चिकित्सानवाचाराय महती सज्जता

- अध्यापकानां विद्यार्थिनां च कृते राष्ट्रिय-नवाचार-उद्यमारम्भनीतिः-२०१९ इत्यस्याः शासिनिपरिषदा स्वीकृतिः

- प्रदेशस्य प्रथमं सर्वकारीयचिकित्सासंस्थानं जातं जिम्स, यत्र चिकित्साशिक्षया सह अनुसन्धानं नवाचारश्च भविष्यतः

लखनऊ, २७ नवम्बरमासः (हि.स.)। मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशं चिकित्साशिक्षायाः, अनुसन्धानस्य, प्रौद्योगिकीनवाचारस्य च प्रमुखकेन्द्रं निर्मातुं दिशि पुनः एकं महत्त्वपूर्णं पदं वर्धितम् अस्ति। योगिसर्वकारस्य कार्यकाले राजकीयचिकित्साविज्ञानसंस्थानस्य चिकित्सकाः इदानीं चिकित्सोपचारं चिकित्साशिक्षां च कर्तुं सह स्वदेशीयप्रौद्योगिक्याः स्वास्थ्यसेवासम्बद्धानां नवोद्यमानां च विकासे अपि अग्रे गन्तुं शक्ष्यन्ति। उत्तरप्रदेशे प्रथमवारम् एतस्याः प्रक्रियायाः आरम्भं कुर्वता ग्रेटरनोएडास्थितेन राजकीयचिकित्साविज्ञानसंस्थानेन अध्यापकसदस्यानां विद्यार्थिनां च कृते भारतसर्वकारस्य राष्ट्रिय-नवाचार-उद्यमारम्भनीतिः-२०१९ स्वीकरणस्य निर्णयः कृतः अस्ति।

अनेन प्रयत्नेन राजकीयचिकित्साविज्ञानसंस्थानं राष्ट्रिय-नवाचार-उद्यमारम्भनीतिं स्वीकर्तुं दिशि अग्रे गच्छत् प्रदेशस्य प्रथमं सर्वकारीयचिकित्सासंस्थानं जातम् अस्ति। विशेषता तु एषा अस्ति यत् अखिलभारतीयायुविज्ञानसंस्थानेन नवदिल्लीतः अध्यापक-उद्यमशीलतानीतिः प्रस्तुत्याः प्रायः एकसप्ताहानन्तरम् अयं निर्णयः आगतः। योगिसर्वकारस्य कार्यकाले चिकित्साशिक्षां नवाचारस्य उद्यमशीलतयाश्च सह संयोजयितुं कृतः अयं प्रयत्नः प्रदेशस्य स्वास्थ्यसेवाक्षेत्रे नवीनसम्भावनानां द्वाराणि उद्घाटयिष्यति।

चिकित्साविद्यार्थिभ्यः चिकित्सकेभ्यश्च उद्यमारम्भस्य अवसरः प्राप्स्यते

राष्ट्रिय-नवाचार-उद्यमारम्भनीतेः उद्देश्यं चिकित्साविद्यार्थिभ्यः, अध्यापकसदस्येभ्यः, चिकित्सकेभ्यः, अनुसन्धानकर्तृभ्यश्च स्वकीयविचारान्, अनुसन्धानं चिकित्सानुभवं च प्रौद्योगिकीनवाचारेषु उद्यमारम्भेषु च परिणमयितुं संस्थागतावसरान् प्रदातुम् अस्ति। अस्याः माध्यमेन अनुसन्धानस्य व्यावसायिकीकरणाय, बौद्धिकसम्पत्त्यधिकाराणां संरक्षणाय, प्रौद्योगिक्याधारितोद्यमशीलतायै, स्वदेशीयचिकित्सोपकरणानां विकासाय च प्रोत्साहनं प्राप्स्यते।

अस्याः योजनायाः माध्यमेन चिकित्सकाः केवलं चिकित्साप्रौद्योगिक्याः उपयोक्तारः न भूत्वा तस्याः कल्पनायां, प्रारूपनिर्माणे, विकासे, चिकित्सकीयसत्यापनप्रक्रियायां च सक्रियभागिनः भवितुम् अवसरं प्राप्स्यन्ति। चिकित्सालयेषु उपचारकाले सम्मुखीभूतानां समस्याणां परिचयं कृत्वा तासां समाधानाय चिकित्सकैः सह अभियन्तॄन्, वैज्ञानिकान्, उद्यमिनश्च संयोजयितुं विशेषं बलं प्रदास्यते। अनेन भारतस्य स्वास्थ्यसम्बद्धानाम् आवश्यकतानाम् अनुरूपाणि स्वदेशीयचिकित्सोपकरणानि स्वास्थ्यसेवाप्रौद्योगिकयश्च विकसितुं मार्गः सुदृढः भविष्यति।

