Enter your Email Address to subscribe to our newsletters

काठमांडूः, 03 नवंबरमासः (हि.स.)।
नेपालदेशे भारतस्य नवनियुक्तः राजदूतः सुधाकरदलेला स्वीयं कार्यभारं स्वीकर्तुं सोमवासरे काठमाण्डूनगरं प्राप्तवान्। अपराह्णे प्रायः द्विवादने एयर इण्डिया इत्यस्य विमानेन त्रिभुवन-अन्ताराष्ट्रियरूपविमानस्थानकं प्राप्तस्य दलेलावर्यस्य स्वागतं भारतीयदूतावासस्य उपप्रमुखेन डॉ. राकेशपाण्डेयेन तथा नेपालस्य विदेशमन्त्रालयस्य अधिकारिभिः कृतम्।
भारतीयविदेशमन्त्रालयेन कतिपयदिनानि पूर्वमेव दलेलावर्यः नेपालदेशे भारतस्य नूतनः राजदूतः नियुक्तः आसीत्। अस्मात् पूर्वं सः विदेशमन्त्रालये आर्थिकसम्बन्धानां सचिवपदे कार्यरतः आसीत्। दलेलावर्यः पूर्वम् भूटानदेशे अपि भारतस्य राजदूतरूपेण स्वसेवां प्रदत्तवान् अस्ति। एतदतिरिक्तं सः भारतीयविदेशमन्त्रालये संयुक्तसचिवरूपेण नेपालभूटानदेशसम्बद्धानां विषयाणां निरीक्षणं कुर्वतः उत्तरविभागस्य प्रभारी अपि आसीत्।
नेपालदेशे भारतस्य नूतनराजदूतरूपेण तस्य नियुक्तिः तस्मिन् समये अभवत्, यदा उभयदेशयोः मध्ये उच्चस्तरीयसम्पर्कं द्विपक्षीयसम्बन्धान् च सुदृढीकर्तुं प्रयासाः निरन्तरं प्रचलन्ति। दलेलावर्यस्य नेपालागमनानन्तरम् अधुना तेन शीघ्रमेव औपचारिकरूपेण कार्यभारः स्वीकरिष्यते इति अपेक्षा अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani