Enter your Email Address to subscribe to our newsletters

देहरादूनम्, नवम्बरमासः २७ दिनाङ्कः (हि.स.)। उत्तराखण्डसर्वकारेण निराश्रितमहिलानां कल्याणाय ताभ्यः आर्थिकसम्बलं प्रदातुं च सञ्चाल्यमानायाः भरणपोषणानुदानयोजनायाः नाम परिवर्त्य ‘मुख्यमन्त्री एकलनारीसम्मानयोजना’ इति कृतम्। मुख्यमन्त्री पुष्करसिंहधामीमहोदयस्य नेतृत्वे राज्यसर्वकारेण एकलमहिलाभ्यः सम्मानपूर्णं परिचयं प्रदातुं तासां सामाजिकम् आर्थिकं च सशक्तीकरणं कर्तुं च एषः निर्णयः कृतः।
अस्मिन् विषये उत्तराखण्डशासनस्य सचिवः डॉ. श्रीधरबाबु अद्धाङ्की उत्तराखण्डस्य समाजकल्याणविभागस्य निदेशकं पत्रं सम्प्रेष्य योजनायाः नाम्नि संशोधनस्य सूचनां दत्तवान्।
पत्रानुसारं निराश्रितविधवाभरणपोषणानुदानयोजनायाः तथा परित्यक्तविवाहितमहिलानां निराश्रिताविवाहितमहिलानां च कृते सञ्चाल्यमानायाः भरणपोषणानुदानयोजनायाः नाम संशोध्य ‘मुख्यमन्त्री एकलनारीसम्मानयोजना’ इति कृतम्।
राज्यसर्वकारस्य मतम् अस्ति यत् योजनायाः नूतनं नाम एकलमहिलाभ्यः सम्मानपूर्णं सामाजिकपरिचयं प्रदास्यति। ताः प्रति सर्वकारस्य संवेदनशीलतां प्रतिबद्धतां च अपि प्रकाशयिष्यति। अस्य प्रयत्नस्य माध्यमेन निराश्रितमहिलानां सामाजिकस्य आर्थिकस्य च सशक्तीकरणस्य प्रोत्साहनाय प्रयासः कृतः।
Hindusthan Samachar / Divya Ranjan