ये जनाः ह्यः यावत् चौराः आसन्, अद्य आरक्षिणः अधिकारी भवितुं प्रपञ्चं कुर्वन्ति - योगी आदित्यनाथः
वाराणस्यां निजी-दूरदर्शनवाहिन्याः कार्यक्रमे सम्मिलितः मुख्यमन्त्री, विविधेषु विषयेषु विपक्षं प्रति दर्शितवान् वास्तविकताम् वाराणसी, नवम्बरमासः २८ दिनाङ्कः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे धर्मनगरीं काशीम् आगत्य विपक
सीएम योगी कालभैरव मंदिर जाते हुए


- वाराणस्यां निजी-दूरदर्शनवाहिन्याः कार्यक्रमे सम्मिलितः मुख्यमन्त्री, विविधेषु विषयेषु विपक्षं प्रति दर्शितवान् वास्तविकताम्

वाराणसी, नवम्बरमासः २८ दिनाङ्कः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे धर्मनगरीं काशीम् आगत्य विपक्षस्य उपरि तीव्रं प्रहारं कृतवान्। एकस्याः निजी दूरदर्शनवाहिन्याः कार्यक्रमे सः अवदत् यत् संविधानस्य आरक्षणस्य च विषये अपवादान् प्रसारयन्तः तथा निर्वाचनानन्तरं ‘खटाखट-खटाखट’ इति वचनं ददत् जनाः अधुना उत्तरप्रदेशस्य जनतया ‘सफाचट-सफाचट’ कर्तुं सज्जाः सन्ति। यः ह्यः यावत् चौरः आसीत्, सः अद्य आरक्षिपदाधिकारी भवितुं प्रपञ्चं कुर्यात् चेत्, जनता तं न स्वीकरिष्यति। काङ्ग्रेस-समाजवादीपक्षयोः मध्ये जयपराजयस्य क्रीडा प्रचलति। सम्पूर्णं परिवारं विघटनस्य मार्गे अस्ति।

एतस्मादेव भयात् शीघ्रतया अभ्यर्थिनां नामानि घोषितानि क्रियन्ते। समाजवादीपक्षस्य घोषणापत्रं मिथ्यावचनानां सङ्ग्रहः इति वर्णयन् सः अवदत् यत् येषां सर्वकारस्य वार्षिकं वित्तविवरणं त्रिलक्षकोटिरूप्यकाणि आसीत्, ते चतुर्लक्षकोटिरूप्यकाणां घोषणाः कुर्वन्ति। एतदर्थं धनं कुत्रतः आनेष्यन्ति?

मुख्यमन्त्री अवदत् यत् प्रदेशस्य अर्थव्यवस्था त्रिगुणिता अभवत्। उत्तरप्रदेशाय पञ्चाशल्लक्षकोटिरूप्यकाणां निवेशप्रस्तावाः प्राप्ताः सन्ति। समाजवादीपक्षस्य बहुजनसमाजपक्षस्य च सप्तसर्वकाराणां कार्यकालस्य तुलनायाम् अस्माकं सर्वकारेण द्विगुणात् अधिकानि रोजगारावसराणि प्रदत्तानि। वयं युवभ्यः बेरोजगारीभत्तां दत्त्वा तान् बेरोजगारान् कर्तुं न इच्छामः, अपितु रोजगारस्य प्रत्याभूतिं दातुम् इच्छामः। केवलं गोरखपुरम् एव न, सम्पूर्णः उत्तरप्रदेशः मम गृहम् अस्ति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे वयं केवलं राममन्दिरस्य निर्माणमेव न कृतवन्तः, अपितु रामराज्यस्य परिकल्पनाम् अपि साकारां कृत्वा प्रदर्शितवन्तः।

- अनेकासां स्वयंसवीसंस्थानां साहाय्येन अपवादाः प्रसारिताः

मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् निर्वाचनस्य स्वकीया रणनीतिः भवति। भारतविरोधिन्यः शक्तयः एकत्रिताः भूत्वा निर्वाचनं प्रभावयितुं प्रयत्नम् अकुर्वन्। अनेकासां स्वयंसवीसंस्थानां साहाय्येन संविधानम्, आरक्षणम् इत्यादीन् विविधविषयान् आधारीकृत्य जनानां मध्ये अपवादाः प्रसारिताः। समाजवादीपक्षस्य प्रमुखस्य अखिलेशयादवस्य राममन्दिरगमनस्य विषये मुख्यमन्त्री अवदत् यत् वयम् अपि इच्छामः यत् सः अस्माकं क्रीडाङ्गणे आगत्य क्रीडतु। द्वयोः नौकयोः एकस्मिन् समये आरोहणं सर्वदा नौकाचालकं निमज्जयति। वयम् इच्छामः यत् जनानां मध्ये गमनात् पूर्वमेव सः अस्माकं क्रीडाङ्गणे आगच्छेत्, अनेन तस्य पराजयं कर्तुं अधिका सहायता भविष्यति।

प्रथमवारं मतदानं कुर्वतां यूनां, जेन-जी तथा जेन-अल्फा इति नववंशयोः विषये मुख्यमन्त्री अवदत् यत् अस्य वंशस्य मातापितरः, पितामहाः, पितामह्यः, मातामहाः, मातामह्यः तथा परिवारस्य अन्ये वरिष्ठाः सदस्याः अराजकतायाः कालखण्डम् अनुभूतवन्तः। अतीतं विस्मृत्य उत्तमभविष्यस्य निर्माणं न कर्तुं शक्यते। मुख्यमन्त्री अवदत् यत् प्रायः षड्विंशतिकोटिजनसङ्ख्यायुक्ते उत्तरप्रदेशे देशस्य सर्वाधिकाः युवानः छात्राश्च सन्ति। तथापि अत्र जेन-जी, जेन-अल्फा, छात्राणां वा कृषकाणां वा किमपि आन्दोलनं न दृश्यते।

मुख्यमन्त्री अवदत् यत् २०१७ तमवर्षात् पूर्वम् उत्तरप्रदेशे केवलानि १२० नवोद्यमानि आसन्। अद्य प्रदेशे पञ्चविंशतिसहस्रात् अधिकानि नवोद्यमानि सन्ति। उत्तरप्रदेशे समाजवादीपक्षस्य बहुजनसमाजपक्षस्य च सप्तवारं सर्वकारः अभवत्। उभयोः सर्वकारयोः सम्मिलितेन यावन्ति रोजगारावसराणि प्रदत्तानि, ततोऽपि द्विगुणाधिकानि रोजगारावसराणि वयं विगतेषु सार्धनववर्षेषु प्रदत्तवन्तः। वयं स्वहस्तैः युवभ्यः नियुक्तिपत्राणि वितरितवन्तः तथा युवानां कृते रोजगारस्य अनेकान् अवसरान् सृजितवन्तः।

- उत्तरप्रदेशस्य औद्योगिकशक्तेः पुनरुत्थानम्

मुख्यमन्त्री अवदत् यत् स्वातन्त्र्यप्राप्तिसमये देशस्य अर्थव्यवस्थायाम् उत्तरप्रदेशस्य योगदानं चतुर्दशप्रतिशतं आसीत् तथा प्रदेशः सर्वाधिकसमृद्धेषु राज्येषु अन्यतमः आसीत्। २०१७ तमे वर्षे अस्माकं सर्वकारस्य निर्माणात् पूर्वं एतत् योगदानं न्यूनीभूय केवलं सप्तप्रतिशतं जातम् आसीत्। उत्तरप्रदेशः आर्थिकरूपेण दुर्बलराज्यानां श्रेण्यां स्थितः आसीत्। अस्माकं सर्वकारेण अस्याः औद्योगिकशक्तेः पुनरुत्थानं कृतम्। अद्य उत्तरप्रदेशे षण्णवतिलक्षाणि सूक्ष्मलघुमध्यमोद्योगाः सन्ति, येषां माध्यमेन सार्धत्रिकोटिजनानां प्रत्यक्षरोजगारः प्राप्तः अस्ति।

सः अवदत् यत् भूमिसङ्ग्रहः, उत्तमा सम्पर्कव्यवस्था, सुरक्षायुक्तं वातावरणं च निवेशकानां प्राथमिकतायां भवति। सर्वकारस्य निर्माणसमये प्रदेशस्य छविः, विधिव्यवस्था, नीतिगतिरोधः, सम्पर्कव्यवस्थायाः च अनेकाः समस्याः आसन्। अपराधस्य भ्रष्टाचारस्य च विरुद्धं शून्यसहिष्णुतायाः नीतिः स्वीकृता। मुख्यमन्त्री सूचितवान् यत् २०२३ तमे वर्षे आयोजिता वैश्विकनिवेशकसम्मेलनस्य समये सर्वेभ्यः पञ्चसप्ततिभ्यः जनपदेभ्यः निवेशप्रस्तावाः प्राप्ताः। नोएडा, यमुनाप्राधिकरणक्षेत्रम्, गाजियाबादम्, मेरठः, मुरादाबादः, बुलन्दशहरः, हापुडः च अद्यापि उत्तमस्य औद्योगिकपर्यावरणस्य कारणेन निवेशकानां प्राथमिकतायां सन्ति। केवलं गोरखपुरे एव पञ्चाशत्सहस्रकोटिरूप्यकाणाम् अधिकमूल्यकाः निवेशप्रस्तावाः प्राप्ताः, येषु प्रायः पञ्चत्रिंशत्सहस्रकोटिरूप्यकाणां प्रस्तावाः कार्यरूपेण परिणताः सन्ति।

