Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 03 नवंबरमासः (हि.स.)।
केन्द्रीयनवीननवीकरणीयऊर्जामन्त्री प्रह्लादजोशी मङ्गलवासरे सूचितवान् यत् भारतं नवीकरणीयऊर्जाशिखरसम्मेलनम् २०२६ इत्यस्य अवसरे अन्तरराष्ट्रीयसौरगठबन्धनस्य नवमे अधिवेशने निरन्तरं तृतीयवारं अध्यक्षत्वेन निर्वाचितम् अस्ति। फ्रान्सदेशः पुनः गठबन्धनस्य सहाध्यक्षत्वेन निर्वाचितः इति विषये तेन अभिनन्दनं प्रदत्तम्।
केन्द्रीयनवीननवीकरणीयऊर्जामन्त्री उक्तवान् यत् अन्तरराष्ट्रीयसौरगठबन्धनस्य नवमे अधिवेशने वयं पुनः एकं मौलिकं विश्वासं दृढीकृतवन्तः यत् प्रगतिः तदैव सार्थिका भवति, यदा तस्याः लाभः सर्वेभ्यः प्राप्यते। जोशी उक्तवान् यत् सर्वैः सदस्यदेशैः भारतस्य विषये विश्वासः प्रकटितः अस्ति। अस्य कृते भारतसर्वकारस्य पक्षतः सः सर्वेभ्यः सदस्यदेशेभ्यः कृतज्ञतां प्रकटितवान्। तेन अन्तरराष्ट्रीयसौरसहकारितां प्रवर्धयितुं प्रगतेः लाभं च समानरूपेण सर्वेभ्यः प्रदातुं भारतस्य प्रतिबद्धता पुनः दृढीकृता।
सः उक्तवान् यत् भारतं शक्तिसम्पादनाय ऊर्जा इति दृष्टिकोणेन तथा एकः सूर्यः, एकं विश्वम्, एकः विद्युद्वितरणजालम् इति सिद्धान्तेन अन्तरराष्ट्रीयसौरसहकारितां प्रवर्धयितुं प्रतिबद्धम् अस्ति। जोशी उक्तवान् यत् एष एव विश्वासः वर्षे २०१५ भारतं फ्रान्सदेशं च संयुक्तरूपेण अन्तरराष्ट्रीयसौरगठबन्धनस्य स्थापनायै प्रेरितवान् आसीत्। सः अवदत् यत् अद्य अन्तरराष्ट्रीयसौरगठबन्धने १३० हस्ताक्षरकर्तृसदस्यदेशैः सह एषः दृष्टिकोणः अन्तरराष्ट्रीयसहकारितायाः सशक्तं मञ्चं जातम् अस्ति। विशेषतः वैश्विकदक्षिणस्य देशानां कृते अस्य महत्त्वम् अस्ति।
चतुर्दिवसीयस्य भारतनवीकरणीयऊर्जाशिखरसम्मेलनस्य प्रदर्शिन्याः च २०२६ इत्यस्य उद्घाटनं प्रधानमन्त्रिणा नरेन्द्रमोदिना नवम्बरमासस्य द्वितीये दिनाङ्के कृतम् आसीत्। एतत् सम्मेलनं नवम्बरमासस्य पञ्चमे दिनाङ्के सम्पन्नं भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani