Enter your Email Address to subscribe to our newsletters

रियादम् (सऊदी अरबः), 03 नवंबरमासः (हि.स.)। एशियाईफुटबॉलमहासङ्घेन एएफसी एशियाकप सऊदीअरब २०२७ इत्यस्य कार्यक्रमे परिवर्तनस्य घोषणा कृता अस्ति। पूर्वं एषा प्रतिष्ठिता प्रतियोगिता २०२७ तमवर्षस्य जनवरीमासस्य सप्तमदिनाङ्कात् फरवरीमासस्य पञ्चमदिनाङ्कपर्यन्तम् आयोजनीया आसीत्, किन्तु इदानीं सा स्थगिता अस्ति। नवीनकार्यक्रमानुसारं प्रतियोगिता २०२७ तमवर्षस्य दिसम्बरमासस्य त्रयोविंशतितमदिनाङ्कात् २०२८ तमवर्षस्य जनवरीमासस्य एकविंशतितमदिनाङ्कपर्यन्तं भविष्यति।
एशियाईफुटबॉलमहासङ्घेन एकस्मिन् वक्तव्ये सूचितं यत् मङ्गलवासरे सऊदीअरबफुटबॉलमहासङ्घेन (एसएएफएफ) तथा प्रतियोगितायाः स्थानीयायोजनासमित्या (एलओआरसी) सह विस्तृतचर्चायाः विचारविमर्शस्य च अनन्तरम् एषः निर्णयः स्वीकृतः।
क्षेत्रे वर्तमानासु असाधारणपरिस्थितिषु, व्यवस्थापकीयसमस्यासु यात्रासम्बद्धासु बाधासु च दृष्ट्वा प्रतियोगितायाः तिथिषु परिवर्तनं कृतम्। प्रतियोगितायाः नवीनतिथयः अनुमोदनार्थं फीफा-संस्थायाः समीपं प्रेषयिष्यन्ते।
एशियाईफुटबॉलमहासङ्घस्य अनुसारं वर्तमानपरिस्थितिषु पूर्वनिर्धारितकार्यक्रमानुसारं प्रतियोगितायाः आयोजनं कठिनम् अभवत्। अतः सर्वेषां भागग्राहिदलानां, अधिकारिणां, दर्शकानां तथा अन्यहितधारकाणां हितानि दृष्ट्वा प्रतियोगितायाः स्थगनम् आवश्यकम् अभवत्।
एशियाईफुटबॉलमहासङ्घेन विश्वस्तरीयप्रतियोगितायाः आयोजनार्थं प्रतिबद्धतां प्रदर्शितवतः सऊदीअरबफुटबॉलमहासङ्घस्य स्थानीयायोजनसमितेश्च प्रशंसा कृता अस्ति। तेन उक्तं यत् एशियायाः अस्याः प्रतिष्ठितायाः पुरुषराष्ट्रीयफुटबॉलप्रतियोगितायाः सफलायोजनं सुनिश्चितं कर्तुं आयोजनसमित्या, भागग्राहिसदस्यसङ्घैः, प्रायोजकैः, प्रसारणव्यावसायिकसहभागिभिश्च सह मिलित्वा कार्यं निरन्तरं करिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani