Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 03 नवंबरमासः (हि.स.)। भारतस्य द्विवारं ओलम्पिकपदकविजेत्री मनुभाकरः २०२६ तः २०३० पर्यन्तस्य कार्यकालाय अन्ताराष्ट्रियनिशानेबाजी-क्रीडामहासङ्घस्य (आईएसएसएफ) क्रीडकसमित्याः निर्वाचनं प्रतिस्पर्धिष्यते। तस्याः नाम पिस्टलवर्गस्य प्रत्याशिरूपेण प्रस्तावितम् अस्ति। अस्मिन् वर्गे द्वयोः पदयोः कृते दश प्रत्याशिनः प्रतिस्पर्धायां सन्ति।
भारतीयराष्ट्रियराइफलसङ्घस्य अनुसारं मनुभाकरः निर्वाचनार्थं क्रीडककेन्द्रितं स्वकीयम् अभिदृष्टिपत्रम् अपि प्रस्तुतवती अस्ति। तस्याः उद्देश्यम् अस्ति यत् विश्वस्य सर्वेषां निशानेबाजानां कृते क्रीडां अधिकां सुरक्षितां, सहयोगपूर्णां, सुविधायुक्तां च करणीयम्। तस्याः मतानुसारं क्रीडकानां स्वक्रीडायाः भविष्यं निर्धारयन्ति ये निर्णयाः, तेषु क्रीडकानां मतस्य प्रभावः अधिकः भवितव्यः। तस्याः अभिदृष्टिः क्रीडकजीवनस्य महत्त्वपूर्णपक्षेषु केन्द्रिता अस्ति, येषु प्रतियोगितानां स्वरूपम्, आर्थिकावसराः, मानसिकस्वास्थ्यं, वृत्तिजीवनस्य सुरक्षा तथा क्रीडायाः प्रशासनिकव्यवस्थायां क्रीडकानां प्रतिनिधित्वं च अन्तर्भवन्ति।
मनुभाकरस्य कार्यसूच्यां पुरुषाणां पञ्चविंशतिमिटर् द्रुतलक्ष्यवेधनपिस्टलस्पर्धायाः भविष्यस्य संरक्षणं प्रमुखं प्राधान्यम् अस्ति। सा एतस्याः स्पर्धायाः ओलम्पिककार्यक्रमे निरन्तरं समावेशं सुनिश्चितं कर्तुं प्रयासान् कर्तुम् इच्छति। तस्याः लक्ष्यं ओलम्पिकचक्रेषु तकनीकीनियमेषु अधिकस्थिरतायाः समर्थनम् अपि अस्ति, येन क्रीडकाः अधिकेन सातत्येन आत्मविश्वासेन च प्रतियोगितानां कृते सज्जाः भवितुं शक्नुयुः।
एतदतिरिक्तं सा अन्तरराष्ट्रीयनिशानेबाजी-क्रीडामहासङ्घस्य विश्वकपप्रतियोगितासु अधिकपुरस्कारराशेः कृते आग्रहं कर्तुम् इच्छति। तथैव दूरदर्शनप्रसारकान् प्रायोजकान् च आकर्षयितुं प्रसारणानुकूलानां प्रतियोगितास्वरूपाणां माध्यमेन व्यावसायिकावसरान् वर्धयितुम् इच्छति, येन क्रीडकानां कृते अधिकं मूल्यं सृज्येत।
मनुभाकरः निशानेबाजीक्रीडायाः वैश्विकलोकप्रियतां वर्धयितुं सामाजिकमाध्यमानां अङ्कीयमञ्चानां च समुचितोपयोगस्य पक्षे अस्ति। तस्याः अभिदृष्टौ क्रीडकानां समस्याः प्रत्यक्षतया अन्तरराष्ट्रीयनिशानेबाजी-क्रीडामहासङ्घस्य नेतृत्वं प्रति प्रेषयितुं प्रभावशालिव्यवस्थायाः निर्माणम् अपि अन्तर्भवति। सा क्रीडकानां परिवेदनानां समाधानाय सुरक्षितां गोपनीयां च व्यवस्थां निर्मातुं समर्थनं करिष्यति, येन तेषां समस्याः समये पारदर्शितया च समाधातुं शक्येरन्।
मनुः व्यावहारिकवित्तीयसुरक्षायाः तथा क्रीडाजीवनात् निवृत्त्यनन्तरं वृत्तिपरिवर्तनस्य अवसरानां च समर्थनं कर्तुम् इच्छति, येन क्रीडकाः क्रीडातः निवृत्तेः अनन्तरम् अपि स्थिरं जीवनं निर्मातुं शक्नुयुः।
स्वकीयायाः प्रत्याशितायाः विषये मनुभाकरः उक्तवती यत् अन्तरराष्ट्रीयनिशानेबाजी-क्रीडामहासङ्घस्य क्रीडकसमित्यै नामाङ्किता भवितुं मम कृते सम्मानस्य विषयः अस्ति। मम विश्वासः अस्ति यत् क्रीडकाः केवलं क्रीडायाः भागाः न भवेयुः, अपितु तस्याः भविष्यनिर्धारणे अपि सक्रियभूमिकां निर्वहेयुः।
सा अग्रे उक्तवती यत् मम लक्ष्यं प्रतियोगितानां नियमेषु अधिकस्थिरतायाः, उत्तमवित्तीयव्यावसायिकावसराणां, क्रीडककल्याणाय सुदृढव्यवस्थायाः तथा स्वसमस्याः प्रस्तुतुं सुलभमञ्चस्य उपलब्धतायाः दिशि कार्यं करणीयम् अस्ति। अहम् एतादृशं वातावरणं निर्मातुं योगदानं दातुम् इच्छामि, यत्र क्रीडकानां वचनं श्रूयेत, तेभ्यः समर्थनं प्राप्येत तथा ते स्वकीयस्य क्रीडाजीवनकाले ततः परं च सुरक्षिताः अनुभवेयुः।
अन्तरराष्ट्रीयनिशानेबाजी-क्रीडामहासङ्घस्य क्रीडकसमित्याः निर्वाचनं द्वयोः चरणयोः आयोज्यते। प्रथमं चरणम् अक्टोबरमासस्य सप्तदशतः एकोनविंशतिदिनाङ्कपर्यन्तं काहिरानगरे आयोजितायां त्रिशतमीटर् राइफलविश्वचैम्पियनशिप् इति विश्वप्रतियोगितायां सम्पन्नम् अभवत्। द्वितीयं चरणं नवम्बरमासस्य तृतीयतः त्रयोदशदिनाङ्कपर्यन्तं दोहानगरे आयोज्यमानायां अन्ताराष्ट्रियलक्ष्यसाधन-क्रीडामहासङ्घस्य राइफल, पिस्टल, शॉटगन इति स्पर्धानां विश्वप्रतियोगितायां प्रचलति।
अन्ताराष्ट्रियलक्ष्यसाधन-क्रीडामहासङ्घस्य क्रीडकसमितिः क्रीडकानां अन्तरराष्ट्रीयनियामकसंस्थायाश्च मध्ये महत्त्वपूर्णं सम्पर्कसूत्ररूपेण कार्यं करोति। एषा क्रीडकानां कृते एतादृशं मञ्चं प्रददाति, यत्र ते निशानेबाजीक्रीडायाः विकासस्य सञ्चालनस्य च सम्बन्धितासु चर्चासु स्वकीयम् योगदानं दातुं शक्नुवन्ति। अस्याः समित्याः दायित्वेषु क्रीडकेभ्यः प्रतिक्रियाणां प्राप्तिः, नियमानां विनियमानां च विषये परामर्शः, उत्तमप्रतियोगितापरिस्थितीनां क्रीडककल्याणस्य च समर्थनम् तथा निष्पक्षक्रीडायाः प्रवर्धनाय कार्यं करणं च अन्तर्भवति।
---------------
Hindusthan Samachar / Dheeraj Maithani