भगन्दरस्य प्रत्येकं रोगिणः कृते लेसरचिकित्सा आवश्यकी नास्ति, उचितरोगिणः चयनम् एव महत्त्वपूर्णम् - डॉ. सन्तोषसिंहः
यूपीएएसआईकॉन-२०२६ मध्ये विशेषज्ञानां परिचर्चायां प्रयागराजस्य शल्यचिकित्सकेन उक्तम्, मलनियन्त्रणकारिण्यः स्फिङ्क्टर-पेशीनां संरक्षणे दत्तं बलम्। प्रयागराजम्, २८ नवम्बरमासः (हि.स.)। भगन्दररोगेण पीडितस्य प्रत्येकं रोगिणः कृते लेसरचिकित्सा उपयुक्ता न
मोतीलाल नेहरू मेडिकल कॉलेज के सह आचार्य डॉ संतोष सिंह का छाया चित्र


यूपीएएसआईकॉन-२०२६ मध्ये विशेषज्ञानां परिचर्चायां प्रयागराजस्य शल्यचिकित्सकेन उक्तम्, मलनियन्त्रणकारिण्यः स्फिङ्क्टर-पेशीनां संरक्षणे दत्तं बलम्।

प्रयागराजम्, २८ नवम्बरमासः (हि.स.)। भगन्दररोगेण पीडितस्य प्रत्येकं रोगिणः कृते लेसरचिकित्सा उपयुक्ता न भवति। अस्याः सफलतायाः आधारः रोगिणः अवस्था, भगन्दरस्य संरचना तथा संक्रमणस्य स्थितिः च भवति। उचितरोगिणः चयनं तथा मलनियन्त्रणकारिण्याः स्फिङ्क्टर-पेशीनां संरक्षणं चिकित्सायां सर्वाधिकं महत्त्वपूर्णम् अस्ति। इति प्रयागराजस्य शल्यचिकित्सकेन उत्तरप्रदेशस्य भारतीयशल्यचिकित्सकसङ्घस्य संयुक्तसचिवेन च डॉ. सन्तोषसिंहेन उक्तम्। सः गोरखपुरस्थिते अखिलभारतीयायुविज्ञानसंस्थाने आयोजिते भारतीयशल्यचिकित्सकसङ्घस्य उत्तरप्रदेश-उत्तराखण्डयोः प्रान्तीयशाखायाः एकपञ्चाशत्तमे वार्षिकसम्मेलने ‘यूपीएएसआईकॉन-२०२६’ इत्यस्मिन् विशेषज्ञपरिचर्चायां भागम् अगृह्णात्।

नवम्बरमासस्य २७ दिनाङ्कात् २९ दिनाङ्कपर्यन्तम् आयोजिते त्रिदिवसीये सम्मेलने ‘गुदरोगचिकित्सायां लेसरप्रौद्योगिकी : उपयोगिनी पद्धतिः अथवा आवश्यकतायाः अधिकः प्रयोगः’ इति विषये चर्चा अभवत्। अस्मिन् अर्शोभगन्दरयोः चिकित्सायां लेसरप्रौद्योगिक्याः उपयोगिता, सीमाः, व्ययः तथा दीर्घकालीनपरिणामाः इत्यादिषु विषयेषु विशेषज्ञैः स्वविचाराः प्रस्तुताः।

डॉ. सन्तोषसिंहेन उच्चस्तरीयस्य ट्रान्स-स्फिङ्क्टरिक-भगन्दरस्य चिकित्सायां भगन्दर-लेसर-समापनप्रविधेः भूमिकायाः व्याख्या कृता। तेन कथितं यत् सक्रियसंक्रमणस्य, विद्रधेर्, बहुशाखायुक्तस्य जटिलभगन्दरस्य तथा विशालस्य आन्तरिकच्छिद्रस्य स्थितौ लेसरचिकित्सायाः सफलता प्रभाविता भवितुम् अर्हति। एतेषु रोगिषु प्रथमं चुम्बकीय-अनुनाद-प्रतिबिम्बनपरीक्षया भगन्दरस्य स्थितिं ज्ञातुं संक्रमणं च नियन्त्रयितुं आवश्यकम् अस्ति। ततः एव उचितचिकित्सायाः निर्णयः करणीयः।

तेन उक्तं यत् लेसरप्रौद्योगिक्याः सर्वाधिकं लाभः मलनियन्त्रणकारिण्याः स्फिङ्क्टर-पेशीनां संरक्षणम् अस्ति। अनेन शल्यक्रियायाः अनन्तरं पीडा व्रणश्च तुलनात्मकरूपेण न्यूनौ भवितुम् अर्हतः। तथापि सरलस्य निम्नस्तरीयस्य च भगन्दरस्य चिकित्सायां पारम्परिकशल्यक्रिया तथा प्रारम्भिकावस्थायाम् अर्शसः चिकित्सायां रबरबन्धनपद्धतिः इत्यादयः न्यूनव्यययुक्ताः प्रमाणिताः च विधयः अधिकम् उपयोगिन्यः भवितुम् अर्हन्ति।

डॉ. सिंहः अवदत् यत् लेसरप्रौद्योगिकी निश्चयेन आधुनिकपद्धतिः अस्ति, किन्तु तस्याः प्रयोगः सम्यक् विचार्य एव करणीयः। चिकित्सायाः सफलता, व्ययः तथा रोगस्य पुनरावृत्तेः सम्भावना इत्यादीनां विषयाणां पूर्णा सूचना रोगिणे पूर्वमेव दातव्या।

परिचर्चायाः सञ्चालनं वरिष्ठशल्यचिकित्सकेन प्रो. विनोदजैनेन कृतम्। सम्मेलने देशस्य विभिन्नभागेभ्यः आगताः शल्यचिकित्सकाः आधुनिकशल्यचिकित्सा, दूरबीनपद्धत्या शल्यक्रिया, बृहच्छेदनं विना क्रियमाणाः चिकित्साप्रविधयः, चिकित्सानुसन्धाने कृत्रिमबुद्धिमत्ता तथा रोगिसुरक्षासम्बद्धेषु विषयेषु स्वानुभवान् परस्परं संविभजन्ति।

Hindusthan Samachar / Divya Ranjan