योगिसर्वकारस्य कार्यकाले विकसितं भवति चिकित्सानवाचारस्य परिवेशतन्त्रम्

प्रदेशे चिकित्साशिक्षां स्वास्थ्यसेवाश्च आधुनिकप्रौद्योगिक्या सह संयोजयितुं क्रियमाणानां प्रयत्नानां मध्ये राजकीयचिकित्साविज्ञानसंस्थानं पूर्वमेव चिकित्सानवाचारस्य सुदृढं परिवेशतन्त्रं विकसितुं प्रयत्नशीलम् अस्ति। अस्मिन् चिकित्सानवाचारकेन्द्रम्, विज्ञानप्रौद्योगिकीविभागेन समर्थिता आईटीबीआई इत्यस्य नवोद्यमानां पोषणसम्बद्धा योजना, भारतसर्वकारस्य जैवप्रौद्योगिकीविभागस्य अन्तर्गतं बीआईआरएसी-बायोनेस्ट्, एसटीपीआई-मेडटेक-उत्कृष्टताकेन्द्रस्य शाखाकेन्द्रम् तथा उत्तरप्रदेशस्य नवोद्यममिशन इत्यस्य अन्तर्गतं चिकित्सकीय-नवोद्यमपोषणकेन्द्रम् इत्यादीनि समाविष्टानि सन्ति।

राष्ट्रिय-नवाचार-उद्यमारम्भनीतेः स्वीकरणेन एतेषां प्रयत्नानां संस्थागतं सुदृढीकरणं भविष्यति तथा च चिकित्साक्षेत्रे अनुसन्धानस्य उद्यमशीलतायाश्च गतिविधीनां विस्तारः भविष्यति। योगिसर्वकारस्य प्राथमिकतानाम् अनुरूपम् एतादृशः प्रयत्नः प्रदेशे चिकित्साक्षेत्रे आत्मनिर्भरत्वस्य, स्वदेशीयप्रौद्योगिक्याः विकासस्य, नवाचाराधारितानाम् उद्यमानां प्रोत्साहनस्य च दिशि महत्त्वपूर्णः अस्ति। अनेन उत्तरप्रदेशस्य चिकित्सासंस्थानानां राष्ट्रियस्तरे नवीनपरिचयः प्राप्तुं सम्भावनाः सुदृढाः भविष्यन्ति।

चिकित्सासंस्थानानि नवाचारस्य केन्द्राणि अपि भवेयुः : ब्रिगेडियर डॉ. राकेशगुप्तः

राजकीयचिकित्साविज्ञानसंस्थानस्य निदेशकः ब्रिगेडियर डॉ. राकेशगुप्तः अवदत् यत् शासिनिपरिषदा राष्ट्रिय-नवाचार-उद्यमारम्भनीतेः-२०१९ इत्यस्याः स्वीकरणाय प्रदत्ता स्वीकृतिः चिकित्साशिक्षायां स्वास्थ्यसेवासु च नवाचारं प्रोत्साहयितुं दूरदर्शिनः निर्णयः अस्ति। चिकित्सासंस्थानानां भूमिका केवलं चिकित्सकनिर्माणपर्यन्तं सीमिता न भवेत्, अपितु तानि एतादृशानां प्रौद्योगिकीनां नवाचाराणां च विकासकेन्द्राणि अपि भवेयुः, ये स्वास्थ्यसेवानां वास्तविकसमस्यानां समाधानं कर्तुं शक्नुयुः। एषा नीतिः विद्यार्थिनः, अध्यापकान्, अनुसन्धानकर्तॄंश्च स्वकीयविचारान् व्यावहारिकसमाधानेषु परिणमयितुं प्रोत्साहयिष्यति। राजकीयचिकित्साविज्ञानसंस्थानं सुदृढं सहयोगात्मकं च नवाचारपरिवेशतन्त्रं विकसितुं प्रतिबद्धम् अस्ति।

चिकित्सकाः चिकित्साप्रौद्योगिक्याः विकासे भागिनः भविष्यन्ति : डॉ. राहुलसिंहः

राजकीयचिकित्साविज्ञानसंस्थानस्य चिकित्सानवाचारकेन्द्रस्य मुख्यकार्यपालकाधिकारी डॉ. राहुलसिंहः अस्य निर्णयस्य चिकित्सानवाचारस्य स्वास्थ्यसेवासम्बद्धोद्यमशीलतायाश्च क्षेत्रे ऐतिहासिकः अवसरः इति वर्णितवान्। सः अवदत् यत् चिकित्साविद्यार्थिभ्यः, चिकित्सकेभ्यः, अध्यापकवर्गेभ्यश्च एतादृशाः अवसराः प्राप्येरन्, येन ते स्वकीयम् चिकित्सानुभवं, अनुसन्धानं, विचारांश्च उद्यमेषु स्वदेशीयचिकित्साप्रौद्योगिक्यां च परिणमयितुं शक्नुयुः।

राजकीयचिकित्साविज्ञानसंस्थानस्य दृष्टिः चिकित्सकान्, अभियन्तॄन्, वैज्ञानिकान्, अनुसन्धानकर्तॄन्, उद्यमिनश्च एकस्मिन् मञ्चे संयोज्य भारतस्य स्वास्थ्यसम्बद्धानाम् आवश्यकतानाम् अनुरूपाणि चिकित्सोपकरणानि स्वास्थ्यसेवाप्रौद्योगिकयश्च विकसितुम् अस्ति। नवीननीतिः संस्थाने पूर्वमेव स्थापिताय चिकित्सानवाचारस्य नवोद्यमपोषणस्य च व्यवस्थायै नवीनं संस्थागतं सामर्थ्यं प्रदास्यति।

---------------

Hindusthan Samachar / Divya Ranjan