- समाजवादीपक्षस्य चिन्तनं कट्टा-विस्फोटकयोः निर्माणपर्यन्तमेव सीमितम् आसीत्

मुख्यमन्त्री अवदत् यत् दशवर्षेभ्यः पूर्वं यस्मिन् प्रदेशे कट्टा विस्फोटकाः च निर्मीयन्ते स्म, अद्य तत्र विश्वस्य श्रेष्ठतमाः राइफल-अस्त्राणि ब्रह्मोस-सदृशाः प्रक्षेपास्त्राणि च निर्मीयन्ते। मुख्यमन्त्री अवदत् यत् भारतं बहुदलीयलोकतन्त्रे विश्वासं करोति। प्रत्येकस्य दलस्य निर्वाचनं कर्तुं गठबन्धनं निर्मातुं च अधिकारः अस्ति। ओवैसी भवन्तु अथवा तस्य गठबन्धनम्, काङ्ग्रेसः समाजवादीपक्षः वा, एते पृथक्-पृथक् निर्वाचनं कुर्वन्तु अथवा गठबन्धनेन सह, उत्तरप्रदेशस्य जनता एतेषां कार्यपद्धतिं चरित्रं च सम्यक् जानाति।

ओवैसी-महोदयाय मम विरुद्धं किमपि विषयं न प्राप्यते स्यात्। मम विरुद्धं भाषणेन मम मतदातारः तस्य पक्षे न गमिष्यन्ति, किन्तु तस्य मतानां विभाजनं कुर्वन् जनः तस्य कृते चिन्तायाः विषयः अस्ति। बिहारप्रदेशे समाजवादीपक्षः एकाम् अपि आसन्दिं न प्राप्तवान्, परन्तु ओवैसीपक्षेण पञ्च आसन्दयः प्राप्ताः आसन्। वयं ओवैसीपक्षस्य समर्थनं न कुर्मः। मया तस्य उत्तरप्रदेशे आगमनाय अभिनन्दनं कृतम्। वयं हैदराबादनगरं भाग्यलक्ष्मीपुरम् इति नाम्ना परिवर्त्य तस्मै उपहारम् अवश्यं प्रदास्यामः।

केन्द्रीयराजनीतौ गमनस्य सम्भावनानां विषये मुख्यमन्त्री अवदत् यत् अहं योगी अस्मि। मह्यं उत्तरप्रदेशस्य दायित्वं प्रदत्तम्। प्रधानमन्त्रिणः नरेन्द्रमोदिनः मार्गदर्शने प्रदेशस्य छविपरिवर्तने सफलतां प्राप्तवान् इति मम प्रसन्नतायाः विषयः अस्ति।

- अधुना दस्यूभिः न, चिकित्सामहाविद्यालयैः भवति उत्तरप्रदेशस्य परिचयः

मुख्यमन्त्री योगी अवदत् यत् अधुना उत्तरप्रदेशस्य परिचयः ‘एकः जनपदः, एकः माफिया’ इति न, अपितु ‘एकः जनपदः, एकः चिकित्सामहाविद्यालयः’, ‘एकः मण्डलः, एका राज्यविश्वविद्यालयः’, ‘एकः जनपदः, एका पाकशैली’ तथा ‘एकः जनपदः, एकम् उत्पादः’ इत्यादिभिः भवति। उत्तरप्रदेशे प्रथमवारं चिकित्साविश्वविद्यालयः, आयुषविश्वविद्यालयः, क्रीडाविश्वविद्यालयः च स्थापिताः सन्ति।

- प्रधानमन्त्रीमोदी नवीनभारतस्य शिल्पी, काशी तु तस्य हृदये निवसति

काश्याः परिवर्तमानस्य स्वरूपस्य विषये मुख्यमन्त्री अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारते प्रत्येकस्मिन् क्षेत्रे परिवर्तनम् अभवत्। वयं तं नवीनभारतस्य शिल्पी इति अनायासमेव न कथयामः। काशी प्रधानमन्त्रिणः मोदीमहोदयस्य अन्तःकरणे निवसति। तेन अविनाशिन्याः काश्याः कायाकल्पः कृतः। नमोघाटः विश्वस्य दीर्घतमः विशालतमः च घाटः भवितुं सह ‘एकः भारतः-श्रेष्ठः भारतः’ इत्यस्य आदर्शः अपि अस्ति। अत्र काशीतमिलसङ्गमस्य आयोजनम् अपि प्रचलति।

किं केनचित् कल्पितम् आसीत् यत् काशीविश्वनाथधाम एतावत् भव्यं भविष्यति, घट्टाः एतावन्तः स्वच्छाः भविष्यन्ति, मार्गाः एतावन्तः विस्तृताः भविष्यन्ति, अन्ताराष्ट्रियविमानपत्तनं रेलस्थानकं च एतादृशं भव्यं स्वरूपं प्राप्स्यतः? काशी अन्तर्देशीयजलमार्गस्य भागः भविष्यति, ज्ञानस्य प्राचीनस्थलीरूपेण स्वकीयां प्रतिष्ठां पुनः स्थापयिष्यति तथा नगरस्य रज्जुमार्गस्य प्रथमः आदर्शः भविष्यति। अद्य एतानि सर्वाणि परिवर्तनानि काश्यां द्रष्टुं शक्यन्ते।

Hindusthan Samachar / Divya Ranjan