Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 03 नवंबरमासः (हि.स.)। केन्द्रीययुवकार्यक्रीडाराज्यमन्त्री रक्षा निखिलखडसे मङ्गलवासरे नवदेहल्यां प्रचलितायां सप्तचत्वारिंशत्तमविश्वभुजमल्लयुद्धप्रतियोगितायां तथा अष्टाविंशतितमविश्वदिव्याङ्गभुजमल्लयुद्धप्रतियोगितायां २०२६ इत्यत्र भागं गृह्णतां क्रीडकानाम् उत्साहवर्धनं कृतवती। भारते प्रथमतया आयोज्यमाना एषा प्रतियोगिता नवम्बरमासस्य षष्ठदिनाङ्कपर्यन्तं प्रचलिष्यति। अस्याः प्रतियोगितायाः प्रारम्भः अक्टोबरमासस्य नवविंशतितमदिनाङ्के अभवत्। अस्यां षष्ट्यधिकदेशेभ्यः सप्तदशशताधिकाः क्रीडकाः, अधिकारिणः, समर्थकाश्च भागं गृह्णन्ति।
अस्याः प्रतियोगितायाः आयोजनं पीपल्स आर्मरेसलिङ्ग फेडरेशन ऑफ इण्डिया (पीएएफआई) इत्यनया संस्थया क्रियते। अस्याः नेतृत्वं पीएएफआई संस्थायाः अध्यक्षा तथा एशियाभुजमल्लयुद्धमहासङ्घस्य उपाध्यक्षा प्रीतिझङ्गियानी तथा प्रो पञ्जालीग इत्यस्य सहसंस्थापकः परवीनडबासः च कुर्वतः। एषः कार्यक्रमः विश्वभुजमल्लयुद्धमहासङ्घस्य सम्बद्धतया मार्गदर्शनेन च आयोजितः अस्ति।
आयोजनस्य समये मन्त्री खडसे विभिन्नान् प्रतिस्पर्धात्मकान् मुकाबलान् दृष्टवती, क्रीडकैः अधिकारिभिश्च सह संवादं कृतवती तथा भारतीयभुजमल्लैः, दिव्याङ्गभुजमल्लैः सह सर्वेषां भागग्राहिदेशानां प्रतिभागिभ्यः शुभकामनाः प्रदत्तवती।
अस्मिन्नवसरे क्रीडाराज्यमन्त्री उक्तवती, अस्माकं कृते एषः महान् अवसरः अस्ति यत् भारतं २०२६ तमे वर्षे सप्तचत्वारिंशत्तमविश्वभुजमल्लयुद्धप्रतियोगितायाः तथा अष्टाविंशतितमविश्वदिव्याङ्गभुजमल्लयुद्धप्रतियोगितायाः आयोजनं करोति। अत्र उपस्थितेभ्यः सर्वेभ्यः मम हार्दिक्यः शुभकामनाः। अहम् भारते अपि भुजमल्लयुद्धक्रीडायाः प्रवर्धनाय प्रयत्नं करोमि। एवं वयं सर्वे मिलित्वा निश्चयेन अस्माकं राष्ट्राय किञ्चित् उत्तमं कर्तुं शक्नुमः।
विश्वभुजमल्लयुद्धप्रतियोगितायां दिव्याङ्गभुजमल्लयुद्धप्रतियोगितायां च भारतं अद्यावधि समग्रतया अष्टपञ्चाशत् पदकानि प्राप्तवान् अस्ति। एतेषु नव स्वर्णपदकानि, एकोनविंशतिः रजतपदकानि, त्रिंशत् कांस्यपदकानि च सन्ति। एतेषु पदकेषु दिव्याङ्गवर्गे षड्विंशतिः, उपकनिष्ठकनिष्ठयुववर्गेषु विंशतिः तथा वरिष्ठमास्टरमहामास्टरवर्गेषु द्वादश पदकानि अन्तर्भवन्ति।---------------
Hindusthan Samachar / Dheeraj Maithani