ऊर्जाक्षेत्रे आत्मनिर्भरत्वस्य नूतनं अनुसन्धानकेन्द्रं भविष्यति भारतम्, हरितहाइड्रोजनतः कार्बनग्रहणपर्यन्तं प्रौद्योगिकीनां विकासं करिष्यन्ति आईआईटी-संस्थानानि उद्योगाश्च
आईआईटी गुवाहाटी तथा उच्च-प्रौद्योगिकीकेन्द्रयोः मध्ये अभवत् सन्धिपत्रम् गुवाहाटी, ०३ नवम्बरमास: (हि.स.)। स्वच्छऊर्जाक्षेत्रे वैश्विकप्रतिस्पर्धायाः मध्ये भारतं स्वस्य पेट्रोलियम, प्राकृतिकगैस तथा ऊर्जोद्योगं अत्याधुनिकानुसन्धानेन सह संयोजयितुं महत
आईआईटी गुवाहाटी और उच्च प्रौद्योगिकी केंद्र के बीच समझौता हुआ


आईआईटी गुवाहाटी तथा उच्च-प्रौद्योगिकीकेन्द्रयोः मध्ये अभवत् सन्धिपत्रम्

गुवाहाटी, ०३ नवम्बरमास: (हि.स.)। स्वच्छऊर्जाक्षेत्रे वैश्विकप्रतिस्पर्धायाः मध्ये भारतं स्वस्य पेट्रोलियम, प्राकृतिकगैस तथा ऊर्जोद्योगं अत्याधुनिकानुसन्धानेन सह संयोजयितुं महत्त्वपूर्णं पदं गृह्णाति। अस्यैव क्रमे भारतीयप्रौद्योगिकीसंस्थानं गुवाहाटी पेट्रोलियम-प्राकृतिकगैस-मन्त्रालयस्य उच्चप्रौद्योगिकीकेन्द्रेण सह महत्त्वपूर्णं सन्धिपत्रं हस्ताक्षरितवान्।

अस्य प्रमुखम् उद्देश्यम् अस्ति—हरितहाइड्रोजनम्, ऊर्जासञ्चयनम्, कार्बनग्रहणम्, पेट्रोरसायनानि, महत्त्व-पूर्णखनिजानि तथा स्वच्छेन्धनम् इत्येतेषु क्षेत्रेषु देशस्य स्वकीयां प्रौद्योगिकीक्षमतां विकसितुम्। अस्याः सहभागितायाः माध्यमेन उद्योगस्य वास्तविकसमस्यानां समाधानाय पीएचडी-अनुसन्धानात् आरभ्य प्रायोजितानुसन्धानम्, उत्कृष्टता-केन्द्राणां स्थापना, परीक्षणसुविधानां विकासः तथा नवीनप्रौद्योगिकीनां व्यावसायिकीकरणम् इत्यादीनां समा-वेशेन व्यापकव्यवस्था निर्मास्यते।

विशेषं तु इदं यत् संयुक्तानुसन्धानार्थं चयनितेभ्यः पीएचडी-शोधार्थिभ्यः प्रचलितेभ्यः सीएसआईआर, यूजीसी-नेट तथा संस्थागतवृत्तिदरेभ्यः २५ प्रतिशतं अधिका शोधवृत्तिः प्रदास्यते। एषा पहल् तस्मिन् समये कृता अस्ति, यदा भारतस्य समक्षम् एकतः ऊर्जायाः वर्धमानमागधां पूरयितुं समस्या अस्ति, अपरतः स्वच्छेन्धनस्य उपयोगे, कार्बन-उत्सर्जनस्य न्यूनीकरणे तथा नेट्-जीरो-लक्ष्यप्राप्तौ च तीव्रगत्या अग्रे गन्तुम् आवश्यकता वर्तते।

अस्याः सहभागितायाः माध्यमेन देशस्य उच्चशिक्षणसंस्थानानां ऊर्जोद्योग-विशेषज्ञाश्च मिलित्वा अनुसन्धानं करिष्यन्ति। अनेन प्रयोगशालासु विकसितानां प्रौद्योगिकीनां औद्योगिकाव-श्यकतानुसारं निर्माणाय तथा तासां व्यावहारिकोपयोगाय मार्गः प्रशस्तः भविष्यति।

चतुर्वर्षपर्यन्तं प्रदास्यते विशेषा शोधवृत्तिः

अस्य सन्धिपत्रस्य सर्वाधिकं महत्त्वपूर्णं पक्षं सीएचटी-आईआईटीजी-अनुसन्धान-शोधवृत्तिकार्यक्रमः अस्ति। अस्य अन्तर्गतं प्रतिवर्षं अधिकतमाः त्रयः पीएचडी-शोधार्थिनः चयनिताः भविष्यन्ति। एकस्मिन् समये अस्य कार्यक्रमस्य अन्तर्गतं अधिकतमं दश शोधार्थिभ्यः शोधवृत्तिः प्रदातुं शक्यते। अस्याः व्यवस्थायाः विशेषता एषा भविष्यति यत् शोधार्थिनः शैक्षणिकक्षेत्रस्य औद्योगिक-क्षेत्रस्य च विशेषज्ञानां मार्गदर्शनं प्राप्स्यन्ति। प्रत्येकस्य शोधार्थिनः कृते आईआईटी गुवाहाटी-संस्थानस्य एकः प्राध्यापकः पर्यवेक्षकः भविष्यति, यदा तु सीएचटी अथवा तेन नामनिर्दिष्टस्य उद्योगसहभागिनः विशेषज्ञः सहपर्य-वेक्षकस्य अथवा मार्गदर्शकस्य भूमिकां निर्वक्ष्यति। शोधार्थिभ्यः चतुर्वर्षपर्यन्तं विशेषा शोधवृत्तिः अपि प्रदास्यते।

हरितहाइड्रोजनतः कार्बनग्रहणपर्यन्तं विंशत्यधिकेषु क्षेत्रेषु अनुसन्धानम्

आईआईटी गुवाहाटी तथा सीएचटी-संस्थानेन अनुसन्धानार्थं विस्तृतानि क्षेत्राणि निर्धारितानि सन्ति। एतेषु भविष्यस्य ऊर्जाव्यवस्थया सम्बद्धाः बहवः विषयाः सन्ति, येषु विश्वस्य प्रमुखदेशाः तीव्रगत्या कार्यं कुर्वन्ति। हरितहाइ-ड्रोजनस्य उत्पादनार्थं विद्युत्-अपघटकानां तथा ईंधनकोशिकानां प्रौद्योगिकीनां विकासः अस्याः सहभागितायाः प्रमुखं लक्ष्यम् भविष्यति। एतदतिरिक्तम् ऊर्जासञ्चयनव्यवस्थासु अनुसन्धानं करिष्यते, येन नवीकरणीयऊर्जायाः उत्पादनस्य उपयोगस्य च मध्ये उत्तमः समन्वयः स्थापयितुं शक्येत।

कार्बनग्रहणम्, उपयोगः, सञ्चयनं च अपि प्रमुखेषु अनुसन्धानक्षेत्रेषु अन्तर्भवति। अस्य माध्यमेन औद्योगिकप्रक्रियाभ्यः निर्गच्छन्तीं कार्बन-डाइऑक्साइड्-वायुम् अवगृह्य तस्याः उपयोगः सुरक्षितसञ्चयनं च कर्तुं प्रौद्योगिकीनां विकासे कार्यं भविष्यति। कार्बन-डाइऑक्साइड्-वायोः उपयोगेन उपयोगिरसायनानां निर्माणस्य सम्भावनासु अपि अनुसन्धानं करिष्यते। पेट्रोलियम-उद्योगस्य कृते अपक्वात् तैलात् साक्षात् रसायनानां निर्माणम्, बहुलकानां, पेट्रोरसायनानां, उत्प्रेरकाणां तथा विभिन्नरासायनिकयोजकानां विकासश्च प्राथमिकतां प्राप्स्यति।

एतदतिरिक्तं संक्षारण-अभियांत्रिकी, कोयलस्य तथा जैवभारस्य गैसीकरणम्, प्रक्रियानिर्माणम्, प्रक्रियादक्षतायाः वर्धनं च इत्येतेषु विषयेṣu कार्यं भविष्यति। जलसंरक्षणम्, अपशिष्टजलस्य शोधनम्, औद्योगिकावशिष्टानां मूल्यवर्धनम्, वैकल्पिकेन्धनानि तथा नैनोप्रौद्योगिकी अपि अनुसन्धानस्य क्षेत्रेषु समाविष्टानि भविष्यन्ति। ऊर्जाक्षेत्रे अङ्कीयप्रौद्यो-गिकीनां वर्धमानोपयोगं दृष्ट्वा अङ्कीयकरणे साइबरसुरक्षायां च विशेषं ध्यानं दास्यते।

एतेषां विषयाणां महत्त्वम् अत एव वर्धते, यतः भारतं ऊर्जोत्पादनेन औद्योगिक-विकासेन च सह पर्यावरणीयसन्तुलनम् अपि संरक्षितुम् इच्छति। अतः नवीनप्रौद्योगिकीनां विकासेन आयात-निर्भरता न्यूनीकर्तुं, संसाधनानां समु-चितोपयोगं कर्तुं तथा औद्योगिकप्रक्रियाः अधिकदक्षाः कर्तुं च सहायता भविष्यति।

संयुक्तं ऊर्जा-विचारकेन्द्रं स्थापितं भविष्यति

समझौतापत्रानुसारम् आईआईटी गुवाहाटी-संस्थाने संयुक्तरूपेण उत्कृष्टता-केन्द्राणि स्थापयितुं योजना अपि अस्ति। एतेषां केन्द्राणां माध्यमेन अनुसन्धानस्य, विकासस्य तथा नवाचारस्य सुदृढं तन्त्रं निर्मास्यते। अस्य सन्धिपत्रस्य अन्यत् महत्त्वपूर्णं पदं संयुक्तस्य ऊर्जा-विचारकेन्द्रस्य स्थापना अस्ति। अस्य उद्देश्यम् पेट्रोलियम-प्राकृतिकगैस-मन्त्रालयाय ऊर्जाक्षेत्रसम्बद्धानां नीति-निर्माणे प्रौद्योगिकीयुक्तं अनुसन्धानाधारितं च सहयोगं प्रदातुम् अस्ति।

एतदतिरिक्तम् आईआईटी गुवाहाटी-संस्थाने परिष्करणागाराणां ऊर्जोद्योगस्य च सम्बन्धिताः परीक्षणसुविधाः संयुक्तरूपेण स्थापिताः भविष्यन्ति। अनेन नवीन-प्रौद्योगिकीनां औद्योगिकप्रक्रियाणां च परीक्षणार्थं संस्थाने उत्तमाः आधार-भूतसुविधाः उपलब्धाः भविष्यन्ति।

परिष्करणागारविशेषज्ञेभ्यः प्रशिक्षणं प्राप्स्यन्ति

अस्याः सहभागितायाः अन्तर्गतं सीएचटी तथा भारतीयपरिष्करणागाराणां सहयोगेन नियमितरूपेण राष्ट्रिय-अन्ताराष्ट्रिय-प्रशिक्षणकार्यक्रमाः आयोजयिष्यन्ते। एतेषु कार्यक्रमेषु पेट्रोलियमशोधनं पेट्रोरसायन-प्रौद्योगिकी च, संक्षारणम्, सम्पत्त्याः अखण्डता, हरितहाइड्रोजनम्, कार्बन-ग्रहणम्, अग्निसुरक्षा, प्रक्रियासुरक्षा, उन्नतप्रक्रिया-नियन्त्रणम्, जैविके-न्धनानि तथा ऊर्जासंक्रमणम् इत्यादयः विषयाः समाविष्टाः भविष्यन्ति। एतदतिरिक्तं तैल-गैस, जैविकेन्धन तथा हरितऊर्जा-प्रौद्योगिकीनां क्षेत्रेषु आईआईटी गुवाहाटी-संस्थानस्य प्राध्यापकानां उद्योग-विशेषज्ञानां च कृते अल्पकालिकं प्राध्यापकावकाशं तथा निगमसहायताप्रदं शोधवृत्तिकार्यक्रमं च व्यवस्थापयिष्यते।

आईआईटी गुवाहाटी-संस्थानस्य निदेशकः प्रोफेसर देवेन्द्रजलीहालः मङ्गलवासरे अवदत् यत् उच्चप्रौद्योगिकीकेन्द्रेण सह एषा सहभागिता शोधार्थिनः साक्षात् तैल-गैस तथा ऊर्जोद्योगेन सह संयोजयति। संयुक्तमार्गदर्शने सम्पन्नैः पीएचडी-अनुसन्धानैः, प्रायोजितपरियोजनाभिः तथा प्रशिक्षणकार्यक्रमैः उद्योगस्य वास्तविक-समस्यानां समाधानविकासे सहायता भविष्यति। तथैव भारतस्य ऊर्जासंक्रमणाय आवश्यकस्य कुशलकार्यबलस्य निर्माणस्य मार्गः अपि प्रशस्तः भविष्यति।

गोवायां हस्ताक्षरितं सन्धिपत्रम्, मन्त्रालयस्य संस्थानस्य च वरिष्ठा-धिकारिणः उपस्थिताः

अस्मिन् सन्धिपत्रे गोवास्थिते ओएनजीसी-संस्थायाः उन्नतप्रशिक्षणसंस्थाने हस्ता-क्षराणि कृतानि। आईआईटी गुवाहाटी-संस्थानस्य प्रशासनस्य अधिष्ठाता प्रोफेसरः सुकुमारनन्दी तथा पेट्रोलियम-प्राकृतिकगैसमन्त्रालयस्य उच्च-प्रौद्योगिकीकेन्द्रस्य कार्यकारीनिदेशकः शङ्करगुनासेकरन् च समझौतापत्रे हस्ताक्षरं कृतवन्तौ। अस्मिन्नवसरे पेट्रोलियम-प्राकृतिकगैस-मन्त्रालयस्य सचिवः डॉ. नीरजमित्तलः, संयुक्तसचिवः आलोकत्रिपाठी तथा आईआईटी गुवाहाटी-संस्थानस्य रसायन-अभियांत्रिकी-विभागस्य डॉ. सुमितकुमारः अपि उपस्थिताः आसन्।

उल्लेखनीयम् अस्ति यत् भारतस्य ऊर्जाक्षेत्रे स्वच्छेन्धनस्य, पेट्रोरसायनानां एकीकरणस्य तथा नेट्-जीरो-लक्ष्याणां दिशि अग्रे गच्छतः प्रयासानां मध्ये एषा सहभागिता शैक्षणिकानुसन्धानं औद्योगि-कावश्यकताभिः सह संयोजयितुं महत्त्वपूर्णः प्रयासः अस्ति। अनेन देशे ऊर्जाप्रौद्योगिकीनां विकासाय, विशेषज्ञ-मानवसंसाधनस्य निर्माणाय तथा स्वदेशीयनवाचाराणाम् उद्योगक्षेत्रे प्रसाराय च संयुक्तमञ्चस्य विकासः सम्भविष्यति।

Hindusthan Samachar / Divya Ranjan