Enter your Email Address to subscribe to our newsletters


हरिद्वारम्, 28 नवंबरमासः (हि.स.)।केन्द्रीयमहिलाबालविकासमन्त्रिणी अन्नपूर्णा देवी तथा कौशलविकासोद्यमिताराज्यमन्त्री जयन्त चौधरी च शनिवासरे हरिद्वारस्थे उत्तराखण्डसंस्कृतसंस्थाने संयुक्तरूपेण ‘नव्या २.०’ इत्यस्य शुभारम्भं कृतवन्तौ। ‘नव्या’ महिलाबालविकासमन्त्रालयस्य तथा कौशलविकासोद्यमितामन्त्रालयस्य संयुक्तोपक्रमः अस्ति। अस्य उद्देश्यं किशोरीणां युवतीनां च कृते व्यावसायिकप्रशिक्षणस्य अवसरान् विस्तारितुं वर्तते, येन ताः उदयमानान् वृत्तिविकल्पान् स्वीकर्तुं आर्थिकरूपेण आत्मनिर्भराः च भवितुं शक्नुयुः।
‘नव्या २.०’ इत्यस्य अन्तर्गतं २४ राज्येषु केन्द्रशासितप्रदेशेषु च स्थिताः १०० जनपदाः समावेशयिष्यन्ते। अस्मिन् आकाङ्क्षीषु दुर्गमक्षेत्रेषु च विशेषं ध्यानं दीयते। पात्रतायाः आयुःसीमा १६-१८ वर्षेभ्यः वर्धयित्वा १६-२५ वर्षाणि कृता अस्ति। अस्य अन्तर्गतं उद्योगानाम् आवश्यकतानुसारम् उदयमानेषु तथा अपारम्परिकेषु रोजगारक्षेत्रेषु प्रशिक्षणं प्रदास्यते। प्रशिक्षितयुवतीनां जीविकानां, प्रशिक्षुतायाः उद्यमितायाश्च अवसरैः सह संयोजनाय विशेषः आग्रहः भविष्यति।
कार्यक्रमस्य जनपदस्तरीयकार्यान्वयनाय एकरूपा मानकसञ्चालनप्रक्रिया निर्धारयिष्यते। ‘स्किल इण्डिया डिजिटल हब’ इत्यस्य माध्यमेन अभ्यर्थिनीभ्यः नामाङ्कनात् प्रमाणपत्रप्राप्तिपर्यन्तं सहकारिता प्रदाय तासां प्रशिक्षणप्रगतेः अपि निरीक्षणं करिष्यते।
अस्मिन् अवसरे केन्द्रीयमन्त्रिणी अन्नपूर्णा देवी अवदत् यत् महिलानां पूर्णसहभागितां विना विकसितभारतस्य २०४७ इत्यस्य सङ्कल्पः अपूर्णः एव भविष्यति। तया उक्तं यत् महिलाः केवलं विकासस्य लाभार्थिन्यः एव न, अपितु तस्य नेतृत्वकर्त्र्यः अपि भवेयुः।
तया उक्तं यत् सर्वकारः विविधयोजनानां माध्यमेन बालिकानां जीवनयात्रायाः प्रत्येकस्मिन् चरणे सहायतां कर्तुं प्रतिबद्धः अस्ति तथा ‘नव्या २.०’ इयं प्रतिबद्धताम् अग्रे नेष्यति। तया कथितं यत् जनभागीदारी इत्यस्य उद्देश्यं केवलं प्रशिक्षणसमूहेषु नामाङ्कनं सुनिश्चितं कर्तुम् एव नास्ति, अपितु प्रत्येकया बालिकया तस्याः परिवारेण च सह नामाङ्कनात् आजीविकापर्यन्तं निरन्तरसम्बन्धं स्थापयितुम् अस्ति। राज्यनोडलाधिकारिणः अस्य कार्यक्रमस्य कार्यान्वयनस्य नेतृत्वं करिष्यन्ति तथा एसआईडीएच पोर्टलस्य माध्यमेन प्रत्येकस्याः अभ्यर्थिन्याः प्रगतेः निरीक्षणं करिष्यते।
जयन्त चौधरी स्वस्य आभासीयसन्देशे अवदत् यत् कस्यापि कौशलविकासकार्यक्रमस्य सफलतायाः मूल्याङ्कनं प्रशिक्षणानन्तरं सृज्यमानैः अवसरैः क्रियते। ‘नव्या २.०’ वञ्चितेषु पिछडेषु च जनपदेषु निवसन्तीः युवतीः नूतनान् वृत्तिविकल्पान् अन्वेष्टुं, प्रशिक्षुतायाः माध्यमेन व्यावहारिकम् अनुभवं प्राप्तुं, स्वकीयम् उद्यमं स्थापयितुं च प्रोत्साहयिष्यति। भारतस्य कार्यबलमध्ये महिलानां सहभागितायाः वर्धनं विकसितभारतस्य २०४७ इत्यस्य लक्ष्यप्राप्तये आवश्यकम् अस्ति।
प्रायोगिकचरणे किशोरीभ्यः ड्रोननिर्माणे संयोजने च तकनीशियनरूपेण तथा सौरपीवीसंस्थापनसहायकरूपेण प्रशिक्षणं प्रदत्तम् आसीत्। विस्तारितोपक्रमस्य उद्देश्यं युवतीभ्यः उदयमानक्षेत्राणाम् आवश्यकतानुसारं कौशलं प्रदातुं ताः रोजगारावसरैः सह संयोजयितुं च अस्ति।
कार्यक्रमस्य समये उत्तराखण्डे ४७७ सक्षमाङ्गनवाडिकेन्द्राणां तथा पीएम-जनमन इत्यस्य अन्तर्गतानान्निर्मितानां पञ्च नूतनानाम् आङ्गनवाडिकेन्द्राणां लोकार्पणं कृतम्। एतदतिरिक्तं पीएमकेवीवाई ४.० इत्यस्य अन्तर्गतं प्रशिक्षिताः १० अभ्यर्थिनः सम्मानिताः।
---------------
Hindusthan Samachar / Dheeraj Maithani