Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 03 नवंबरमासः (हि.स.)।केन्द्रीयवाणिज्योद्योगमन्त्री पीयूषगोयलः देशस्य जैव-अर्थव्यवस्थायाः विकासाय नियामकीयानुमोदनप्रक्रियां शीघ्रतरां कर्तुं, नवोद्यमेभ्यः वित्तपोषणं सुगमं कर्तुं तथा उद्योगशैक्षणिकसंस्थानयोः मध्ये सहकारितां सुदृढां कर्तुं च बलं दत्तवान्।
वाणिज्य एवं उद्योगमन्त्रालयेन मङ्गलवासरे सूचितं यत् गोयलः नवदेहल्यां स्थिते वाणिज्यभवने भारतस्य जैव-अर्थव्यवस्थायां सम्भावनाः, नवाचारस्य विकासस्य च प्रवर्धने नवोद्यमानां भूमिका इति विषये आयोजितायाः उच्चस्तरीयायाः गोलमेजगोष्ठ्याः अध्यक्षतां कुर्वन् एतत् उक्तवान्। अस्याः गोष्ठ्याः आयोजनं उद्योगस्य आन्तरिकव्यापारस्य च संवर्धनविभागेन (डीपीआईआईटी) नीत्यायोगस्य तथा नीतिफ्रण्टियरटेकहब इत्यस्य सहकारेण कृतम् आसीत्।
गोयलः स्वसम्बोधने भारतस्य वैज्ञानिकक्षमतायाः उद्यमशीलप्रतिभायाश्च उपयोगेन भारतं जैव-अर्थव्यवस्थाक्षेत्रे वैश्विकस्तरे अग्रगण्यराष्ट्ररूपेण स्थापयितुं आवश्यकतायाः विषये बलं दत्तवान्। तेन शीघ्रानुमोदनस्य, वित्तसंसाधनेषु सुगमप्रवेशस्य, साझा आधारभूतसंरचनायाः तथा उद्योगस्य, शिक्षाजगतः, सर्वकारस्य च मध्ये सुदृढसहकारितायाः महत्त्वम् अपि रेखाङ्कितम्।
तेन गोलमेजगोष्ठ्यां प्राप्तानां सुझावानां विषये निश्चितसमयसीमायां कार्यवाही कर्तुं आह्वानं कृतम्। अस्यां गोष्ठ्यां नीतिनिर्मातारः, उद्योगजगतः वरिष्ठाः प्रतिनिधयः तथा जैवऔषधीयक्षेत्रस्य नवोद्यमाः भागं गृहीतवन्तः। गोष्ठ्याः उद्देश्यं भारतस्य जैव-अर्थव्यवस्थायाः विकासं तीव्रतरं कर्तुं उपायानां विषये विचारविमर्शः आसीत्।
केन्द्रीयवाणिज्योद्योगमन्त्री एक्स इति सामाजिकमाध्यममञ्चे प्रकाशिते सन्देशे लिखितवान् यत् भारतस्य जैवऔषधीयक्षेत्रस्य जैवप्रौद्योगिकीनवोद्यमैः सह विचारविमर्शः कृतः। अस्मिन् प्रमुखानां समस्याणां चर्चा कृता तथा विकासस्य नूतनावसराणाम् अन्वेषणविषये विचारः कृतः।
तेन उक्तं यत् गोष्ठ्यां नियामकप्रक्रियाणां सरलीकरणाय, वित्तपोषणस्य सुलभप्राप्तये, पेटेण्ट् इत्यस्य अनुमोदनप्रक्रियायाः शीघ्रीकरणाय तथा स्वदेशीयक्रयव्यवस्थायाः अनुसन्धानस्य आधारभूतसंरचनायाश्च सुदृढीकरणाय समन्वितप्रयासानां आवश्यकतायाः विषये चर्चा अभवत्। एतेन सर्वकारस्य, उद्योगजगतः, अनुसन्धानसंस्थानानां च मध्ये उत्तमसहकारितया नवाचारयुक्तानां नवोद्यमानां विस्ताराय सहायता भविष्यति तथा ते भारतस्य वर्धमानायां जैव-अर्थव्यवस्थायां योगदानं दातुं समर्थाः भविष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani